________________
५६०
द्वितीये काण्डे[अक्षपादीयानुमानसूत्रस्य विविधा व्याख्यामुपन्यस्य तदीयानुमानलक्षणस्य अनेकधा निरूपणम् ]
__ अत्र च सूत्रे "तत्पूर्वकमनुमानम्" इत्येतावदनुमानलक्षणमित्येके । “तत्पूर्वकं त्रिविधमनुमानम्" इति चान्ये । “तत्पूर्व त्रिविधं पूर्ववत् शेषवत् सामान्यतोदृष्टं चानुमानम्" इत्यपरे । आधे सूत्र लक्ष्यलक्षणविभागमुपदर्शयन्ति-अनुमानमिति लक्ष्यनिर्देशः तत्पूर्वकमिति लक्षणम् अत्र चैकस्य ५ पूर्वकशब्दस्य समानश्रुत्या “प्रमाणतर्कसाधनोपालम्भ-" [न्यायद०१-२-१] सूत्रवत् साधनशब्दस्य
लुप्तनिर्देशं मन्यन्ते । 'तत्पूर्वकम्' इत्यत्र तच्छब्देन प्रत्यक्षं प्रमाणमभिसम्बध्यते । तत्पूर्वकं तत्फलं तत्फलपूर्वकं तत्पूर्वकं तदनुमानं व्यर्वेच्छिनत्तीत्युच्यमाने संस्कारे अतिप्रसङ्गः तस्य तत्फलपूर्वकत्वेऽप्यबोधरूपत्वान्नानुमानव्यवच्छेदकत्वमिति तन्निवृत्तये ज्ञानग्रहणं कार्यम् अथ प्रत्यक्षसूत्रे
शानग्रहणं प्रक्रान्तं तदिहापि सम्बध्यते; नन्वेवमपि ज्ञानरूपं तत्पूर्वकं यतो भवति तदनुमानमित्यु१० च्यमाने स्मृत्यातिप्रसङ्गः द्वितीयलिङ्गदर्शनपूर्विकाया अविनाभावसम्बन्धस्मृतेस्तत्पूर्वकत्वात् तज्जन
पूर्ववदाद्यनुमानविषयाण्युदाहरणानि अत्यन्तं विभिन्नानि वर्तन्ते । उक्तकारिकाव्याख्यायां साञ्जयतत्त्वकौमुद्यां वाचस्पतिमिश्रस्त पूर्ववदादित्रिप्रकारमेव तद् वीतावीतभेदेन संगृहीतवान् तत्स्वरूपं च सविस्तर विवृतवान् ।
जैनागमग्रन्थेषु भगवती-[श. ५, उ. ४] अनुयोगद्वार [पृ० २१२-२१५ स०] प्रभृतिषु पूर्ववदादिमेदेनानुमानविभागः कृतो दृश्यते परन्तु तत्र सामान्यदृष्ट-विशेषदृष्टोभयभेदभिन्नं तृतीयमनुमानं दृष्टसाधर्म्यवन्नाम्ना ज्ञापितमस्ति । 'प्रत्यक्षं च परोक्षं च' इति सूत्रयन्तः श्रीसिद्धसेन-समन्तभद्रादयो जैनतार्किका इममागमिकमनुमानविभागं न वर्णितवन्तः। चरकसंहितायां श्लोकस्थाने अनुमानद्वैविध्यमित्थं प्रदर्शितम्
"प्रत्यक्षपूर्व त्रिविधं त्रिकालं चानुमीयते । वहिर्निगूढो धूमेन मैथुनं गर्भदर्शनात् ॥
एवं व्यवस्यन्त्यतीतं बीजात् फलमनागतम् । दृष्ट्वा बीजात् फलं जातमिहैव सदृशं बुधाः" । अ० ११ श्लो. २८-२९ पृ० २६१।।
प्रशस्तपादभाष्ये "तत् तु द्विविधम् दृष्टं सामान्यतोदृष्टं च" [पृ० २०५] इत्यादिनाऽनुमानद्वैविध्यं प्रदर्शितम् ।
मीमांसादर्शने शाबरभाष्ये “तत् तु द्विविधम्-प्रत्यक्षतोदृष्टसंबन्धं सामान्यतोदृष्टसंबन्धं च" [पृ.८५०९1 इत्येवमनुमानद्वैविध्य प्ररूपितम्।।
इदमेव मीमांसकसंमतमनुमानद्वैविध्यं तत्त्वसंग्रहे इत्थं निरूपितम्"द्वैविध्यमनुमानस्य केचिदेवं प्रचक्षते । विशेषदृष्ट-सामान्यपरिदृष्टखमेदतः" ॥-तत्त्वसं० का० १४४२ पृ. ४२२ ।
"केचिदिति कुमारिलादयः" । तत्त्वसं० पनि । अत्रार्थे सविशेषमवबुभुत्सुभिः श्लोकवार्तिकगतोऽनुमानपरिच्छेदोऽव. धारणीयः । जैनागमे सामान्यदृष्ट-विशेषदृष्टे अनुमानस्य प्रभेदौ मीमांसकनये तु ते एवानुमानस्य मेदाविति बोद्धव्यम् ।
१ "अत्र हि प्रथमं लिङ्गदर्शनं ततः प्रतिबन्धस्मरणम् ततः केषांचिन्मते परामर्शज्ञानं ततः साध्यार्थप्रतीतिः ततः प्रत्यक्षलक्षणावसरवर्णितेन क्रमेण हेयादिज्ञानमितीयति प्रतीतिकलापे यथोपपत्ति कार्यकारणभावो वक्तव्य इत्येवं तत्पूर्वकपदमेव केवलमनुमानलक्षणक्षममिति गुरवो वर्णयाचक्रुः ।
अन्ये पुनः उपमानाद्यतिव्याप्तिव्युदासाय त्रिविधग्रहणं व्याख्यातवन्तः । तत्पूर्वकमनुमानमित्युच्यमाने सति उपमानादौ प्रसङ्ग इति त्रिविधग्रहणम्"।-न्यायमञ्ज. आ० २ पृ. १२६ पं० २३-पृ० १२७ पं० २।
"तदेवं लक्षणे कश्चित् सर्व सूत्रमयोजयत् । एवं तु ख्यापितं न स्यात् सूत्रकारस्य कौशलम्"।-न्यायमञ्ज. आ. २ पृ. १२७ पं० १५।
२ "प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिप्रहो वादः" इति संपूर्ण सूत्रम् ।
३ “तानि ते तत् पूर्व यस्य तदिदं तत्पूर्वकम्" इत्यादिना 'तत्पूर्वक'पदस्य व्युत्पत्तिविचारणा न्यायवार्तिके वर्ततेपृ० ४३ पं० १९-1 एषैव विचारणा न्यायवार्तिकतात्पर्यटीकायामपि चर्चिताऽस्ति-पृ० १५६ पं० २१-1 न्यायमजर्या तु सैव भङ्गयन्तरेण विशेषविशदतया सुललिततया च निरूपिताऽस्ति-आ० २, पृ० १२६ पं०७-।
४ तत्फलपूर्वकं तत्पूर्वकपूर्वकं ल• मां० वि०। तत्फलपूर्वकं तत्पूर्वकपूर्वकपूर्वकं वा० बा । तत्फलपूर्वकं तत्पूर्वकं पूर्वकं बृ। तत्फलपूर्वकपूर्वकं हा.।।
५ "विशिनष्टि'-बृ० ल.टि.“यदि प्रत्यक्षपूर्वकमनुमानं संस्कारे निर्णये च प्रसङ्ग इति । प्रत्यक्षपूर्वको भावनाख्यः स्मृतिहेतुः संस्कारः निर्णयश्च प्रत्यक्षपूर्वकवादनुमान प्रसज्यत इति । नैष दोषः विज्ञानस्याधिकृतत्वात् । इन्द्रियार्थसन्निकर्षोंत्पन्नं ज्ञानमिति ज्ञानाधिकारो वर्तत इति तेन न संस्कारेऽतिप्रसङ्गः । निर्णये तु उभयथा" इत्यादि-न्यायवा. पृ. ४५पं. १९- न्यायवा० ता० टी० पृ० १७० पं० २०६ नन्वेवमिहापि भां० मां०।