________________
ज्ञानमीमांसा ।
५६७ तद्धर्मत्वं प्रतिपन्नमेव । पारतन्येण च स्वसाध्येन तस्य व्याप्तिरध्यक्षतो रूपादिष्ववगतैव । साध्यव्यावृत्त्या साधनव्यावृत्तिरपि प्रमाणान्तरादेवावगता । न च त्रिर्तयप्रसिद्धावस्य प्रवृत्तेर्न सामान्यतोदृष्टता अपि तु पूर्ववदेवैकमनुमानं प्रसक्तमिति वक्तव्यम् धर्मिणि पारतन्यस्य सर्वदाऽप्रत्य क्षत्वात् नहीच्छादौ धर्मिणि कदाचित् पारतन्त्र्यं प्रत्यक्षम् परस्याप्रत्यक्षत्वात् । अनेन च विशेषेणैतत् सामान्यतोदृष्टव्यपदेशमासादयति । धर्मिणः साध्यसाधनयोवी सर्वदा प्रत्यक्षत्वे गमकाङ्गासिद्धौ ५ गमकत्वासिद्धेः सामान्यतोदृष्टमनुमानमेव न भवेत् ।
नन्वेवं पूर्ववत् शेषवत् - सामान्यतोदृष्टानां परस्परतः को विशेषः ? उच्यते-इच्छादेः पारतथ्यमप्रतिपत्तौ गुणत्वं कार्यत्वं वा पूर्ववत् तदेव चाश्रयान्तरबाधया विशिष्टाश्रयत्वेन वाधकेन प्रमाणेनावसीयमानं शेषवतः फलम्, तस्य साध्यधर्मस्य धर्म्यन्तरे प्रत्यक्षस्यापि तत्र धर्मिणि सर्वदाऽप्रत्यक्षत्वं सामान्यतोदृष्टव्यपदेशनिबन्धनम् अतस्त्रयाणामेकमेवोदाहरणम् शेषवतश्च शिष्य- १० माणोक्तिरन्वयव्यतिरेकिणो हेतोः पारतंत्र्यप्रतिपत्तौ द्रष्टव्या । तैत् स्वहेतोः प्रतिपन्नमाश्रयान्तराद् बाधकेन प्रच्यावितं तस्य शिष्यमाणविशिष्टाश्रयत्वप्रतिपत्तिः शेषवतः फलम् । एवं च वतेः सर्वत्र संभवान्न विशेष इति न वक्तव्यम्, विशेषस्य प्रदर्शितत्वात् । एतत्रिप्रकारां मतिं जनयत् तत्पूर्वकं सदनुमानमित्यव्याध्यादिदोषविकलमनुमानलक्षणम् ।
तृतीयसूत्रेऽप्येतदेव व्याख्यानम् । अयं तु विशेषः - पूर्वस्मिंस्त्रिप्रकारमेव लिङ्गमनुमानव्यव - १५ च्छेदकम् पूर्ववदादयस्तु त्रिप्रकारलिङ्गविशेषणार्थाः । उत्तरस्मिंस्तु सर्वमेतदनुमानव्यवच्छेदार्थम् व्यवच्छेदेस्तु पूर्वेणैव न्यायेन । अत्र च सूत्रत्रये प्रथमसूत्रव्याख्यानमेवाभिमतमध्ययनप्रभृतीनाम् अणुना सूत्रेण महतोऽर्थस्य सङ्ग्रहादकारकस्य च त्रिप्रकारलिङ्गालम्बनस्योत्तरव्याख्यानेऽनुमानत्वप्रसक्तिः । फलस्याश्रयणाद् उपलब्धिसाधनस्येत्यध्याहारो न युक्तोऽप्रकृतत्वात् । सामान्यलक्षणे प्रकृतत्वाददोष इति चेत् तर्ह्यतिव्याप्तिनिवृत्त्यर्थं पूर्ववदादिपदोपादानं न कर्तव्यम् प्रत्यक्षसूत्रे ऽव्यप २० देश्यादीनां प्रकृतत्वात् । शाब्दे च प्रसङ्गो न व्यावर्त्तते यल लिङ्ग-शब्दाभ्यां जन्यते विज्ञानं यथोक्तविशेषणविशिष्टोपलब्धिरूपं तत्साधनस्यानुमानत्वप्रसक्तिरतस्तन्निवृत्तये विशेषणान्तरोपादानं कर्तव्यम् । प्रथमसूत्रव्याख्याने तु सर्वदोषाभावः प्रक्रान्तस्याविरोधिनः सर्वस्याभिसम्बन्धात् । त्रिविधग्रहणं तत्र विभागार्थमित्युक्तम् पूर्ववदादिग्रहणमपि स्वभावादित्रैविध्यप्रतिषेधेन पूर्ववदादिष्वेव नियमज्ञापनार्थम् । पूर्ववदादीनां तु द्वितीयसूत्रे यद्व्याख्यानं तदेवेहापि द्रष्टव्यम् । विशेषस्तु तत्रानुमान - २५ लक्षणोपयोगित्वमिह तु त्रिविधभागेन विभज्यमानस्य स्वरूपदर्शनार्थम् । अनुमानस्य च त्रैविध्यं कारणादित्रैविध्यादेवेति । }
[ सौगतप्रणीतानुमानलक्षणाश्रयेण नैयायिकोक्तानुमानलक्षणस्य प्रतिक्षेपप्रकारः ]
कथं पुनः सौगतप्रणीतलक्षणादस्य प्रतिक्षेपः ? उच्यते- तत्पूर्वकमिति प्रत्यक्षप्रमाणफलपूर्वकं यतो भवति तदनुमानमिति प्रथमसूत्रव्याख्यानमसंगतमेव परोक्तलक्षणलक्षितस्य प्रत्यक्षस्य प्रमाण- ३० स्वेनासिद्धेः तत्पूर्वकत्वस्यानुमानलक्षणस्यासंभवात् । तदसंभवे च स्मृत्यादिजनक व्यवच्छेदार्थ विशेषणकलापाध्याहारोऽप्यसंगत एव । यदपि पूर्वशब्दस्य लुप्तस्यानिर्देशे प्रत्यक्षफलेऽनुमानत्वप्रसक्तिप्रेरणम् तदप्यसङ्गतम् तत्फलस्यैव प्रत्यक्षप्रमाणत्वेन व्यवस्थापितत्वात् अवोधरूपस्य प्रमाणत्वनिषेधात् । यदपि 'त्रिविधग्रहणमनुमानविभागार्थम् पूर्ववदादिग्रहणं च विभागविषयज्ञापनार्थम्' इत्युक्तम् तदप्यसारम् कारणादप्रतिबद्धसामर्थ्यात् प्रदर्शितन्ययेन कार्यानुमाने कार्याध्यक्षता - ३५ दोषस्याविचलितरूपत्वात् । या च 'अनुत्पन्नावयवक्रियस्यान्त्यतन्तोर्यदा क्रियातो विभागः' इत्यादि
१ " धर्मि तद्धर्म - व्याप्तिरूप" - बृ० ल० टि० । २ “पारतन्त्र्यानुमानस्य” - बृ० ल० टि० । ३-न्यतोऽढ - बृ० । ४- मात्रा - वा० बा० भ० मां० विना । ५ " पारतन्त्र्यम्”- बृ० टि० । ६- पत्तिविशेषतः फ-आ० हा० वि० । ७- कारं मितिं जनय - वृ० । कारं मिति जनय-आ० हा ० वि० ।-कारमिति जनय वा० बा० । ८ " विशेषकम्" - बृ० टि० । ९- दकस्तु आ० हा ० वि० । १०- क्षणाप्र-वृ० आ० हा ० वि० ११ - र्थमपू- वृ० । १२ “अत्र प्रतिविधीयते " - बृ० टि० । १३-मानं ल- बृ० । १४ पृ० ५६१ पं० २९ । १५० ५६२ पं० ९ । १६४० ५६२ ५० ३३ । “पूर्वपक्षवेलोपन्यस्त" - बृ० टि० । १७० ५६३ पं० २५ ।
।