________________
ज्ञानमीमांसा
१०
"अवश्यंभावनियमः कः परस्यान्यथा परैः। अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत्" ॥ [
] इति । याऽपि रसतः समानसमयस्य रूपादेः प्रतिपंत्तिः सोऽपि स्वकारणाव्यभिचारनिमित्ताविनाभावनिवधनेति तत्कारणोत्पत्तिरेवाविनामावनिवन्धनमन्यथा तदनायत्तस्य तत्कारणानायत्तस्य वा तेनावि
यामविशषात् सवार्थविनाभावो भवेत् । न चैकार्थसमवायनिमित्तो रूपरसादेरविना-५ भावः तस्य निषिद्धत्वात् । तदुक्तम्
"एकसामग्र्यधीनत्वाद् रूपादे रसतो गतिः। हेतुर्मानुमानेन धूमेन्धनविकारवत् ॥” [
1 इति । तदेवं तादात्म्य-तदुत्पत्त्योरविनाभावव्यापिकयोर्यत्राभावस्तत्राविनाभावाभावाद् हेतुत्वस्याप्यभावः सिद्धः । तदुक्तम्
"संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृशः।
न ते हेतव इत्युक्तं व्यभिचारस्य संभवात्" ॥ [ तथा च प्रयोगः-यस्य येन तादात्म्य-तदुत्पत्ती न स्तः न स तदविनाभावी यथा प्रमेयत्वादिरनित्यत्वादिना न स्तश्च केनचित् तादात्म्य-तदुत्पत्ती स्वभावकार्यव्यतिरेकिणामर्थानामिति व्यापकानुपलब्धिः । स्वभावानुपलब्धेस्तु स्वभावहेतावन्तर्भाव इति तस्यास्तादात्म्यलक्षण एव प्रतिबन्धः । कारण-१५ व्यापकानुपलब्ध्योरपि तादात्म्य-तदुत्पत्तिप्रतिबन्धाद् व्याप्यकार्यनिवृत्तिसाधकत्वम् । उक्तं च
"तस्मात् तन्मात्रसम्बद्धः खभावो भावमेव वा। निवर्तयेत् कारणं वा कार्यमव्यभिचारतः" ॥ [
] इति। यद्वा "त्रिधैव संः” इति स पक्षधर्मस्त्रिप्रकार एव स्वभावकार्यानुपलम्भाख्यः तदंशेन व्याप्तो नान्यः स त्रिप्रकारस्तदंशेन व्याप्त एवेति च सम्बन्धनीयम् । अविनाभावनियमात् अविनाभावस्य व्याप्तेस्त्रि-२० प्रकार एव पक्षधर्मे नियमात् त्रिविधस्य च पक्षधर्मस्याविनाभावनियमात् तेन त्रिविधपक्षधर्मव्यतिरिक्ता न हेतवः । त्रिविधश्च पक्षधर्मों हेतुरेव तदंशेन व्याप्त एवेति कृत्वा हेतुलक्षणावगमादेव हेत्वाभासाः ततो हेतुलक्षणयुक्तादपरे अन्ये तल्लक्षणविकला हेत्वाभासा अवगम्यन्त इति न पृथक तल्लक्षणाभिधानम् । तदेवं यथोक्तलक्षणाद्धेतोः साध्यप्रतिपत्तिः स्वार्थमनुमानम् यथोक्तहेत्वभिधानं च परार्थमनुमानमिति स्थितम् । एतेन "तत्पूर्वकं त्रिविधमनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं २५ चे" [ न्यायद०१-५-५] नैयायिकपरिकल्पितमनुमानलक्षणं प्रतिक्षिप्तम् ।
१पृ० ७६ पं० २०। २"अ."-बृटि० । इदं टिप्पणकं संकेतयुक्तं भाति । तत्र 'अ' शब्देन अविनाभावः । एवमग्रेतनटिप्पणगतेन 'ता.' 'त.' शब्देन तादात्म्यतदुत्पत्तिश्च सूचिता भाति । ३ "ता." "त." बृ० टि। ४-चारिनि-बृ• हा०। ५-धर्मोनु-भां० ।
"एकसामग्यधीनवं स्वरूपादेस्सतो गतिः। हेतुधर्मानुमानेन धूमेन्धनविकारवत्"॥-तत्त्वसं० पजि० पृ. ४१७ पं० २४ ।
"एकसामग्यधीनस्य रूपादेरसतो गतिः" ।-न्यायवा० ता० टी० पृ० १६२ पं० ८ । १-२-१२ प्रमाणमी. पृ० ६३ पं० १२। ६-त्वव्याप्य-वा. बा. भां० मां० विना । -म्बन्धः वा. बा. मां०। ८ यदि वा त्रि-भां० मां०। ९ पृ. ५५६ पं०३।।
१० प्रस्तुतसूत्रगतमनुमानत्रैविध्यं वात्स्यायनेन द्विधा व्याख्यायि-वात्स्या० भा० पृ. २३-२४ ।
इदं त्रिविधमपि अनुमानं प्रत्येकमन्वयविधाद्वयेन व्यतिरेकविधया अन्वय-व्यतिरेकविधाद्वयेन च पञ्चविधं सत् कालत्रयमेदेन पञ्चदशधा भवति । तदेव च प्रतिपन्नाऽप्रतिपन्नसंदिग्ध-विपर्यस्तपुरुषभेदेन षष्टिभेदं जायते । आन्तर्गणिक त्वेतदनन्तभेदं भवति इत्यादि सर्वमनुमानत्रैविध्यविषयकमतान्तरसमालोचनसहितं सविस्तर विवेचनं न्यायवार्तिक-न्यायवार्तिक'तात्पर्यटीका-न्यायमञ्जरीप्रभृतिग्रन्थेभ्योऽवसेयमनुक्रमेण-पृ. ४३-५७ । पृ० १५६-१९६ । पृ० १०९-१३५।।
नैयायिकवत् सांख्य-जैन-चरकाचार्यानिविधमनुमानं प्रतिपन्नाः । वैशेषिकास्तद् द्विविधं मन्यन्ते । मीमांसका अपि तद् द्विविधं वर्णयन्ति । बौद्धास्तु पूर्ववदादिभेदेनानुमानं न विभजन्ति । तथाहि
साख्यकारिकायामीश्वरकृष्णः "त्रिविधमनुमानमाख्यातम्" [का०५] इत्यनेनानुमानस्य त्रैविध्यमाख्यातवान् । माठरस्तदृत्तौ त्रिविधपदेन पूर्ववदादिभेदान् व्याख्यातवान् उदाहृतवांश्च सत्कार्यवादसिद्धान्तानुसारेण अत एव साङ्ख्य-नैयायिकयोः