________________
ज्ञानमीमांसा
५६९
पार्थिवत्वस्य लोहलेख्यतयाऽध्यक्षतः प्रतिपत्तेः । न चाध्यक्षबाधनादत्र न साध्यप्रतिपत्तिः बाधाऽविनाभावयोर्विरोधात् अविनाभावयुक्ते अध्यक्षबाधाऽयोगात् । न चाबाधितत्वाऽसत्प्रतिपक्षत्वरूपद्वययोगात् विलक्षणस्य हेतोरविनाभावपरिसमाप्तिरिति त्रैलक्षण्येऽपि पार्थिवत्वस्याबाधितत्वरूपा. न्तराभावान्न साध्याविनाभाव इति वक्तव्यम् अबाधितत्वस्याविसंवादित्वप्रतिपत्तिमन्तरेण शातु. मशक्तेः अज्ञातस्य च ज्ञापकहेत्वनङ्गत्वात् तदङ्गत्वे वाऽनवगताविनाभावस्यापि धूमोऽग्निप्रतिपत्ति५ विदध्यात् । तन्नाबाधितत्वं हेतो रूपान्तरमिति पार्थिवत्वं काष्ठे लोहलेख्यत्वाविनाभूतमध्यक्षतः प्रतिपन्नं वजे उपलभ्यमानं लोहलेख्यत्वं गमयेत् । अथ सर्वोपसंहारेणाध्यक्षं दृष्टान्तधर्मिण्यपि प्रवृत्तं साध्यसाधनयोरविनाभावमवगमयतीति साध्यधर्मिण्यपि हेतोः साध्यधर्मेणाविनाभावनिश्चयान्नानुमानानुत्थानम् भवेदेतत् यद्यस्मदाद्यध्यक्षं सकलदेशकालनियतसाध्यसाधनसाकल्यावभासि भवेत् तथाभ्युपगमे वा धूमस्वरूपावभासिनाऽध्यक्षेण देशादिव्यवहितस्याग्नेरपि प्रतिपत्तेरनुमानप्रवृत्ते-१० वैयर्थ्यप्रसक्तिः स्यात् । न च मानसं योगिप्रत्यक्षं वा सर्वोपसंहारेण साध्यसाधनयोाप्तिग्राहकं संभवति अध्यक्षस्य विशदावभासस्य साध्यसाधनावगतिखभावस्यासंवेदनात् विशदावमासि च सन्निहितार्थग्रहणस्वभावमस्मदाद्यध्यक्षमित्युक्तं प्राक् । अथानुमानेन व्याप्तिग्रहणेऽनवस्थाप्रसक्तेर्भवताऽप्यध्यक्षतस्तद्रहणमभ्युपगन्तव्यम् तंत्र चोक्त एव दोषः, तदसत्, प्रतिबन्धग्राहिणा प्रमाणेन सकलोपसंहारेण व्याप्तिनिश्चयात् । तथाहि-महानसादौ विशिष्टमध्यक्षमग्निधूमयोः कार्यकारणभाव-१५ ग्राहकत्वेन प्रवृत्तं 'सर्वत्रानग्निव्यावृत्तोऽग्निः अधूमव्यावृत्तस्य धूमस्य जनकः' इति व्यवस्थापयति अन्यथा सकृदप्यग्ने—मस्योत्पत्तिर्न भवेत् अहेतोः कदाचिदप्युत्पत्तिविरोधात् । तदुक्तम्
"कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः।
संभवंस्तभावेऽपि हेतुमत्तां विलङ्घयेत्” ॥ [ तथा भावमन्तरेणापि भवन् स्वभावो निःस्वभाव एव स्यात् । तदुक्तम्
"स्वभावेऽप्यविनाभावो भावमात्रानुरोधिनि ।
तदभावे स्वयं भावस्याभावः स्यादभेदतः ॥ [ इति तादात्म्य-तदुत्पत्तिव्यवस्थापकमेव प्रमाणं सकलोपसंहारेण व्याप्तिव्यवस्थापकमित्युक्तं प्राक् ।
__ अथ सर्वोपसंहारेण व्याप्तिग्रहणे अनुमानस्याप्रामाण्यं भवेत् व्याप्तिग्राहकप्रमाणप्रतिपन्नार्थविषयत्वेन स्मृतिरूपत्वात् तदंशव्याप्तिसामर्थ्येन च हेतोः खसाध्यप्रतिपादकत्वं न पक्षे सत्तामात्रतः२५ नत्स्थस्य रासभादेरपि साध्यप्रतिपादकत्वप्रसक्तेस्ततस्तदंशव्याप्तिवचनेनैव गतत्वात् पक्षधर्म इति हेतोः पृथग लक्षणं न वक्तव्यं भवेत् । उक्तं च जैनैः
अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम? । नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥ [
] इति ।
१-तरू-वा. बा.। २ "प्रत्यक्षग्रहणकक्षीकारे"-बृ. ल. टि.। ३ पृ. ३२२ पं.१ तथा टि. १-२ । "तथा च कीर्तिना कीर्तितं वार्तिके" इत्युल्लिख्यायं श्लोकः स्याद्वादरत्नाकरे उद्धृतोऽस्ति-पृ० ५१५५० ७ आ० । १,२,१२ प्रमाणमी० पृ. ६४ पं० ५। ४ पृ. ३२१ पं० २९ तथा टि. २९। ५-त्र तत्स्थ-भां. मां०। ६"प्रतिज्ञास्थस्य"-बृ० ल.टि.।
७ अस्य पद्यस्य कर्तृतविषये प्राचां विप्रतिपत्तयो दृश्यन्ते
आचार्यकमलशीलेन “अन्यथा' इत्यादिना पात्रखामिमतमाशङ्कते" इत्युल्लिख्य व्याख्यातासु षोडशसु कारिकासु पात्रखामिसंबन्धं धारयद् इदं पद्य १३६९ तमं सव्यत्ययं वर्तते-तत्त्वसं० का० १३६४-१३७९ पृ०४०५-४०७ ।
वादिदेवसूरिणा तत् पद्यं पात्रखामिकर्तृकत्वेन निर्दिष्टम् स्याद्वादर० पृ० ५२१ पं० ५-६ आ० ।
दिगम्बरपरम्परायां 'पात्रकेसरी' इति प्रसिद्धि प्राप्तेन विद्यानन्दिवामिना खकृतौ तत्त्वार्थश्लोकवार्तिके "तथाह च" इत्युक्खा प्रमाणपरीक्षायां च "तदुक्तम्" इत्युक्त्वा तत् पा समुद्धतं दृश्यते-पृ. २०३ श्लो. १७८, पृ०७२ पं०१८। तथा,
__ केचन स्वामिपदस्य पात्रकेसरीति अर्थ गृहीखा अस्य पद्यस्य पात्रकेसरिकर्तृकां मन्यमाना अभूवन् तेषां मतं निराकतुकामेन रविभवशिष्यानन्तवीर्येण तस्य पद्यस्य तीर्थकरसीमन्धरकर्तृकता स्थापिता सिद्धिविनिश्चयवृत्तौ । तथाहि
कस्य तदित्याह-वामिनः पात्रकेसरिण इत्येके। कुत एतत् ! तेन तद्विष्यत्रिलक्षणकदर्थनमुत्तरभाष्यं यतः कृतमिति चेत् नन्वेव(वं?) सीमन्धरभट्टारकस्याशेषार्थसाक्षात्कारिणस्तीर्थकरस्य स्यात् । तेन हि प्रथमम्
७३ स.त.