________________
द्वितीये काण्डे
"न प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य संभवः। तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते” ॥ [
] इति । [सौगतसंमतं प्रमाणद्वित्ववादं प्रतिवदितुं मीमांसकेने शाब्दस्य प्रमाणान्तरत्वस्थापनम् ] __ अत्राह मीमांसकः-"शब्दज्ञानादसन्निकृष्टेऽर्थे बुद्धिः शाब्दम्" [१-१-५ शाबरभा०] इति ५वचनात् ।
"शब्दादुदेति यद् ज्ञानमप्रत्यक्षेऽपि वस्तुनि।
शाब्दं तदिति मन्यन्ते प्रमाणान्तरवादिनः" ॥ [ इतिलक्षणलक्षितस्य प्रमाणान्तरस्य सद्भावात् कथं द्वे एव प्रमाणे? न चार्य प्रत्यक्षप्रमाणता सविकल्पकत्वात् । नाप्यनुमानता त्रिरूपलिङ्गाप्रभवत्वात् अनुमानगोचराविषयत्वाच्च । तदुक्तम्
तस्मादननुमानत्वं शाब्दे प्रत्यक्षवद भवेत् ।
त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात्" ॥ [श्लो० वा० शब्दप० ९८] तथाहि-न शब्दस्य पक्षधर्मत्वम् धर्मिणोऽयोगात् । न चार्थस्य धर्मित्वम् तेन तस्य सम्बन्धासिद्धेः। न चाप्रतीतेऽर्थे तद्धर्मतया शब्दस्य प्रतीतिः संभविनी प्रतीते चार्थे न तद्धर्मताप्रतिपत्तिः शब्दस्योप
योगिनी तामन्तरेणाप्यर्थस्य प्रागेव प्रतीतेरन्यथा तस्य तद्धर्मतया प्रतीत्ययोगात् । भवतु वार्थो धर्मी १५तथापि किं तत्र साध्यमिति वक्तव्यम् ? सामान्यमिति चेत्, न; तस्य धर्मिपरिच्छेदकाल एव सिद्धत्वात् तदपरिच्छेदे धर्मिपरिच्छेदायोगात् “नागृहीतविशेषणा विशेष्ये बुद्धिः”[ ] इति न्यायात् । न च सामान्यं धर्मि अर्थविशेषस्तत्र साध्यो धर्मः उक्तदोषानतिक्रमात् विशेषस्य चानन्वयात् । अथ शब्दो धर्मी अर्थवानिति साध्यो धर्मः शब्द एव च हेतुः, न; प्रतिज्ञार्थंकदेशत्वप्राप्तः। अथ शब्दत्वं हेतुरिति न प्रतिज्ञार्थंकदेशत्वं दोषः, न; शब्दत्वस्यागमकत्वाद् गोशब्दत्वस्य २० च निषेत्स्यमानत्वेनासिद्धत्वात् । अत एवानुमानतुल्यविषयताऽपि न शाब्दे संभवति । तदुक्तम्
१ सौगतसंमतं प्रमाणद्वैविध्यं पूर्वपक्षयिला जयन्तभट्टेन प्रत्युक्तम् तच्च
"ते हि प्रमेयद्वैविध्यात् प्रमाणं द्विविधं जगुः । नान्यः प्रमाणभेदस्य हेतुर्विषयभेदतः" ॥ इत्यादिकं
इत्युद्धताखिलपरोदितदोषजातसंपातभीतिरिह संप्लव एष सिद्धः।
सर्वाश्च सौगतमनस्सु चिरप्ररूढा भग्नाः प्रमाणविषयद्यसिद्धिवाञ्छाः" ॥ इत्यन्तं न्यायमञ्जरीतोऽवबोद्धव्यम्-पृ. २८-३६ । २ शाब्दं प्रमाणान्तरखेनानङ्गीकृतवतः शाक्यवैशेषिकानधिक्षिप्य कुमारिलभट्टेन तत् प्रमाणान्तरलेन व्यवास्थापि तच
"तत्रानुमानमेवेदं बौद्धवैशेषिकैः श्रितम्"। इत्यादितः
"दृष्ट्वाऽनुमानव्यतिरेकभीताः क्लिष्टाः पदाभेदविचारणायाम्"। इतिपर्यन्तं श्लोकवार्तिकतोऽवसेयम्-पृ. ४१०-४३३।
३ "शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानम्"-शाबरभा० पृ० ८५० १२ । “तत्र शबरखामी शाब्दलक्षणमाह-शब्दज्ञानादसन्निकृष्टेऽर्थज्ञानं शाब्दमिति । शब्दखलक्षणग्रहणादुत्तरकालं परोक्षेऽर्थे यद् उत्पद्यते ज्ञानम् तत् शब्दादागतमिति कृत्वा शाब्दप्रमाणम्"-तत्त्वसं० पञ्जि० पृ. ४३४ पं०३-५। ४ शाब्दस्य प्रमाणान्तरत्वं स्थापयन्त्येषा सकलाऽपि सपद्या चर्चा शब्दसाम्यमजहती प्रमेयकमलमार्तण्डे अधिकविशदतया वर्तते-पृ. ४७ द्वि. पं० २-पृ. ४८ प्र. पं० ५। ५-णेन न चा-बृ० । ६ प्रमाणान्तरपरीक्षायां शाब्दविचारे पूर्वपक्ष स्थापयन् शान्तरक्षितो भङ्गयन्तरेणैतदेवाभिव्यक्तवान् । तथाहि
"शब्दज्ञानात् परोक्षार्थज्ञानं शाब्दं परे जगुः । तच्चाकर्तृकतो वाक्यात् तथाप्रत्ययिनोदितात् ॥ इदं च किल नाध्यक्ष परोक्षविषयत्वतः । नानुमानं च घटते तल्लक्षणवियोगतः" ॥
-तत्त्वसं० का० १४८९-१४९० पृ. ४३३ । ७ तत्त्वसं• का० १४९८ पृ. ४३५। ८ "तद्धमताप्रतिपत्तिम्"-. टि.। ९धर्मप-बृ० । १० पृ. ४७९ पं० १०, टि.४। ११-यादेव श-हा०वि०। १२ धर्मो अ-आ० हा०वि०। १२ "हेतुल"-बृ.टि.।