________________
ज्ञानमीमांसा।
वृष्टयनुमानं नान्यत्र व्यभिचारात् तस्य च तत्सम्बन्धित्वनिश्चये गमकत्वं नान्यथा अनैकान्तिकत्वप्रसक्तेः एवं च कथं न पक्षधर्मतानिश्चयो हेत्वङ्गम् ? तन्मातापितृव्राह्मण्यस्यापि पक्षधर्मत्वं तन्निश्चयश्च समस्त्येवान्यथागमकताऽयोगान्नात्रापि क्लेशेन पक्षधर्मत्वकल्पना ।
अथवा व्यभिचारनिमित्त एव धर्मो हेतुर्युक्तो धूमस्याग्निकार्यत्ववत् ब्राह्मणमातापितृजन्यत्वं च ब्राह्मण्यनिमित्तं शिशोरिति तदेव हेतुर्युक्तोऽन्यस्य तत्कल्पनायां क्लेशः स्यादेव । एवं चन्द्रोदयात्५ समुद्रवृझ्यनुमानं किमिति तदैव न पूर्व नापि पश्चात? तदैव व्याप्तग्रहणादिति चेत तर्हि साध्य साधनयोस्तत्कालसम्बन्धित्वमेवेति स एव कालो धर्मी तत्सम्बन्धिनश्चन्द्रोदयात् तत्रैव साध्यानुमानमिति कथमत्राप्यपक्षधर्मत्वम् ? कालानभ्युपगमे च नैतदनुमानं व्यभिचारात् । न च सौगतैः कालानभ्युपगमान्नास्यानुमानस्य सम्भवः । पूर्वाह्लादिप्रत्ययविपयस्य महाभूतविशेषस्य कालशब्दवाच्यस्याभ्युपगमात् । एवं विशिष्टपिपीलिकोत्सर्पणादेरपि पक्षधर्मता योज्या । नन्वेवमपि तदेश-१० व्याप्तिवचनेनैव गतत्वात् पक्षधर्म इति पृथग लक्षणं न वक्तव्यम् , न; अपक्षधर्मस्यापि साध्यव्याप्तस्य हेतुत्वनिराकरणार्थत्वात् तस्य अन्यथा महानसोपलब्धधूमाद महार्णवे पावकानुमानं प्रसज्येत । अथ महानसस्थो धूमो न तत्स्थेन पावकेन व्याप्तः एवमेतत् किन्तु 'साध्यव्याप्तो हेतुः' इत्येतावन्मात्रे लक्षणे यत्रैव साधनधर्मस्तत्रैव साध्यधर्मानुमानमिति न प्राप्येत इत्यन्यत्रापि साध्यानुमानाशङ्का भवेत् ततस्तन्निवृत्त्यर्थ पृथक् पक्षधर्मवचनम् । यदा च भूतलादेरुपलब्धिजननयोग्यताऽनुपलब्धि-१५ स्तदाऽसौ भूतलादिखभावेति कथमनुपलब्धेरपक्षधर्मत्वम् ? पुरुषधर्मरूपायास्त्वनुपलब्धेरन्यभूतलादिकार्यत्वमेव तद्धर्मत्वम् परमार्थतस्तस्यास्तदायत्तत्वात् । कृतकत्वादेस्तु शब्दादिधर्मत्वम् परमार्थत एकत्वेऽपि भेदान्तरप्रतिक्षेपाद्धर्ममेदव्यवस्थापनात् । धूमादेरपि कार्यस्य प्रदेशादिधर्मत्वम् तत्कार्यतया तदायत्तत्वात् । तेषां च विकल्पेन तत्सम्बन्धिस्वरूपमेव 'पक्षस्यायं धर्मः' इति व्यवस्थाप्यते। तन्नास्मन्मते सर्वोपसंहारेण व्याप्तिग्रहणेऽनुमानानुत्थानम् । नापि हेतोः पक्षधर्मत्वाभिधानं व्यर्थम् २० यथा च पक्षधर्मतानिश्चयो व्याप्तिनिश्चयश्च यतश्च प्रमाणतः संभवति तथा प्रदर्शितमेव प्रमाणवार्तिकादौ ग्रन्थगौरवभयान्नेह प्रदर्श्यते विस्तरतः।
यदपि विषयतुल्यतया क्रियातुल्यत्वं वतेः प्रयोगनिबन्धनमभ्यायि तदपि प्रतिभासमेदस्य विषयभेदमन्तरेणानुपपद्यमानत्वप्रतिपादनात् प्रतिक्षिप्तम् । तन्न पूर्ववदिति 'वति'प्रयोगाश्रयणेनापि व्याख्यानं युक्तिसङ्गतम् । यदपि 'पूर्ववतः शेषवदनुमानस्य भेदप्रतिपादनाय शेषवन्नाम परिशेषः'२५ इत्याद्यभिधानम्, तदपि स्वप्रक्रियोपवर्णनमात्रम्; यत इच्छादीनां गुणत्वसिद्धौ पारतत्र्यसिद्धे शरीरादिषु प्रसक्तेषु प्रतिषेधे सति परिशेषादात्मसिद्धिः तच्च गुणत्वमिच्छादीनां द्रव्याश्रितत्वसिद्धौ सिध्यति तच्च समवायाभावतोऽयुक्तमिति प्रतिपादितम् । यदपि 'सामान्यवत्त्वे सति अचाक्षुषप्रत्यक्षत्वात् रसवत्' इत्यादि इच्छादीनां गुणत्वसिद्धावनुमानमुपन्यस्यते तदपि न युक्तिक्षमम् रसादीनामपि गुणत्वासिद्धितो दृष्टान्तासिद्धेः । न च तेषामपि गुणत्वसिद्धौ दृष्टान्तान्तरमस्ति ३० इच्छादीनां तदृष्टान्तत्वे इतरेतराश्रयदोषप्रसक्तेः । यदपि 'इच्छादयो गुणाः प्रतिषिध्यमानकर्मत्वे सत्येकद्रव्यत्वात् शब्दवत्' इत्यनुमानम् तत्रापि दृष्टान्तासिद्धिः । तथाहि-द्रव्यस्य द्वैविध्यं वैशेषिकैः प्रतिपादितम्-घटाद्यनेकद्रव्यं द्रव्यम् अद्रव्यं चाकाशादि । शब्दस्तु प्रतिषिध्यमानकर्मत्वे सत्येकद्रव्यः तस्माद् रूपादिवद् गुण इत्येवं शब्दस्य गुणत्वसिद्धौ दृष्टान्तसिद्धिर्भवेत् । न चैतत् शब्दगुणत्वसिद्धौ साधनमुपपत्तिमत् शब्दस्य हि गुणत्वसिद्धौ निराश्रयस्य गुणस्यासंभवादाश्रयभूतेन गुणिना भवितव्यम् ३५ पृथिव्यादेश्च तहणत्वनिषेधात् परिशेषादाकाशाश्रयः शब्दः तस्य चैकत्वं शब्दलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च ततो गुणत्वसिद्धौ शब्दस्यैकद्रव्यत्वसिद्धिः ततश्च यथोक्तविशेषणाद् गुणत्वसिद्धिरितीतरेतराश्रयत्वान्न शब्दस्य दृष्टान्तत्वसिद्धिः। { अथ नानेन प्रकारेणैकद्रव्यत्वं शब्दस्य साध्यते किन्तु कादाचित्कत्वाच्छब्दः कार्यम् कार्यस्य च क्षणिकत्वनिषेधे अनाधारस्यासंभवात् समवायिकारणेन
१-र्वाहादि-आ० हा० वि० विना। २-रूपयोस्त्व-वृ० । अत्र 'षष्ट्या द्विवचनम्' इति सूचकं ६-२ इति अङ्कद्वयम् । ३ "हेतूनाम्"-बृ० दि०। ४ पृ. ५६६ पं० ८। ५१० ५६६ पं० १६ । ६-षु च प्र-भ० मां.. -दात्म्यसि-वृ० वा. बा. विना। ८-नांह-वृ० आ. हा०वि०