________________
द्वितीये काण्डेरूपस्य स्पर्शकार्यता तत्कार्यतया लोके तस्याप्रसिद्धः । न चाप्रसिद्धमपि तत्कार्यत्वं गमकत्वान्यथानुपपत्त्या तस्य परिकल्पनीयम् प्रतिबन्धस्य सौगताभ्युपगमेने तादात्म्यतदुत्पत्तिलक्षणस्यासंभवात् संभवेऽपि तद्राहकप्रमाणायोगात् क्षणविशरारुत्वे भावानां सर्वस्याप्यस्याघटमानत्वेन प्रतिपादि. तत्वात् । ततो रूपेण स्पर्शानुमान सामान्यतोदृष्टमनुमानम् । ५ अथवा पूर्वेण तुल्यं वर्तत इति पूर्ववदिति वतेः प्रयोगः । न च क्रियातुल्यत्वे वतिप्रयोगस्य वैयाकरणैरिष्टेरत्र च सम्बन्धप्रतिपत्तेः स्पष्टत्वादनुमेयप्रतिपत्तश्चाविशदेतया तंदभावतो विषयतुल्यत्वस्य च तन्निमित्तत्वेनानिष्टेर्वतिप्रयोगोऽनुपपन्न इति वक्तव्यम् यतो यद्यपि प्रत्यक्षानुमानप्रतीत्योर्भेदस्तथापि विषयतुल्यत्वात् कथंचित् क्रियाया अपि तुल्यता समस्तीति न वतेः प्रयोगोऽनुपपन्नः तेन पूर्वप्रतिपत्त्या तुल्या प्रतिपत्तिर्यतो भवति तत् पूर्ववदनुमानम् नन्वेवं शेषवत्-सामान्यतो१०दृष्टयोरपि पूर्ववत्त्वप्रसक्तिः । तथाहि-साध्यसाधनयोः प्रत्यक्षेण दृष्टान्तधर्मिणि सामान्यरूपतया
प्रतिबन्धग्रहणम् अन्यथाऽनवस्थाप्रसक्तेरनुमानस्याप्रवृत्तिरिति तत्रितयस्यापि पूर्वेण तुल्यत्वात् पूर्ववत्त्वम् । न हि यादृग्भूतेन साध्यसामान्येन लिङ्गसामान्यस्य दृष्टान्ते अध्यक्षतोऽविनाभावग्रहस्तादृग्भूतस्यैवानध्यक्षस्य साध्यस्य क्वचिद्धर्मिणि हेतुसामान्यात् शेषवत्-सामान्यतोदृष्टयोरप्रतिपत्तिः ।
अतो विषयतुल्यतया क्रियातुल्यत्वाद् वतेः सर्वत्रैव संभवात् कुतः शेषवत्-सामान्यतोदृष्टयोः पूर्ववतो १५ भेदसिद्धिः? असदेतत्, प्रत्यक्षेणागृहीतान्वयं केवलव्यतिरेकबलात् प्रमा निर्वर्तयत् शेषवदनुमानमित्यभ्युपगमात् । तथाहि-शेषवन्नाम परिशेषः यथा गुणत्वाद् इच्छादीनां पारतन्ये सिद्धे शरीरेन्द्रियादिषु प्रसक्तेषु प्रतिषेधः शरीरविशेषगुणा इच्छादयो न भवन्ति तहुणवैधात् तच्च रूपादीनां खपरात्मप्रत्यक्षत्वेऽपीच्छादीनां स्वात्मप्रत्यक्षत्वमेव नापीन्द्रियाणाम् इच्छाधुत्पत्तौ तेषां समवाय्यादिकारणत्वायोगात् नापि विषयाणाम् उपहतेष्वनुस्मरणदर्शनात् न चान्यस्य प्रसक्तिरस्ति अतः परि२०शेषादात्मसिद्धिः । प्रयोगश्चात्र-योऽसौ परः स आत्मा इच्छाद्याधारत्वात् ये विच्छाद्याधारान
भवन्ति ते आत्मशब्दवाच्या अपि न भवन्ति यथा शरीरादयः आत्मशब्दश्च आत्मत्वसम्बन्धिनि द्रष्टव्यः। न चैवं पूर्वेण तुल्यं पूर्ववदिति वतिरत्र संभवति सपक्षे अदृष्टत्वात् । न चैवं सामान्यतो. दृष्टात् पूर्ववतोऽविशेषः यतो यत्र धर्मी साधनधर्मश्च प्रत्यक्षः साध्यधर्मश्च सर्वदाऽप्रत्यक्षः साध्यते
तत् सामान्यतोदृष्टं यथेच्छादयः परतन्त्रा गुणत्वात् रूपवत् उपलब्धिर्वा करणसाध्या क्रियात्वात् २५ छिदिक्रियावत् असाधारणकारणपूर्वकं जगद्वैचित्र्यं चित्रत्वात् चित्रादिवैचित्र्यवदित्यादि सामान्य
तोदृष्टस्यानेकमुदाहरणम् । उक्तं च ईश्वरकृष्णेन-“सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात्" [साङ्ख्यका०६] इत्यादि । ननु साध्यधर्मस्य सर्वदाऽप्रत्यक्षत्वे तेन हेतोाप्तिग्रहणासंभवात् कथं तत्प्रतिपादकलिङ्गप्रवृत्तिः? नैष दोषः केनचिदर्थेन सामान्यात् । ननु लिङ्गं गुणत्वं कार्यत्वं वाऽत्र सामान्यस्वभावम् न च तस्य सामान्य केनचिदर्थेन संभवति "निःसामान्यानि सामान्यानि" ३०[
] इति वचनात् । अत्र केषांचित् प्रतिसमाधानम्-इच्छादय एवात्र लिङ्गत्वेनोक्ता इच्छादेश्च रूपादिना सामान्य गुणत्वं कार्यत्वं चोपपद्यत एव । अपरे तु लिङ्गाधिकरणत्वादिच्छादयो लिङ्गत्वेनोक्ता इति व्याचक्षते । तेषां च पूर्ववत् सामान्ययोगः प्रतिपत्तव्यः ततोऽप्रत्यक्षस्य पारतन्यस्य प्रतिपत्ति: सामान्यतोदृष्टम् । अत्रापि च धर्मिण इच्छादेः प्रत्यक्षप्रतिपन्नत्वं गुणत्वकार्यत्वादेरपि साधनस्य
१-सिद्धिः वा. बा०। २-न वा ता-भा० मा०। ३ “अथवा पूर्ववदिति भाष्यम् । तस्यार्थः पूर्वेण तुल्य वर्तत इति पूर्ववत् । क्रियातुल्यतायां च वतिरिति कियातुल्यता दर्शिता"-न्यायवा० ता० टी० पृ. १७९ पं० १७ । ४ "तेन तुल्यं क्रिया चेद् वतिः"-पाणि ५-१-११५ । “स्यादेरिवे"-हैम० ७-१-५२। ५ “पूर्वप्रतिपत्तेहि वैशद्यमनुमेयप्रतिपत्तेस्तु नास्तीति"-बृ० ल.टि.। ६ “क्रियातुल्यवाभावतः"-बृ.टि.। "क्रियातुल्यवभावतः"-ल. टि.। ७ “वतिप्रत्ययनिमित्तवेन"-बृ० ल• टि०। ८-हीत्वान्व-बृ०। ९-रेकात् प्र-बृ० आ० हा० वि० ।
१. "शेषवन्नाम परिशेषः स च प्रसक्तप्रतिषेधेऽन्यत्राऽप्रसाच्छिष्यमाणे संप्रत्ययः" इत्यादि-१-१-५ वात्स्या. भा० पृ. २३ पं० १६-। न्यायवा० पृ० ५१ पं. १६ । न्यायवा० ता० टी० पृ. १८२ पं० १२ । का. ५ साङ्ख्यतत्त्वकौ• पृ० ३०५०७-1 ११-वायादि-वा. बा. भां० मां निना। १२-दिकका-वा० बा।