________________
५६८
द्वितीये काण्डेप्रक्रियोपवर्णिता साऽपि प्रमाणबाधितत्वादनुद्धोष्या । यथा च क्रियाविभागादीनां प्रमाणवाधितत्वं तथा प्राक् प्रतिपादितम् प्रतिपादयिष्यते च यथावसरम् । यदपि 'मेघानां भविष्यदृष्टिकार्यविशेषणविशिष्टत्वमुन्नतत्वादिना धर्मेण तद्गतेन साध्यते' इत्युक्तम् तदप्यसंगतम् अस्वसंविदितविज्ञानाऽभ्युपगमवादिनां प्रदर्शितन्यायेन धर्माद्यसिद्धेरवयविसंयोगविशेषणविशेष्यभावादीनां च ५पराभ्युपगमेनासिद्धेर्हेतोराश्रय-स्वरूप-दृष्टान्तासिद्धिदोषा वाच्याः । न च कार्याभावात् कारणमात्रस्याभावसिद्धिरिति सन्दिग्धव्यतिरेको हेतुः अप्रतिबद्धसामर्थ्यस्य कारणविशेषस्याभावसिद्धावपि नाप्रतिबद्धसामर्थ्यत्वं कारणस्योन्नतत्वादिधर्मविशिष्टस्य ज्ञातुं शक्यम् ज्ञप्तौ वा कार्यस्यैव तदा प्रत्यक्षतेत्युक्तं प्राग् । यदपि 'यो हि भविष्यदृष्ट्यव्यभिचारिणमुन्नतत्वादिविशेषमवगन्तुं समर्थः स
एव तस्मात् तामनुमिनोति' इत्युक्तम् तदप्यसङ्गतम् तदनुमितेः प्रागेव कार्यस्य प्रत्यक्षतया तदनु१० मितेर्वैयर्थ्यप्रसक्तेरित्युक्तत्वात् । यदपि 'गम्भीरध्वानवत्वे सति' इत्याधुन्नतत्वादेर्विशेषणम् तदप्येते. नैव निरस्तम् अनुमेयप्रतिपत्तौ तस्यानुपयोगित्वात् अध्यक्षत एव तत्प्रतिपाद्यस्यार्थस्य सिद्धेः । यदपि शेषवत उदाहरणं प्रतिपादितम् तत्र नदीविशेषो धर्मी अवयविरूपोऽसिद्धः उभयतटव्यापित्वादिकस्तु संयोगविशेषत्वात् साधनधर्मोऽसिद्धः संयोगस्यासत्त्वेन प्रतिपादनात् । यदपि वृष्टिकार्यत्वं साधन
धर्मस्य परम्परया प्रक्रियोपवर्णनेन प्रदर्शित॑म् तदपि प्रक्रियाया असिद्धत्वान्निरस्तम् । 'अकार्यकारण१५ भूतेन लिङ्गेन यत्र लिङ्गिनोऽवगमस्तत् सामान्यतोदृष्टम्' इति यदभिधानम् तदप्यसङ्गतम् अकार्य
कारणभूतस्यास्वभावभूतस्य च लिङ्गस्य गमकत्वेऽविनाभावनिमित्तस्य तादात्म्य-तदुत्पत्तिलक्षणप्रतिबन्धस्याभावेऽपि गमकत्वाभ्युपगमात् सर्वस्य सर्व प्रति गमकत्वोपपत्तेः । न चासत्यपि जन्यजनकभावे तादात्म्ये वा स्वसाध्येनैव लिङ्गस्याविनाभावो नान्येनेत्यत्र वस्तुस्वभावैरुत्तरं वाच्यं य एवं भवन्ति नास्माभिर्वयं केवलं द्रष्टार इति वक्तव्यम् यत एवमभ्युपगमे आकस्मिक एव वस्तूनां स २० स्वभावो भवेत् तथा च न कस्यचिदसौ न स्यात् न ह्यहेतोदेशकालनियमो युक्तः । तद्धि किश्चित् क्वचिदुपलीयेत न वा यस्य किश्चिद् यत्रायत्तमनायत्तं वा अन्यथेष्टदेशकालद्रव्यवदन्यदेशादिभावः केन वार्येत विशेषाभावात् ? ततो येनाऽविनाभूतं यद दृश्यते तेन तस्य तत्त्वचिन्तकैरव्यभिचौरनिबन्धनं वाच्यम् न पुनः पादप्रसारिका विधेया । तच्च यथोक्तादन्यव्यभिचारनिबन्धनं नोपपत्तिमत्।
न च तादात्म्य-तदुत्पत्तिलक्षणप्रतिबन्धमन्तरेण पक्षधर्मताऽपि हेतोः संभवति संयोग-समवायादि२५ लक्षणस्य सम्बन्धस्य प्रागेव निरस्तत्वात् । एकार्थसमवायित्वस्य च समवायाभावे दुरापास्तत्वात् विशेषणविशेष्यभावस्य च सम्बन्धस्य संयोगाद्यन्तरेणासंभवात् । न चानवगतपक्षधर्मत्वादेहतोर्भवद्भिर्गमकत्वमभ्युपगम्यते । एकसामग्यधीनतालक्षणस्तु प्रतिबन्धः कार्यकारणभावविशेष एवेति तभावे तस्याप्यभाव इति नाकार्यकारणभूताद् रूपादेस्तत्समानकालस्य रसस्यानुमान सामान्यतो.
दृष्टस्योदाहरणं युक्तिसङ्गतम् । ३० यदपि वतेः प्रयोगमाश्रित्य पूर्ववदनुमानं व्याख्यातम् तत्रापि दृष्टान्तधर्मिणि साध्यसाधनयोः
प्रत्यक्षेण प्रतिबन्धग्रहणेऽनुमानस्योत्थानं न स्यात् साध्यधर्मिणि हेतोः साध्यधर्मेणाविनाभूतत्वाग्रहणात् । न च दृष्टान्तधर्मिणि हेतोः साध्याविनाभूतत्वग्रहणमात्रादेव साध्यधर्मिणि साध्यप्रतिपत्तिः अन्यथा 'लोहलेख्यं वजं पार्थिवत्वात् काष्ठवत्' इत्यत्रापि साध्यप्रतिपत्तिर्भवेत् दृष्टान्तधर्मिणि
१पृ. ५६३ ५.७। २ पृ. ५६३ पं० १८। ३ पृ. ५६३ पं० २१। ४-दप्यनेनैव बृ. भा. मो०। ५० ५६५५० ४। ६ पृ. ५६५ पं०८। पृ० ५६५५० १२। ८ इतः 'संयोगाद्यन्तरेणासंभवात्' इतिपर्यन्तः पाठोऽक्षरशः हेतुबिन्दुटीकायां वर्तते स च पृ. ५५६ पं० ३३ टिप्पणतोऽवगन्तव्यः । ९एवं भवति आ. हा०वि० । एवं न भवन्ति भां० म०।१०-पनीये-वा. बा०।-पमीये-आ. हा.वि.। ११-चारिनि-ल० । १२ पादप्रसारिका, भिक्षुपादप्रसारणन्यायः द्वावेतौ समानौ न्यायौ। एनयोः स्पष्टीकरणम् एतदुपयोगस्थलानि च लौकिकन्यायाजलौ यथाक्रम द्वितीये पृ०४६ प्रथमे पृ० ३९ च भागे दर्शितानि सन्ति। भिक्षुपादप्रसारणन्यायः प्रथमे भागे एवं विवृतोऽस्ति-"यथा कश्चिद् भिक्षुर्यथेष्टभोजनाच्छादनवासगृहादिलाभार्थ कस्यचिद् धनिनो गृहे प्रविश्य युगपत् सर्वाभीष्टालाभं मन्यमानः प्रथमं धनिगृहे मे पादप्रसारणमस्तु पश्चादनेन परिचयमुत्पाद्य सर्वममीष्टं संपादयिष्यामीति घिया खल्पामपि भिक्षां बहु मन्यमानः पश्चात् क्रमेण खाभीष्टं संपादयति एवं यत्र विवक्षा तत्रास्य प्रवृत्तिः"पृ०३९। १३-दात्म्यं त-वृ० ल. वा. बा.। १४ पृ. ११३ तथा पृ०१०६। १५पृ. ५६६५०५। १६-तत्वप्र-भां• मां।