________________
ज्ञानमीमांसा ।
५७३ [४ प्रमाणसङ्ख्यानिरूपणम् ] [प्रत्यक्षभिन्नानि प्रमाणान्यनुमानेऽन्तर्भावयतां प्रमाणद्वयवादिनां सौगतानां विचारप्रक्रिया ]
अप्रत्यक्षस्य चार्थस्य स्वसाध्येन धर्मिणा च सम्बद्धाद् अन्यतः सामान्याकारेण प्रतिपत्तेः यदप्रत्यक्षार्थविषयं प्रमाणं तदनुमानेऽन्तर्भूतमिति प्रत्यक्षानुमानलक्षणे द्वे एव प्रमाणे । तथाहि-न परोक्षोऽर्थः स्वत एव तदाकारोत्पत्त्या प्रतीयते प्रमाणेन तस्यापरोक्षत्वप्रसक्तेः । विकल्पमात्रस्य च५ स्वतन्त्रस्य राज्यादिविकल्पवदप्रमाणत्वात् तदप्रतिबद्धस्यावश्यतया तव्यभिचाराभावात् । न च स्वसाध्येन विनाभूतोऽर्थो गमकः अतिप्रसक्तेः धर्मिसम्बन्धानपेक्षस्यापि गमकत्वे प्रत्यासत्तिविप्रकर्षाभावात् सर्वत्र प्रतिपत्तिहेतुर्भवेत् । यश्चैवंविधार्थप्रतिपत्तिनिवन्धनं प्रमाणं तदनुमानमेव तस्यैवंलक्षणत्वात् तथा च प्रयोगः–यदप्रत्यक्ष प्रमाणं तदनुमानान्तर्भूतम् यथा लिङ्गबलभावि अप्रत्यक्षप्रमाणं च शाब्दादिकं प्रमाणान्तरत्वेनाभ्युपगम्यमानमिति स्वभावहेतुः । यच्च यत्रान्तर्भूतं तस्य न १० ततो बहिर्भावः यथा प्रसिद्धान्तर्भावस्य क्वचित् कस्यापि अन्तर्भूतं चेदं सर्व प्रत्यक्षादन्यत् प्रमाणमनुमान इति विरुद्धोपलब्धिः अन्तर्भाव-बहिर्भावयोः परस्परपरिहारस्थितलक्षणतया विरोधात् । अत एव "प्रत्यक्षस्याभावविषयत्वविरोधान्न ततः प्रमाणान्तराभावोऽवसातुं शक्यः नापि कार्यस्वभावलक्षणादनुमानात् कार्यस्वभावयोर्विधिसाधकत्वेनाभावसाधने व्यापारानभ्युपगमात् कारणव्यापकानुपलब्ध्योस्तु अत्यन्तासत्तयोपगते प्रमाणान्तरेऽभावसाधकत्वेन व्यापार एव न संगच्छते १५ अत्यन्तासतस्तस्य कार्यत्वेन व्याप्यत्वेन वा कस्यचिदसिद्धेः । तयोश्च कार्यकारणव्याप्यव्यापकभावसिद्धावेव व्यापाराद विरुद्धविधिरप्यत्रासंभवी सहानवस्थानलक्षणस्य विरोधस्यात्यन्ता त्यसिद्धेः" [ ] इत्यादि यत् परेणोच्यते तदपास्तं द्रष्टव्यम् यथाप्रदर्शितन्यायेन स्वभावविरुद्धोपलब्धेरत्र व्यापारात् । स्यादेतत् भवतु परोक्षविषयस्य प्रमाणस्यानुमानेऽन्तर्भावः अर्थान्तरविषयस्य च तस्यासावयुक्तः, न; प्रत्यक्षपरोक्षाभ्यामन्यस्यार्थस्याभावात् प्रमेयरहितस्य च प्रमाणस्य प्रामाण्यासंभवात् २० प्रमीयतेऽनेनेत्यागृहीतप्रमेयस्यैव प्रमाणमिति व्युत्पत्त्या तस्य प्रमाणत्वव्यवस्थितेः। तथाहि-यविद्यमानप्रमेयं न तत् प्रमाणम् यथा केशोन्दुकादिज्ञानम् अविद्यमानप्रमेयं च प्रमेयद्वयातिरिक्तविषयतयाऽभ्युपगम्यमानं प्रमाणान्तरमिति कारणानुपलब्धिः प्रमेयस्य साक्षात् पारम्पर्येण वा प्रमाण प्रति कारणत्वात् । तदुक्तम्-"नाननुकृतान्वयव्यतिरेकं कारणम् नाकारणं विषयः" [
] इति । न च प्रत्यक्ष-परोक्षातिरिक्तप्रमेयान्तराभावप्रतिपादकप्रमाणान्तराभावादसिद्धो हेतुरिति २५ वक्तव्यम् अध्यक्षेणैव प्रमेयान्तरविरहप्रतिपादनात् । तँद्धि पुरःस्थितार्थसामर्थ्यादुपजायमानं तदात्मनियतप्रतिभासावभासादेव तस्य प्रत्यक्षव्यवहारकारणं भवति तदन्यात्मतां च तस्य व्यवच्छिन्दानमन्यदर्थजातं सकलं राश्यन्तरत्वेन व्यवस्थापयत् तृतीयप्रकाराभावं च साधयति तत्राप्रतीयमानस्य सकलस्यार्थजातस्यान्यत्वेन परोक्षतया व्यवस्थापनादन्यथा तस्य तदन्यात्मताऽव्यवच्छेदे तद्रूपतया परिच्छेदो न भवेदिति न किञ्चिदध्यक्षेणावगतं भवेत् । प्रतिनियतस्वरूपता हि भावानां प्रमाणतो ३० व्यवस्थिता अन्यथा सर्वस्य सर्वत्रोपयोगादिप्रसङ्गतः प्रतिनियतव्यवहारोच्छेदप्रसक्तिर्भवेत् । सा चेन्न प्रत्यक्षावगता किमन्यद् रूपं तेन तस्यावगतमिति पदार्थस्वरूपावभासिना प्रमेयान्तराभावः प्रतिपादित एव । अनुमानतोऽपि तदभावः प्रतीयत एव अन्योन्यव्यवच्छेदरूपाणामितरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थापनात् । प्रयोगश्चात्र-यत्र यत्प्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्था न तत्र प्रकारान्तरसम्भवः तद्यथा-पीतादौ नीलप्रकारव्यवच्छेदेनाऽनीलप्रकारव्यवस्थायाम अस्ति च ३५ प्रत्यक्ष-परोक्षयोरन्यतरप्रकारव्यवच्छेदेनेतरप्रकारव्यवस्था व्यवच्छिद्यमानप्रकाराविषयीकृते सर्वस्मिन् प्रमेय इति विरुद्धोपलब्धिः तदतत्प्रकारयोः परस्परपरिहारस्थितलक्षणत्वात् । अतः प्रमेयान्तराभावान्न प्रमाणान्तरभावः। उक्तंच
१-माने द्वे भा० म०। २-कर्षभा-बृ० ल.। ३ "अत एव तदपास्तं द्रष्टव्यमिति दूरतः संटङ्कः"-बृ. ल.टि.। ४-सत्य-बृ० । सप्तम्येकवचनसूचकमकद्वयम् । ५न च प्र-आ० हा०वि०। ६ पृ० ५१० ५० १, टि.१। ७“प्रत्यक्ष-" बृ.टि.। ८तदान्यात्मनां च त-वा. बा०। ९-त्मतां अ-बृ० । १०-कारविवा. बा. भा. मां०। ११ अतः शब्दज्ञानात प्रमेया-आ० हा० वि०।