________________
५६४
१५
द्वितीये काण्डेरूपादिभिः सहोत्पादस्तदधिकरणानाम् रूपादीनां तत्कार्यत्वात् कार्यकारणयोश्च सहोत्पादे निर्हेतुकत्वप्रसक्तेः । न चान्त्यतन्तुक्रिया अन्तराले प्रतिबन्धसंभवात् त्रिचतुरक्षणव्यवधानान्नावश्य विवक्षितकार्योत्पादिकेति वक्तव्यम् यतोऽनुत्पन्नावयवक्रिये तन्ताविति विशेषणोपादानं कृतमिति नाधारविनाशात् क्रियाविनाशः क्रिया चाविनष्टा स्वकार्य विभागमवश्यमुत्पादयति से च स्वप्रति५ बन्धकाभावे स्वाश्रयसंयोग नियमतो निर्वर्तयति अन्यथा क्रियायाः स्थैर्यप्रसक्तिर्नित्याधारयोश्च नित्यत्वप्रसक्तिर्भवेत स च क्रियाप्रभवः संयोगो नियतो द्रव्याविर्भावकः सति तस्मिन् द्रव्यप्रभवोपलम्भात् । ततोऽन्त्यतन्तुक्रियातोऽन्त्यतन्तोर्विभागविशिष्टस्योपलम्भात् कार्यानुमाने न कार्यप्रत्यक्षतादोषः । येषां तु परामर्शज्ञानं न संभवति तेषां कार्यप्रत्यक्षता दूरापास्तैव । यत् पुनः 'समग्रात् कारणात् स्वात्मभूतस्य योग्यताख्यधर्मस्यानुमानं न कार्यस्य तेन स्वभावहेतुप्रभवमेतदनुमानम्' इति, २० तदसङ्गतम् ; अभेदे गम्यगमकभावस्यासंभवात् । अथ यत्रापि साध्यसाधनयोर्वास्तवोऽभेदस्तत्रापि
खलक्षणेन व्यवहारायोगात् लिङ्गसाध्यधर्मिसाध्यधर्मनानात्वप्रतिपत्तिरूपो व्यवहारो बुद्ध्यारूढ एव । तदुक्तम् “सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिभेदेनं" [ ] इत्यादि। असदेतत्, यतो यदि बुद्धिकल्पितो धर्मधर्मिव्यवहारस्तर्हि कल्पिताद्धेतोः साध्यसिद्धिर्भवेत् । ततश्च यावान् हेतुदोषः स सर्वो भवत्प्रयुक्ते साधने प्रसज्येत । तदुक्तं कुमारिलेन
"यदि चाविद्यमानोऽपि भेदो बुद्धिप्रकल्पितः। साध्यसाधनधर्मादेर्व्यवहाराय कल्पते ॥ ततो भवत्प्रयुक्तेऽस्मिन् साधने यावदुच्यते। सर्वत्रोत्पद्यते बुद्धिरिति दूषणता भवेत् ॥”
[श्लो० वा० निरा० श्लो० १७१-१७२ ] इति । २० अथ धर्मधर्मितया भेद एंव बुद्धिपरिकल्पितो नार्थोऽपि लिङ्गलक्षणः विकल्पमेदानामिच्छामात्रानुरोधित्वेन स्वतन्त्राणामाप्रतिबद्धत्वेन तदप्रतिपादकत्वात् विकल्पकल्पिताद्धेतोरर्थप्रतिपत्त्यभ्युपगमे अर्थप्रतिलम्भ एव न भवेत् ततोऽर्थ एवार्थ गमयति, असदेतत्; यतो यदि कृतकत्वादिलक्षणोऽर्थोऽनित्यत्वादेरर्थस्य गमकस्तदा तयोस्तादात्म्याद् गम्यगमकभावोऽयुक्त इत्यसकृदावेदितम् । अथ विकल्पप्रतिभासी कृतकत्वादिकः सामान्यलक्षणोऽर्थोऽभ्युपगम्यते तदा तस्यावस्तुत्वेन साध्यप्रतिबद्धत्वा२५भावाद् वस्तुत्वेनाध्यवसितस्यापि कुतो गमकत्वम् ? ययोहि प्रतिबन्धो न तयोर्भेद इति न गम्यगमकभावः ययोश्च मेदाध्यवसायो न तयोःप्रतिबन्धः। न च दृश्य-विकल्प्ययोरेकत्वाध्यवसायादनुमानानुमेयव्यवहाराददोषः तथाभ्युपगमे तदेव कल्पनाविरचितलिङ्गप्रभवत्वमनुमेयप्रतिपत्तेः संवादविरोधि समायातमिति कुतः परोक्तदूषणव्युदासः ? न च समारोपव्यवच्छेदः स्वभावहेतोः फलं संभवीति प्रतिपादितमसकृदिति न पुनः प्रतन्यते ततोऽप्रतिबद्धसामर्थ्यकारणदर्शनात् कार्यस्यैवानुमानं न पुनः ३० समग्रेभ्यः सामर्थ्यानुमानं युक्तम् । न च समर्थकारणस्य धर्मिभूतस्यानन्तरभाविकार्यविशिष्टत्वेऽनुमीयमाने समर्थत्वेन तद्गतेन साधनधर्मेण हेतुरपि व्यधिकरणः । अतः 'हेतुना यः समग्रेण' इत्याद्ययुक्तमेव । अत्र च पूर्व कारणमस्यास्तीति पूर्ववत् कार्य नाभिधीयते किन्तु कारणधर्म उन्नतत्वादिः तेन कारणधर्मस्य वृष्ट्युत्पादकत्वस्यानुमानम् न तु पूर्ववत्-कार्यात् कारणानुमानम् तेन 'पूर्ववत् कार्यात् कारणानुमानं प्राप्नोति' इति यद् गोगाचार्येण प्रेरितम् तन्निराकृतं द्रष्टव्यम् ।
१ "पटादि"-बृ. टि. । २ "खकार्यविभागः”-बृ. टि.। ३-वे आश्र-भां. मां। ४ निवर्त-६० विना। ५ “पारम्पर्येण"-बृ. टि. । ६ पृ० ५६३ पं०१। -मानं का-वा. बा०।-मान कार्य-बृ० । ८-कस्वभा-भां० मा० । ९ “एतेन “सर्व एव अयमनुमानाऽनुमेयव्यवहारो बुद्धयारूढेन धर्मधर्मिन्यायेन" इति एतदपि प्रत्युक्तम्"-अनेका• पृ० २०९ पं० १० । १० कल्प्यते वा० बा० । श्लो० वा०। ११ एवं बृ.। १२-वादिवि-बृ० । १३ "कारणगतेन"-बृ. टि. । १४ पृ. ५६३ पं. ३ । १५-णस्य वृ-ल. । १६ पृ. ५६२ पं० २४ । १७ यद् दिग्नागाचा-मां० । य दिग्नागाचा-भा० । य दियागाचा-वा० बा० ।