________________
५६२
द्वितीये काण्डेप्रसङ्गः । अव्यपदेश्यार्थीपलब्धिजनकस्येति विशेषणे विशिष्टफलजनकस्याध्यक्षफलस्यानुमानत्वमभ्युपगतं भवेत् । तथा च विशिष्टज्ञानमेवानुमान प्रसज्यत इत्यव्याप्तिलक्षणदोषः । न च तस्यैवानुमान त्वम् "स्मृत्यनुमानागमसंशयप्रतिभास्वप्नशानोहाः सुखादिप्रत्यक्षमिच्छादयश्च मनसो लिङ्गानि" [१-१-१६ वात्स्या०भा०] इति वचनात् सर्वस्य विशिष्टफलजनकस्यानुमानत्वात् तथापि स्वरूपवि५शेषणवादिनामेषामनुमानत्वं न प्राप्नोति अव्यभिचारादिविशेषणानामसंभवात् । स्मृत्यादयस्तु स्वज्ञानविशिष्टा लिङ्गं सम्भवन्त्येव अतोऽर्थोपलब्धिरव्यभिचारादिविशेषणविशिष्टा तत्पूर्वकपूर्विका यतः तदनुमानमित्यभिधीयमाने न कश्चिद्दोषः । नन्वेतस्मिन् सूत्रव्याख्याने त्रिविधग्रहणमनर्थकम्, ना अनुमानविभागार्थत्वात् । न च पूर्ववदादिवैयर्थ्यम् स्वभावादिविषयप्रतिषेधेन तहणस्य पूर्ववदादिविषयशापनार्थत्वात्-पूर्ववदायेव त्रिविधविभागेन विवक्षितम् न स्वभावादिकम् । १० अपरे तु तत्पूर्वकं त्रिविधमनुमानमित्येतावदनुमानलक्षणमाचक्षते । अत्र चानुमानमिति
लक्ष्यम् तत्पूर्वकं त्रिविधमिति लक्षणम् । तत्पूर्वकमनुमानमित्यभिधीयमाने संस्कार-स्मृति-शाब्दविपर्यय-संशयोपमानादिषु प्रसङ्गस्तन्निवृत्त्यर्थ त्रिविधपदोपादानम् । त्रिविधमिति त्रिरूपम् त्रीणि च रूपाणि पक्षधर्मान्वयव्यतिरेकलक्षणानि गृह्यन्ते पूर्ववदादिश्रुतेः । पूर्वमुपादीयमानत्वात् कथात्रयेऽपि
पूर्वः पक्षः सोऽस्यास्तीति पूर्ववत्-पक्षधर्मत्वम् । शेष उपयुक्तादन्यत्वात् साधर्म्यदृष्टान्तः तस्मिन् १५ विद्यत इति शेषवत्-सपक्षे सत्त्वम् । सामान्यतोऽदृष्टमिति विपक्षे मनागपि यन्न दृष्टम्-विपक्षे सर्वत्रासत्त्वं तृतीयं रूपम् एतद्रूपलिङ्गालम्वनं यत् तत्पूर्वकं तदनुमानमित्युच्यमाने संस्कारादौ नातिप्रसङ्गस्तथाप्यतिव्याप्तिर्वाधितसप्रतिपक्षेषु तन्निवृत्त्यर्थं सामान्यतोदृष्टं चेति 'च'शब्दोऽबाधितविषयत्वासत्प्रतिपक्षत्वरूपद्वयसमुच्चयार्थः । तथाप्यव्याप्तिः अन्धय-व्यतिरेकिलिङ्गालम्बनयोरसंग्रहात्, न;
अन्वयिलिङ्गविवक्षायां सामान्यतोऽदृएमित्येतस्यानभिसम्बन्धात् 'पू २० तरूपद्वयोपेतचतुर्लक्षणलिङ्गप्राप्तेः। व्यतिरेकिविवक्षायां शेषवदित्येतस्यानभिसम्बन्धाद् व्यतिरेकिचतुर्लक्षणलिङ्गसंग्रहाद् अन्वयव्यतिरेकिलिङ्गविवक्षायां समस्तपदाभिसम्बन्धात् पञ्चलक्षणलिङ्गप्राप्तेः।
अन्ये तु त्रिविधग्रहणमतिव्याप्तिनिवृत्यर्थमेवान्यथा वर्णयन्ति-त्रिविधं त्रिप्रकारम् के पुनस्त्रयः प्रकारा इति विवक्षायां पूर्ववदादिनिर्देशः। तत्र पूर्ववत् यत्र कारणेन कार्यमनुमीयते । अथापि स्यात्
पूर्व कारणं तदस्यास्तीति पूर्ववत् कार्यम् एवं च कार्यात् कारणानुमानं पूर्ववत् प्रसक्तम् न कारणात् २५ कार्यानुमानम् । न च कारणदर्शनात् कार्यप्रतिपत्तिः संभविनी । तथाहि-कारणात् कार्ये साध्ये यदि कार्यस्य धर्मित्वं तदा तस्यासिद्धत्वादाश्रयासिद्धो हेतुः। अथ तस्य सिद्धत्वान्न धर्म्यसिद्ध्या हेतोराश्रयासिद्धता तर्हि साधनवैफल्यम् कार्यसत्त्वस्य हेतुव्यापारात् प्रागेव सिद्धत्वात् । न च कार्यसत्तायां साध्यायां कारणलक्षणो हेतुर्भावधर्मः सिद्धः तत्सत्तासिद्धौ हेतोस्तद्धर्मतासिद्धेः। नाप्यभावधर्मोऽसौ तत्सत्तासाधने तस्य विरुद्धत्वात् । नाप्युभयधर्मः तत्र तस्य व्यभिचारित्वात् न ह्युभयधर्मो भावमेव ३० प्रतिपादयेत् । उक्तं च-"नासिद्धे भावधर्मोऽस्ति" [
] इत्यादि । किञ्च, कारणात् कार्यमस्तीति साध्ये हेतुळधिकरणः स्यात् । कारणाच्च यदि प्रतिबद्धसामर्थ्यात् कार्यास्तित्वं भाव्यनुमीयते तदानैकान्तिकत्वं हेतोः तदुक्तम्-"नावश्यं कारणानि तद्वन्ति भवन्ति" [ ] प्रतिबन्धवैकल्यसंभवात् । अथाप्रतिवद्धसामर्थ्यात् तदा तथाभूतकारणदर्शनसमय एव कार्यस्योत्पत्तेरनन्तरसमये तस्याध्यक्षत्वात् प्रतिवन्धाद्यनुस्मरणं व्यर्थम् । यदपि समग्रेण हेतुना कार्योत्पादा
१-वत्येव बृ० ल. मां।
२ अत्र न्यायवार्तिक-तापर्यटीका-मञ्जरी-रत्नाकरीयाणि तत्तत्स्थलान्यपि अनुसंधेयानि-न्यायवा० पृ.४६ पं० २-1 न्यायवा. ता. टी. पृ. १७१-१७३ । न्यायमज. आ० २ पृ. १२७ पं. ५-1 स्याद्वादर० पृ. ५२७ पं० २२पृ० ५२८ पं० १९ आ० । ३-दाश्रितेः वा० बा०। ४ पूर्वपक्षः वा. बा. विना।
५ न्यायवा० पृ. ४६ पं० १५-पृ. ४७ । न्यायवा. ता. टी. पृ० १७३ पं०१६-पृ० १७६ । प्रस्तुता पूर्ववदादिविषया चर्चा मञ्जर्यामपि समानप्राया वर्तते-न्यायमा. आ. २ पृ० १२७ पं० २६-1 ६ “कार्यस्य"-बृ. ल.टि.। ७ "कार्यसत्ता"-वृ० ल.टि.। -ताऽसि-वृ०। ९ पृ.४८.५० ११,टि.३। १०-वैफल्य-वा. बा०मा०विना ।
न्यायमज आ. ३.पू. १२०.५.२