________________
५६५
ज्ञानमीमांसा। शेषवदित्यत्रापि कारण-कार्ययोर्लिङ्गत्वेनोपक्षेप अनुपयुक्त कार्य शेषः तद् यस्यास्ति तच्छेषवदिति तद्गत एव साधनधर्मः कश्चिदुक्तः न तु कारणम् तेन हि कार्यगतेन धर्मान्तरमप्रत्यक्ष वृष्टिमद्देशसम्बन्धित्वादिकं कार्यगतमेवानुमीयते । अत एव कारणगमकत्वपक्षोक्तदोषप्रसक्त्यभावोऽत्रापि द्रष्टव्यः । तथाहि-नदीशब्दवाच्यो गर्तविशेषो धर्मी तस्योपरिवृष्टिमद्देशसम्बन्धित्वं साध्योधर्मः उभयतटव्यापित्वादिकस्तु साधनधर्मः अनेकफल-फेनसमहवत्त्व-शीघ्रतरगमनत्व-कल-५ षत्वादिकश्च तस्य विशेषः साध्याव्यभिचारी यदा निश्चितो भवति तदा गमकत्वम् नोभयतटव्यापित्वमात्र तोयस्य । अत एव न प्रतिज्ञार्थंकदेशताऽपि दोषः । न चोभयतटव्यापित्वमुदकस्य कथमपामधःपातलक्षणाया वृष्टेः कार्यमिति वक्तव्यम् पारम्पर्येण तस्य तत्कार्यत्वात् । तथाहिद्रवत्वादापः भूसंस्पृष्टाः स्पन्दन्ते स्पन्दमानाश्च संयुक्ताः परस्परं महत्कार्यमारभन्ते तदपि स्पन्दमानं स्वात्मनि वेगमारभते क्रियाकारणापेक्षं तच्च तथाप्रवृत्तं नदीशब्दवाच्यं गत विदधाति । तत्र पूर्वोदक-१० विलक्षणस्योदकस्योभयतटसंयोगः पारम्पर्येण वृष्टिकार्य इति कार्यात् कारणानुमानं शेषवत् । शेषमत्र पूर्ववदनुमान एव चिन्तितम् । सामान्यतोदृष्टम् अकार्यकारणभूतेन लिङ्गेन यत्र लिङ्गिनोऽवगमः । अविनाभावित्वं त्रयाणामप्यविशिष्टम् । विवक्षितसाध्यसाधनापेक्षयाऽकार्यकारणभूतत्वादिकस्तस्य विशेषः । अन्यत्रदृष्टस्यान्यत्रदर्शनं वापूर्वकं देवदत्तादेः तथा चादित्यस्यान्यवृक्षोपरिसम्बन्धितया निर्दिश्यमानस्यान्यपर्वतो+भागसम्बन्धितया निर्देशो दृष्टः तेन च गत्यविनाभाविना भाव्यम् । अन्यत्र-१५ दर्शनस्य च न गतिकार्यत्वम् गतेः संयोगाँदिकार्यत्वात् । अन्यत्रदर्शनं धर्मि गत्यविनाभूतमिति साध्यो धर्मः अन्यत्रदर्शनशब्दवाच्यत्वाद् देवदत्तान्यत्रदर्शनवत् । नन्वन्यत्रदर्शनस्य शेषवत्यन्तर्भावो गतिजन्यत्वात् । अथान्यत्रदर्शनं न साक्षाद् गतिकार्यमपि तु पारम्पर्येणेति न शेषवत्यन्तर्भावस्त - भयतटव्यापित्वमपि न साक्षाद् वृष्टिकार्यमिति न शेषवदुदाहरणं भवेत् । अथ नान्यत्रदर्शनं हेतुः किन्तु तच्छब्दवाच्यत्वम् नन्वत्रापि वक्तव्यम् किं तद् अन्यत्रदर्शनमेव, उत तच्छक्तिः? पूर्वस्मिन् २० विकल्पे शेषवत्यन्तर्भावः । उत्तरस्मिन्नपि 'अन्यत्रदर्शनम्' इत्येवंविधः शब्दो विशिष्टप्रत्ययजनने अन्यत्रदर्शनस्वरूपस्य सहकारी हेतुः स च पारम्पर्येण गतेः कार्यत्वात् शेषवान्, असदेतत्; अत्र ह्यन्यत्रदर्शनत्वं हेतुः न तच्छब्दवाच्यत्वम् तच्च स्वरूपसहकारिभेदेन द्विरूपा शक्तिः अन्यत्रदर्शनं स्वरूपशक्तिस्तदर्शनत्वं सहकारिशक्तिः सा चात्ममनःसंयोगोऽदृष्टादि च । तत्र केषांचिन्नित्यत्वे केषांचिदनित्यत्वेऽपि न गतिकार्यतेति कुतः शेषवत्यन्तर्भावः?
एतदपरे दूषयन्ति-अन्यत्रदर्शनमित्यनेन सवितुः किमप्यधिकरणं निर्दिष्टम् । न च निरूप्यमाणं तत् संभवतीति तद्दर्शनमात्रमेवावशिष्यते न 'अन्यत्र' इतिशब्दवाच्यम् । अथोदयसमयेऽन्यत्रदर्शनं ततोऽन्यत्रदर्शनं सवितुरस्तमयसमये न च दृष्टस्यापलापो युक्तियुक्तः सत्यम् अस्त्ययं प्रतिभासः स तु 'अन्यत्र' इत्यधिकरणस्य निर्देष्टुमशक्तरयुक्तः। न च तत्सद्भावेऽप्यन्यत्रदर्शनत्वमनुपलभ्यमानं हेतुः। न च तस्योपलम्भः संभवति आत्ममनःसंयोगादृष्टादेः सर्वस्यातीन्द्रियत्वात् संयोगस्यैन्द्रियकत्वेऽप्य-३० प्रत्यक्षद्रव्यवृत्तेः प्रत्यक्षाप्रत्यक्षद्रव्यवृत्तेश्च तस्यातीन्द्रियत्वात् । अतोऽसिद्धत्वान्नान्यत्रदर्शनत्वं गत्यनुमापकमिति न सामान्यतोदृष्टानुमानोदाहरणमेतद् युक्तं किन्तु समानकोलस्य स्पर्शस्य रूपादकार्यकारणभूतात् प्रतिपत्तिः सामान्यतोदृष्टानुमानप्रभवा । न च रूप-स्पर्शयोः कार्यकारणभावो नैयायिकदृष्ट्या प्रसिद्धः अविनाभावस्तु तमन्तरेणापि तयोरुपपन्न एव । न च सौगतप्रक्रियया
१ "पूर्वमप्रतिपादितम्"-बृ.टि.। २ “अनुपयुक्तकार्य"-बृ.टि.। ३ "तेन गोगाचार्यदोषो नास्ति कारणानभिधानात्"-बृ.टि.। ४-म्बन्धत्वा-ल. वा. बा. । ५ न्यायमञ्ज. आ० २ पृ. १३० पं० २३-1 ६-तसाधना-वा० बा. हा० वि०। ७-नं प्रव-आ. हा० वि० । ८ “गमनपूर्वकम्"-बृ० टि०। ९-वि भाव्य-वा० बा०। १० "संयोगादि कार्य यस्य तद्भावः"-बृ. टि.। ११ "स्वरूपशक्तिरात्ममनःसंयोगः सहकारिशक्तिरदृष्टादि भण्यते"-बृ० टि.। १२ “अन्यत्रदर्शनस्य पारम्पर्येण गतिकार्यवात्"-बृ• टि०। १३ अत्र वा० बा. आ० हा० वि० । १४ "अन्यत्रदर्शनसम्"-बृ.टि.। १५-र्शनख-बृ०। १६-भवीति बृ०। १७ “अधिकरणसद्भावे"-बृ० टि.। १८ "अन्यत्रदर्शनस्य तत्त्वस्य वा"-बृ० टि०। १९-कालस्प-वा. बा. आ० वि० । -कार्यस्य स्प-भा. मा० । २० "रूप-स्पर्शयोविभिन्नगुणखात् ततो रूपं रूपस्यैवारम्भकम् न स्पर्शस्य एवं स्पर्शोऽपि"-बृ.टि.।