________________
द्वितीये काण्डेअनुपलब्धेश्च पक्षधर्मत्वं नोपपत्तिमत् अन्योपलब्धिस्वभावायास्तस्याः पुरुषधर्मत्वात् । कार्यहेतोच खातव्येण धर्म्यनपेक्षत्वात् कुतः पक्षधर्मता? स्वभावहेतोः पुनर्धर्मिरूपत्वाद् भेदनिबन्धना पक्षधर्मता दूरोत्सारितैव । न च कल्पितस्य पक्षधर्मस्य कार्यस्वभावहेतुत्वं साध्यव्याप्तिश्चोपपत्तिमती । ततो न पक्षधर्मत्वं हेतोर्लक्षणं भवदभिप्रायेण युक्तिसंगतम्, असदेतत्; ५यतो यद्यपि सर्वोपसंहारेण साध्यसाधनयोर्व्याप्तिप्रतिपत्तिस्तथापि न तत्प्रतिपत्तिमात्रात् 'इदानीमिह साध्यधर्मिणि साध्यधर्मः' इति विशेषावगमः तेनाप्रतिपन्नविशिष्टदेशादिसम्बन्धिसाध्यार्थप्रतिपादकत्वेनानुमानं नाप्रामाण्यमश्रुते । न चान्यदेशादिस्थेन साध्यधर्मेणान्यदेशादिस्थः साधनधर्मः सम्बन्धमनुभवति तेन प्रतिनियतदेशादिविशेषितसाधनप्रतिपत्तिवलादेव प्रतिनियतदेशाद्यवच्छिन्नसाध्यप्रतिपत्तिरेवानुमानमिति न पक्षधर्मत्वमन्तरेणानुमानसंभवः । न च धूममात्राद् १० वह्निमात्रस्यावगतिरनुमानम् व्याप्तिग्राहकप्रमाणफलत्वात् तस्याः । न च हेतोः पक्षधर्मत्वं 'यत्र साधनधर्मस्तत्र साध्यधर्मः' इत्यविशिष्टावगतिमात्रात् सिध्यति साध्यधर्मिधर्मतया साधनधर्मस्याप्रतीतेः सामान्येनाभिधानात् ततो विशिष्टदेशाद्यवच्छिन्नसाध्यावगतये पक्षधर्मत्वं प्रदर्शनीयम् अतः 'यत्र यत्र धूमस्तत्र तत्राग्निः' इत्यनेनैव पक्षधर्मन्वस्योक्तत्वात् प्रदेशविशेषे अग्निसिद्ध्यर्थ 'धूमश्चात्र इति न वक्तव्यमुक्तार्थत्वात् इति यदुक्तं तन्निरस्तं द्रष्टव्यम् । एतेनैव यदुक्तं कुमारिलेन
"नदीपूरोऽप्यधोदेशे दृष्टः सन्नुपरि स्थिताम् । नियम्यो गमयत्येव वृत्तां वृष्टिं नियामिकाम् ॥ एवं यत् पक्षधर्मत्वं ज्येष्ठं हेत्वङ्गमिप्यते । तत् पूर्वोक्तान्यधर्मत्वदर्शनाद् व्यभिचार्यते ॥ पित्रोश्च ब्राह्मणत्वेन पुत्रव्राह्मणताऽनुमा । सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥ क्लेशेन पक्षधर्मत्वं यस्तत्रापि प्रकल्पयेत् । न संगच्छेत तस्यैतल्लक्ष्येण सह लक्षणम् ॥ यथा लोकप्रसिद्धं च लक्षणैरनुगम्यते । लक्ष्यं हि लक्षणेनैतदपूर्व न प्रसाध्यते" ॥ [
] इति, २५ तदपि प्रत्युक्तम् यतः किमित्यधस्तान्नदीपूरमुपलभ्योपर्येव वृष्टयनुमानं नान्यत्र? तथा, शिशुरयं ब्राह्मणो मातापित्रोर्ब्राह्मण्यादिति किमिति यस्यैव शिशोः ब्राह्मण्यं साध्यं तस्यैव मातापितृब्राह्मण्यलक्षणो धर्मः सम्बन्धी गमको न मातापितृव्राह्मण्यमात्रम् ? अथ नदीपूरस्योपरिदेशसम्बन्धिनः भन्यसम्बन्धिमातापितृव्राह्मण्यस्य चागमकत्वादेवमनुमानं तर्हि नदीपरो यतः समायातस्तत्रैव
अन्यथानुपपन्नत्वं यत्र तत्रयेण किम् ? । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ इत्येतत् कृतम् । कथमिदमवगम्यत इति चेत् पात्रकेसरिणा त्रिलक्षणकदर्थनं कृतमिति कथमवगम्यत इति समानम् । आचार्यप्रसिद्धरित्यपि समानम् । उभयत्र कथा च महती सुप्रसिद्धा । तस्य तत्कृतत्वे प्रमाण(प्रामाण्या)प्रामाण्ये तत्प्रसिद्धौ कः समाश्वासः? तदर्थ करणात् तस्येति चेत् तर्हि सर्व शास्त्रं तदविधेयं चात एव शिष्याणामेव न तत्कृतमिति व्यपदिश्येत पात्रकेसरिणोऽपि वा न भवेत् तेनापि अन्याथ तत्करणात् तेनापि अन्यार्थमिति न कस्यचित् स्यादेनत(8)तद्विषयप्रबन्धकरणात् पात्रकेसरिणस्तदिति चिन्तितं मूलसूत्रकारेण कस्यचिद् व्यपदेशाभावप्रसङ्गात् । तस्मात् साकल्येन साक्षात्कृत्योपदिशत एवार्य भगवतस्तीर्थकरस्य हेतुरिति निश्चीयते"-सिद्धिवि० टी० लि. पृ. ३०.५० २-१२।
____ 'अयं श्लोकः पद्मावत्या देवतया विरचितः' इत्यादिका किंवदन्ती प्रभाचन्द्र-ब्रह्मदत्ताभ्यां खरचितकथाकोशे लिखितायो पात्रकेसरिकथायां वर्तते-आप्तपरीक्षाप्रस्तावना पृ. २-३ पात्रकेसरिकथा ।
१ "पक्षस्य धर्मस्वं न घटते"-वृ. ल.टि.। २-भावं हे-बृ. ल.।
३ नैतानि पद्यानि मीमांसाश्लोकवार्तिके दृश्यन्ते, किन्तु इतस्त्रीणि पद्यानि अनिर्दिष्टकर्तृकानि प्रमेयकमलमार्तण्डे उद्धृतानि वर्तन्ते पृ०५.द्वि. पं० १०-पृ. ५१ प्र. पं० १-२ । वादिदेवसूरिस्तु तान्येव पद्यानि भट्टकर्तृकतया समुद्धरति-स्याद्वादर. पृ. २८५ पं० १-६ आ० । ४"भट्टोऽप्याह" इत्युल्लिख्य आचार्यहेमचन्द्रेण एक एवायं श्लोक उद्धृतोऽस्ति-२-१-१७ प्रमाणमी० पृ० ७९ । “भट्टेन खयमभिधानातू" इत्युक्त्वा रत्नप्रभसूरिरपि एनमेकमेव श्लोकमुश्तवान् -२,१ रत्नाकराव.पृ.४९ पं. १४-१६।