________________
ज्ञानमीमांसा।
नुमान सौगतैरभ्युपगतं तदपि योग्यतानुमानम् । तथाहि-योग्येयं वीजादिसामग्री प्रतिबन्धवैफल्यासंभवे विवक्षितकार्योत्पादने इत्येवं तत्स्वभावभूतयोग्यतानुमानात् स्वभावहेतुप्रभवम् । तदुक्तम्
"हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते। ___अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ॥”[
] इति, असदेतत्; यतो न कार्यस्य धर्मित्वं कारणस्य च हेतुत्वमस्माभिः क्रियते येन कार्यस्य सिद्ध्यसिद्धि-५ भ्यामनुमानाप्रवृत्तिर्भवेत् किन्तु कारणस्यैव धर्मित्वं मेघादेः क्रियते तस्य च सिद्धत्वान्नाथ्रयासिद्धत्वदोषः। तत्रैव च वृष्टयुत्पादकत्वं धर्मः साध्यते तद्धर्मेणोन्नतत्वादिना । न च प्रतिज्ञार्थंकदेश एवं हेतुः साध्यसाधनयोधर्मिधर्मयोर्वा भेदात् । तथाहि-मेघत्वजातियुक्तानां धर्मित्वं भविष्यदृष्ट्युत्पादकत्वमसिद्धमर्थान्तरं ततः साध्यो धर्मः उन्नतत्वादिकमपि साधनधर्मः मेघेभ्यो भिन्नम् तेषां द्वैविध्यदर्शनात् तेन न प्रतिज्ञार्थंकदेशताऽपि । न च साध्य-साधनयोरैक्यम् न च भाष्यविरोध.१० "कारणेन कार्यमनुमीयते” [१-१-५ वात्स्या० भा०] इति तत्र वचनात् यत उन्नतत्वादिधर्म विशिष्टा मेघाः कारणम् तथाविधकारणधर्मेण भविष्यदृष्ट्युत्पादकत्वं धर्मो यदाऽनुमीयते तदा वृष्टेरनुमानात् कारणात् कार्यानुमानमित्युपदिश्यते । अथोन्नतत्वादिधर्मयुक्तानामपि मेघानां वृष्ट्यजनकत्वदर्शनात् कथमैकान्तिकं कारणात् कार्यानुमानम् ? न; विशिष्टस्योन्नतत्वादेर्धर्मस्य गमकत्वेन विवक्षितत्वात् । न च तस्य विशेषो नासर्वज्ञेन निश्चेतुं पार्यत इति वक्तुं शक्यम् सर्वानुमानोच्छेदप्रसक्तेः । तथाहि-१५ मशकादिव्यावृत्तधूमादीनामपि खसाध्याव्यभिचारित्वमसर्वविदा न निश्चेतुं शक्यमिति वक्तुं शक्यत एव । अथ “सुविवेचितं कार्य कारणं न व्यभिचरति" [ ] इति न्यायाद् धूमादेर्गमकत्वं तत्रापि तुल्यम् यो हि भविष्यदृष्ट्यव्यभिचारिणमुन्नतत्वादिविशेषमवगन्तुं समर्थः स एव तस्मात् तामनुमिनोति नागृहीतविशेषः । तदुक्तम्-"अनुमातुरयमपराधो नानुमानस्य" [२-१-३८ वात्स्या०भा०] तथा सूत्रकारेणाऽप्यभ्यधायि-"नैकदेशवाससादृश्येभ्योऽर्थान्तरभावात्”[न्यायद०२० २-१-३८] अंत एव “गम्भीरध्वानवत्त्वे सति" [१-१-५ न्यायवा० पृ० ४७] इत्याधुन्नतत्वादेर्वार्तिककृता विशेषो दर्शितः। न चैवं साध्यसाधनभावे कार्यसत्तायाः साध्यत्वं येन भावाभावोभयधर्मस्याहेतुत्वमिति दोषः स्यात् । वैयधिकरण्यमपि प्रदर्शितप्रयोगे परिहृतमेव । यच्च अप्रतिबद्धसामर्थ्यस्य कारणस्य हेतुत्वे कार्यप्रत्यक्षतालक्षणं दूपणमभिहितम् तदसंगतमेव व्यवधानसंभवात् । तथाहिनिष्पाद्ये पटे अनुत्पन्नावयवक्रियस्यान्त्यतन्तोर्यदा क्रियातो विभागस्तदाऽविनाभावसम्वन्धस्मृति २५ विभागात् पूर्वसंयोगविनाशः तन्त्वन्तरेण च संयोगोत्पत्तिर्यदैव तदैवाविनाभावसम्बन्धस्मरणात् परामर्शज्ञानम्, यदा संयोगात् कार्योत्पादस्तदैव परामर्शविशिष्टाल्लिङ्गात् 'भविष्यति कार्यम्' इत्यनुमेयप्रतिपत्तिः । न चोत्पादकाल एव कार्यस्य प्रत्यक्षता तंत्र तंदा रूपाद्यभावात् । न च
१“यत्र कारणेन कार्यमनुमीयते यथा मेघोन्नत्या भविष्यति वृष्टिरिति” संपूर्ण भाष्यवाक्यम्। २ तथापि काबृ. आ. हा० वि०। ३ "उन्नतत्वादिना"-बृ.टि.। ४ "वृष्टिम्"-वृ.टि.। ५ “सोऽयमनुमातुरपराधो नानु मानस्य योऽर्थविशेषेणानुमेयमर्थमविशिष्टार्थदर्शनेन बुभुत्सत इति" संपूर्ण भाष्यवाक्यम् ।
"आवर्तवर्तनाशालि विशालकलुषोदकः । कल्लोलविकटास्फालस्फुरत्फेनच्छटाञ्चितः ॥ वहदहलशैवालवनशाद्वलसंकुलः । नदीपूरविशेषोऽपि शक्येत न निवेदितुम् ॥ प्रमातुरपराधोऽयं विशेष यो न पश्यति । नानुमानस्य दोषोऽस्ति प्रमेयाव्यभिचारिणः ॥ रोधोपघातसादृश्यव्यभिचारनिबन्धनम् । अनुमानाप्रमाणत्वमतो वक्तुमसांप्रतम् ॥ पारम्पर्येण वृष्टिश्च नदीपूरस्य कारणम् । पतद्धनपयोबिन्दुसंदोहस्पन्दनक्रमात्" ॥
-न्यायमा० आ० २ पृ० १३० पं० १३-। ६ "कथं पुनरस्य प्रयोगः ? वृष्टिमन्त एते मेघा गम्भीरध्वानवत्त्वे सति बहुलबलाकावत्त्वे सति अचिरप्रभावत्त्वे सति उन्नतिमत्त्वात् वृष्टिवन्मेघवदिति-"न्यायवा० पृ० ४७ पं० १०। ७ पृ. ५६२ पं० २९ । ८ पृ. ५६२ पं. ३१ ९पृ० ५६२ पं० ३३ । एतद् मजर्या समानमेव दृश्यते-न्यायमज आ० २ पृ. १२९ पं० १२-1 १० “एककाल"बृ० टि०। ११-स्मृति वि-आ० हा० वि०। १२ "इत्येककालः"-बृ.टि.। १३-त्तिः तथोत्पा-हा० । १४ “कार्ये"-बृ० टि०। १५ "भावकाले"-बृ.टि.।