________________
५७२
द्वितीये काण्डेभवितव्यम् पृथिव्यादेश्व समवायिकारणत्वनिषेधे आकाशस्यैव समवायिकारणत्वम् तस्यैकत्वं पूर्ववद् द्रष्टव्यम् । अत एकद्रव्यत्वं शब्दस्य सिद्धमिति प्रतिषिध्यमानकर्मत्वे एकद्रव्यत्वात् रूपादिवद् गुणः शब्दः सिद्ध इति न दृष्टान्तासिद्धिः। प्रतिषिध्यमानकर्मत्वं च 'शब्दः कर्म न भवति शब्दान्तरहेतुत्वात् आकाशवत्' शब्दान्तरहेतुत्वं च शब्दस्य कार्यत्वाव्यापकत्वाभ्यां सिद्धम् कार्य हि पूर्ववत् समवायि५कारणापेक्षम् पृथिव्यादेश्च समवायिकारणत्वनिषेधात् व्योम्नस्तं प्रति समवायिकारणता शब्दस्य च प्रत्यक्षत्वान्यथाऽनुपपत्त्या सन्तानकल्पना सन्तानश्च शब्दान्तरहेतुत्वमन्तरेणानुपपन्न इति नासिद्धौ हेतु-दृष्टान्तौ । प्रतिषिध्यमानकर्मत्वं चेच्छादीनां कर्मत्वानधिकरणतयाध्यक्षप्रतिपत्तित एव सिद्धम् एकद्रव्यत्वं च यज्ञदत्तेच्छादीनां देवदत्तादावनुभवाभावतो व्यवस्थितमेव । } असदेतत् कार्यत्वस्य
समवायिकारणप्रभवत्वेन शब्दादावसिद्धेर्न पूर्वोक्तप्रक्रिययाऽप्येकद्रव्यत्वसिद्धिः। अत एव शब्दान्तर१० हेतुत्वान्न कर्मत्वप्रतिषेधः शब्दस्य हेतु-दृष्टान्तयोरसिद्धेः न हि शब्दलक्षणस्य कार्यस्य निराधारस्य
सम्भवे व्योम्नः समवायिकारणत्वेन शब्दान्तरहेतुत्वं शब्दस्य वाऽसमवायिकारणत्वेन तद् युक्तम् । न च शब्दप्रत्यक्षताऽन्यथानुपपत्या सन्तानकल्पना युक्तिसङ्गता तामन्तरेणापि शब्दप्रत्यक्षतोपपत्तेः प्रतिपादनात् । एकद्रव्यत्वस्य प्रतिषिध्यमानकर्मत्वस्य चेच्छादिष्वध्यक्षत एव सिद्धौ गुणत्वसमवायाद् गुणरूपताया अपि तत एव सिद्धरनुमानोपन्यासस्य वैयर्थ्य स्यात् । न चाध्यक्षसिद्धेऽपि गुणत्वयोगे १५म्यवहारसाधनार्थ तदुपन्याससाफल्यम् तहुणत्वस्य समवायस्य वाऽध्यक्षप्रतिपत्तौ कदाचिदप्यप्रति
भासनात् । एतेन 'गुणत्वयोगात् रूपादयो गुणाः' इति निरस्तम् गुणत्वसमवायस्य व्यतिरेकिहेतो रूपादिषु गुणव्यवहारसाधकस्यासिद्धेः । यदपि इच्छादेः पारतच्यमात्रप्रतिपत्ती गुणत्वं कार्यत्वं वा पूर्ववदित्यादित्रयाणामपि हेतूनां विभागेनोदाहरणप्रदर्शनम् तदप्यसङ्गतमेव; गुणत्वकार्यत्वयोर्यथोक्तप्रकारेण पारतत्र्यप्रतिपत्तौ हेतुत्वासंभवतःसर्वस्यानुपपत्तिकत्वादित्यलमतिप्रसङ्गेन । एतेन सांख्यपरि२० कल्पितमपि पूर्ववत् शेषवत् सामान्यतोदृष्टं चेति त्रिविधमनुमानं निरस्तम् न्यायस्य समानत्वात् । यदपि "तल्लिङ्ग-लिङ्गिपूर्वकम्" [साङ्ख्यका०५] इत्यनुमानलक्षणं तैरभ्यधायि तदपि यद्यस्मत्प्रणीताजुमानलक्षणानुयायि न व्याख्यायते तदा प्रतिवन्धग्राहकप्रमाणासंभवतः प्रदर्शितन्यायेन नानु. मेयप्रतिपत्त्यङ्गम् । अथानुयायितया तदैतदेव लक्षणं शब्दान्यत्वेऽप्यभ्युपगतमिति न विप्रतिपत्तिः।
[सौगतैर्मीमांसकीयमनुमानलक्षणमुपन्यस्य तस्य स्वमतानुसारित्वाविष्करणम् ] २५ "ज्ञातसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिरनुमानम्" [१-१-५ शाबरभा०] इति शाबरमनुमानलक्षणम् । अत्र च यदि दर्शनादर्शननिवन्धनं सम्बन्धग्रहणमाश्रीयते तदा तत्पुत्रत्वादेरप्यनुमानत्वसंभवादतिव्याप्तिर्लक्षणदोपः । अथ न सहभावदर्शनमात्रात् सम्बन्धावगमः किन्तु विपर्यये हेतोर्बाधकप्रमाणबलात् न च तदत्रास्तीति नातिव्याप्तिः । ननु किं पुनर्विपर्यये बाधकप्रमाणम् ?
अदर्शनमिति चेत् स्वसम्बन्धिनोऽदर्शनस्यात्रापि सद्भावात् सर्वसम्बन्धिनोऽन्यत्राप्यसिद्धेर्न ह्या३० ग्शा देशकालविप्रकृष्टाःसाध्यविकला हेतुरहितत्वेन सकलार्था निश्चेतुं शक्याः अथ कारणव्यापकानु
पलब्धिविरुद्धविधीनामन्यतमद् बाधकं प्रमाणं तर्हि कार्यकारणव्याप्यव्यापकभावविरोधसिद्धौ प्रमाणतस्तत् प्रवर्तत इति कार्यकारणभावादिकः सम्बन्धस्तदवगमनिमित्तं चाध्यक्षादिकं प्रमाणमभ्युपगन्तव्यम् । न चैवमप्यपक्षधर्मस्य हेतोर्गमकत्वं प्राक् प्रदर्शितन्यायेनोपपद्यत इति पक्षधर्मत्वमपरं रूपान्तरं लक्षणं वक्तव्यम् तथाभ्युपगमे च 'ज्ञातसम्बन्धस्य' इत्यनेनान्वयव्यतिरेकयोः संसूचनात् ३५ पक्षधर्मत्वस्य चाध्याहारात् “त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम्" [
] इत्येतदेवास्मदीयमनुमानलक्षणं भवद्भिरभ्युपगतं भवतीति सौगताः।
१ कार्यस्य बृ०। २ पृ० ५६६ ५० २६ । ३ “प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु" इति संपूर्णा कारिका।
४"अनुमानं ज्ञातसंबन्धस्यैकदेशदर्शनादेकदेशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिः"-शाबरभा० पृ० ८ पं० ८ । पृ० २० पं० १० तथा टि.५। ५-लार्थाः सर्वेनिश्चीयन्त इति निश्चेतुं शक्यम् अथ वा. बा. भां. मां-लार्थाः सबैर्निश्चीयन्त इति निश्चेतुं शक्या अथ ल.। ६ पृ. ३ पं. ३ । “तत्र त्रिरूपालिङ्गाद् यदनुमेये ज्ञानं तदनुमानम्"-न्यायवि०१-३॥