________________
ज्ञानमीमांसा।
५६१ कस्यानुमानत्वप्रसङ्ग इति तन्निवृत्तयेऽर्थीपलब्धिग्रहणं कार्यम् स्मृतेस्त्वनर्थजन्यत्वमर्थ विनाऽपि भावात् । न च विनष्टस्य जनकत्वम् अविनत्वप्रसक्तेः । न च विनष्टरूपतया जनकत्वम् नदाऽसत्त्वात् । अतोऽर्थोपलब्धियथोक्तविशेपणा यतो भवति तदनुमानम् । एवमपि लैङ्गिकविपर्ययेऽतिप्रसङ्गः यतो गवयविपाणदर्शनाद् गोप्रतिपत्तिरुपजायते यद् गोविषाणसादृश्यज्ञानं प्रत्यक्षफलं तत्पूर्वकं गौः' इति विपर्ययज्ञानम् अतस्तजनकस्याप्यनुमानत्वप्रसक्तिः तन्निवृत्तये अव्यभिचारिर्पदमनुवर्तनीयम् ५ एवमपि संशयज्ञानजनकेऽतिप्रसङ्गः यतो गोगवयानुयायिलिङ्गदर्शनाद् 'गोर्गवयो वा' इति संशय उपजायते तजनकं च सदृशलिङ्गज्ञानं प्रत्यक्षफलम् तत्पूर्वकं संशयज्ञानमर्थविषयं च तजनकस्याप्यनु. मानप्रसक्तिरिति तद्व्यवच्छित्तये व्यवसायात्मकपदमनुवर्तनीयम् । तथाप्यविनाभावसम्बन्धस्मरणानन्तरं 'तथा चायं धूमः' इति प्रदर्शनज्ञानाद् ‘अग्निः' इति वाक्याच्च नालिकेरद्वीपवासिनो विशिष्टदेशेऽग्निप्रतिपत्तिरुपजायते न च तस्या अनुमानफलत्वम् शाब्दत्वेन व्यवस्थापनात् तन्निवृत्तयेऽव्यप-१० देश्यपदानुवृत्तिः तथाप्युपमानेऽतिप्रसङ्गः गृहीतातिदेशवाक्यस्य पुंसः सादृश्यज्ञानं वाक्यार्थानुस्मरणसहायमव्यपदेश्यादिविशेषणत्रयविशिष्टं संज्ञासंज्ञिसम्बन्धज्ञानं तत्पूर्वकपूर्वकं जनयदपि नानुमानम् तत्फलस्याव्यपदेश्यत्वं च श्रूयमाणवाक्याजनितत्वात् । तथानुमानादिपूर्वकाणामसङ्ग्रह इति अव्याप्त्यतिव्याप्ती न निवर्तेते ततस्तन्निवृत्तये विग्रहद्वयाश्रयणम्-तानि ते च पूर्व यस्य तत् तत्पूर्वकम् । 'तानि' इति विग्रहविशेपाश्रयणेन सर्वप्रमाणपूर्वकत्वमनुमानस्य लभ्यते । न च तेषां पूर्वमप्रकृतत्वात् १५ कथं सर्वनाम्ना परामर्श इति प्रेर्यम् यतः साक्षादप्रकृतत्वेऽपि प्रत्यक्षसूत्रे व्यवच्छेद्यत्वेन प्रकृतत्वात् अव्याप्तेरेव निवृत्तिः । अतिव्याप्तेस्तु ते द्वे प्रत्यक्षे पूर्व यस्य' विग्रहविशेषाश्रयान्निवृत्तिः । तथाहितत्पूर्वकमित्यनेन लिङ्गलिगिनोः सम्बन्धदर्शनं लिङ्गदर्शनं च सम्बध्यते । न चोपमानफलमेवम्भूताध्यक्षफलद्वयपूर्वकमिति तत्फलाद् भिद्यते अनुमानफलम् । न चानुमेयप्रतिपत्तिकाले सम्बन्धग्रहणस्य निवृत्तत्वात् कथं तत्पूर्वकत्वमनुमेयप्रतिपत्तेरित्याशङ्कनीयम् यतोऽविनाभावसम्बन्धग्रहण-२० जनितसंस्कारप्रभवा स्मृतिः सम्बन्धदर्शनवाच्याऽत्र गृह्यते तया जनितो लिङ्गपरामर्शः तेनाप्रत्यक्षस्यार्थस्यानुसानम् । न चोपमानफलमेवंभूतफलपूर्वकम् अविनाभावसम्बन्धानुभवसम्बन्धस्मृतिपूर्वकत्वेन तस्य निषेत्स्यमानत्वात् । न चैवमपि प्रत्यक्षद्वयस्याश्रुतत्वान्नैवं सम्बन्ध इति वक्तव्यम् एकशेषतस्तत्सिद्धेः । नन्वेवमप्यविनाभावसम्बन्धदर्शनस्याश्रुतत्वादेव व्याख्यानमयुक्तम् , न; विशिष्ट फलद्वारेण तदपपत्तेः। तथाहि-अव्यभिचारादिविशेषणविशिष्टं फलं यतः समुपजायते तदनुमानमित्युक्ते अविनाभावसम्बन्धः सिध्यत्येव । अनिन्द्रियार्थसन्निकर्पजमशाब्दमसारूप्यमव्यभिचारि व्यवसायात्मकं न ह्यविनाभावविकलाल्लिङ्गादुदयमासादयितुं समर्थम् ; अर्थापत्त्यादीनां चानुमान एवान्तर्भावान्न तत्प्रसङ्गः। एवं यथोक्तप्रकारेण नातिव्याप्त्यव्याप्ती।
ये तु पूर्वशब्दस्यैकस्य लुप्तनिर्देशं नाभ्युपगच्छन्ति तेषां प्रत्यक्षफले अनुमानत्वप्रसक्तिः तत्फलस्य प्रत्यक्षप्रमाणपूर्वकत्वात् । अथाकारकस्याप्रमाणत्वात् कारकत्वं लभ्यते तथापि संस्कारजनके ३० प्रसङ्गः । उपलैंब्धिजनकस्येति चेत् स्मृतिजनके प्रसङ्गः । अर्थोपलब्धिजनकस्येति विशेषणे लैङ्गिकविपर्ययोपलब्धिजनके प्रसङ्गः । अव्यभिचरितार्थोपलब्धिजनकस्यति विशेपणे लैङ्गिकसन्दिग्धार्थोपलब्धिजनके प्रसङ्गः । व्यवसायात्मिकार्थोपलब्धिजनकस्येत्यभिधाने लिङ्गशब्दोत्पाद्यार्थीपलब्धिजनके
१-टस्य प्र-ल.। २-यते तद्गो-वा० बा० भ० मो०। ३ "अर्थजन्यं च"-वृ० ल. टि.। ४-पदं सम-वि०। ५-फल त-भां० मां०। ६ “पर(रा)मर्शज्ञानादिति वा पाठः"-ल• टि०। ७-फलं शा-वा० बा० । ८-त्वम् श-हा०। ९ "अग्निरेषः इति वाक्यादुपजायमानत्वात्"-वृ० ल.टि.। १०-ज्ञान वा-वा. बा. भां. मां. विना। ११-ज्ञान त-बु.।।
१२ "तानि ते तत् पूर्व यस्य तदिदं तत्पूर्वकम् । यदा 'तानि' इति विग्रहस्तदा समस्तप्रमाणाभिसंबन्धात् सर्वप्र. भाणपूर्वकत्वमनुमानस्य वर्णितं भवति । पारंपर्येण पुनस्तत् प्रत्यक्ष एवं व्यवतिष्ठत इति तत्पूर्वकत्वमुक्तं भवति । यदापि विवेकात् ते पूर्वे यस्येति ते द्वे प्रत्यक्षे पूर्वे यस्य प्रत्यक्षस्य तदिदं तत्पूर्वक प्रत्यक्षमिति"-न्यायवा० पृ. ४३ पं० २०-। न्यायवा० ता० टी० पृ. १५६ पं० २०-न्यायमचर्यामेतत् प्रकारान्तरेण सुस्पष्टं चर्चितमस्ति-आ० २ पृ० १२५ पं० ५-1 १३-मक-बृ. आ० हा. वि. विना। १४-भूतं फ-ल० । १५-भवं स-वृ०। १६-नैव स-आ• हा० वि०। १७ अत्र विशेषणपदमध्याहृत्य 'उपलब्धिजनकस्येति विशेषणमिति चेतू' एतादृशः पाठः पूरणीयः।
७२ स० तक