________________
५५८
भावेषु सावधारणं निश्चयस्य । उक्तं च
द्वितीये काण्डे -
"अयमेवेति यो ह्येष भावे भवति निर्णयः । नैष वस्त्वन्तराभवसंवित्यनुगमादृते” [
] इति ।
न च हेत्वन्तराभावः प्रत्यक्षसमधिगम्यः तस्याभावविषयत्वविरोधात् । नाप्यनुमानतः तस्य ५ त्रिविधलिङ्गप्रभवत्वोपवर्णनात् कार्यस्वभावयोश्च विधिसाधकत्वेनाभावे साध्ये व्यापारासंभवात् अनुपलब्धेश्च हेत्वन्तराभावनिश्चये चतुर्विधाया अप्ययोगात् । तथाहि स्वभावानुपलब्धिर्ह्यन्योपलब्धिरूपा तुल्ययोग्यता रूपस्यैकशानसंसर्गिणोऽभावव्यवहारहेतुरभ्युपगम्यते । न चात्यन्तासत्त योपगतं हेत्वन्तरमुक्तस्वभावम् तथात्वे देशादिनिषेध एव तस्य भवेन्नात्यन्ताभावः । कारणव्यापकानुपलब्ध्योरपि कार्यकारणव्याप्यव्यापकभावसिद्धौ सत्यां व्यापारः न चात्यन्तासतो हेत्वन्तरस्य १० किञ्चिद् वस्तु कारणं व्यापकं वा सिद्धं येन तयोस्तत्र व्यापारो भवेत् । विरुद्धविधिरप्यत्रासंभवी यतो विरोधोऽविकलकारणस्य भवतोऽन्यभावेऽभावादवसीयते न च हेत्वन्तरेऽत्यन्तासत्ययं प्रकारः संभवति संभवे वा न कारणानुपलब्ध्यादीनामात्यन्तिकनिषेधहेतु तेत्याशङ्कयाह - " हेत्वाभासास्ततोSपैरे” इति । तदंशव्र्व्याप्तिवचनेनान्वयव्यतिरेकयोरभिधानात् ततः पक्षधर्मत्वान्वयव्यतिरेकलक्षणकार्यस्वभावानुपलब्धिस्वरूपात्रिविधाद्धेतोरपरेऽन्ये हेत्वाभासा यतस्ततः “त्रिधैव सः” इति । १५ अयमभिप्रायः - त्रित्वे हेतुर्नियम्यमानो हेतुर्विपर्ययेण हेत्वाभासत्वेन त्रिसंख्याबाह्यस्यार्थस्य व्याप्तौ त्रिसंख्यायामेव नियतो भवति । यथा सत्त्वलक्षणो हेतुः क्षणिकेषु नियम्यमानः सत्त्वविपर्ययेणासवेन क्षणिकविपक्षस्याक्षणिकस्य व्याप्तौ नियतः सिध्यतीति त्रिविधहेतुव्यतिरिक्तेष्वर्थेषु हेत्वाभासतोपदर्शनम् । इह च विरुद्धोपलब्ध्या कार्यस्वभावानुपलम्भव्यतिरिक्तानां भावानां हेतुत्वाभावनिश्चयः । हेतुतदाभासयोश्च परस्परपरिहारस्थितलक्षणतैव विरोधः प्रतिपन्नः हेतुलक्षणप्रतीतिकाल एव २० तदात्मनियतप्रतिभासज्ञानादेव तद्विपरीतस्यान्यतया तदाभासताप्रतीतेः परस्परमितरेतररूपाभावनिश्वयात् । तेन हेत्वाभासत्वं त्रिविधहेतुव्यतिरिक्तेषूपलभ्यमानं स्वविरुद्धं हेतुत्वं निराकरोति । न चात्यन्तासत्त्वेन हेतुत्रयवाह्यार्था अभ्युपगताः केवलं हेतुत्वमन्यत्र प्रसिद्धमेव तेषु व्यामोहादध्यारोपितमाशङ्कितं वा तद्विरुद्धोपलब्धेः प्रतिषिध्यत इति कथम् “अत्यन्तासंभविनो न विरोधगतिः” [ ] इति दूषणम् ? सहानवस्थानलक्षणवत् परस्परपरिहार स्थितलक्षणस्यापि विरोधस्य २५ भावे सर्वत्र तत्र्यायोपवर्णनमसंगतमेव । अन्यत्र च प्रसिद्ध विरोधयोः शीतोष्णयोरिव हेतुतदाभासयोहेतुत्रयवाह्येष्वर्थेषु हेत्वाभासत्वोपलम्भाद्धेतुत्वनिरासो यथाग्नावुष्णस्पर्शोपलम्भात् शीतस्पर्शनिषेध इति न क्वचित् साध्यर्धर्मिण्येव विरोधः प्रतिपत्तव्यः । अत्यन्तासतोऽपि च लाक्षणिको विरोधोऽवगम्यत एव यथा भावेन सर्वशक्तिविरहलक्षणस्याभावस्य । कुतः पुनः प्रमाणात् त्रिसंख्याबाह्यानामर्थानां हेत्वाभासत्वेन व्याप्तिरवगतेत्याशङ्कयाह - " अविनाभावनियमत्” इति लिङ्गतयाऽऽराज्यमाने ३० त्रिविध हेतुव्यतिरिक्तेऽर्थे पक्षधर्मतासद्भावेऽप्यविनाभावस्याभावात् । वक्ष्यति च - "न से त्रिविधाद्धेतोरन्यत्रास्तीत्यत्रैव नियत उच्यते” [ ] इति हेत्वाभासत्वेनासिद्धविरुद्धानैकान्तिकसामान्यधर्मेण व्याप्तमविनाभाववैकल्यं प्रमेयत्वादाववगतमिति हेत्वाभासत्वे साध्ये तत्स्वभावहेतुः त्रिविधहेतुव्यतिरिक्तत्वादेव तदन्येषामविनाभाववैकल्यं व्यापकानुपलब्धेः सिद्धम् अविनाभावस्य तादात्म्य - तदुत्पत्तिभ्यां व्याप्तत्वात् तयोरेव तस्य भावात् तत्र च तयोरवश्यं भावादतदुत्पत्तेरत३५ त्स्वभावस्य च तदनायत्ततया तदव्यभिचारनियमाभावात् । उक्तं च
"कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो ऽदर्शनान्न न दर्शनात् " ॥ [
J
१- णस्य नि-वा०
बा० । २- भावः सं-भां० म० । पृ० ३४९ पं० २३ । ३-४-५ पृ० ५५६ पं० ३-४ । ६ " अपि तु अन्यत्र धर्म्यन्तरे " - बृ० ल० टि० । ७ “ परस्परपरिहारस्थितिलक्षणः " - बृ० ल० टि० । ८ पृ० ५५६ पं० ४। ९ “ अविनाभावः " - बृ० ल० टि० । १० - हेतु त्रि- वा० वा० । ११ “ अविनाभावस्य ” - बृ० टि० । १२ - त् अत्र वा० बा० भ० मां० । १३ “ तादात्म्य-तदुत्पत्त्योः " - बृ० ल० टि० । १४ - यमोद - बृ० भ० मां• विना । पृ० ७६ पं० १७ | तत्त्वसं० पञ्जि० पृ० ४३० पं०२० । “नियमोऽदर्शनान्न तु दर्शनात् " - प्रशस्त० कं० पृ० २०७ पं० ८ | न्यायवा० ता० टी० पृ० १५८ पं० २४ । नयनप्रसादिन्यां चित्सुख्या व्याख्यायाम् " तदप्युक्तं कीर्तिना " इत्युल्लिख्यायं श्लोक उद्धृतोऽस्ति परं तत्र " - दर्शनान्न तु दर्शनात्" इति चतुर्थ चरणम् पृ० ७१ पं० २८ ।