________________
५९०
द्वितीये काण्डे-- तदुत्पत्तिलक्षणः । न चापरसम्बन्धमन्तरेण तयोर्विशेषणविशेष्यभावः सम्भवत्यतिप्रसङ्गात् । न चैतत्प्रतीतिसामर्थ्यादेवाभिप्रेतसम्बन्धप्रकल्पना प्रतीतेरन्यथापि सिद्धेः । तन्नाक्षस्य संयुक्तविशेषणभावादेतत्प्रतिपत्तिजनकत्वं युक्तम् । किञ्च, 'इह घटस्याभावः' इति स्वतन्त्रो यद्यध्यक्षप्रत्ययः कथं दर्शनानन्तरं भवेत् ? न च मानसाध्यक्षवत् स्वातन्येऽप्यानन्तर्य भविष्यति तत्र स्खविषयानन्तरविष५यसहकारित्वादेस्तदानन्तर्यनिमित्तस्य सद्भावात् अत्र च तस्यासंभवात् । तदेवं घटविविक्तप्रदेशसामोद्भतेनाध्यक्षेण तत्स्वरूपग्रहणे 'सघटात् प्रदेशादयमन्यः प्रदेशः' 'नायं घटवान्' 'इह घटो नास्ति' इत्यादयः प्रतिषेधविकल्पाः प्रवर्तमाना गृहीतग्राहितया स्मृतिरूपतां बिभ्राणा न ततः पृथक् प्रमाणतामासादयन्तीत्यभ्युपगन्तव्यम् अन्यथा शुक्लभावदर्शनानन्तरं 'शुक्लोऽयं भावः न नीलः' इति प्रत्ययो दर्शनात् पृथक प्रमाणं भवेत् । एवमन्येषामपि युक्ति-संभवानुपलब्ध्यादीनां प्रमाणान्तरत्वेन परप्रक१०ल्पितानां यथालक्षणं प्रत्यक्षानुमानयोरन्तर्भावो निराकरणं वा विधेयम् । तदेवं शब्दादीनां केषाश्चित
प्रामाण्यमेव न सम्भवति अपरेषां त्वनयोरन्तर्भाव इत्यालोच्य न्यायविदोक्तम्-"प्रमाणस्य सतोऽत्रैवान्तर्भावाद् द्वे एव प्रमाणे" [
] इति । [सौगतकृतां मीमांसकादिसम्मतप्रमाणान्तरप्रतिविधानप्रक्रियां यथासिद्धान्तं स्वीकृत्याऽपाकृत्य
च सिद्धान्तिना प्रत्यक्ष-परोक्षतया प्रमाणद्वयव्यवस्थापनम्] १५ अत्र प्रतिविधीयते यत् तावत् पक्षधर्मत्वादित्रिलक्षणयोगिनो हेतोः साध्यप्रतिपत्तिरनुमान
मभिहितम् तत्र त्रिलक्षणस्य हेतोरविनाभावित्वं नावश्यंभावि तत्पुत्रादेपैलक्षण्येऽपि गमकत्वादर्शनात् । अथ यत्राविनाभावित्वं तत्र त्रैलक्षण्यमवश्यंभावीति हेतोस्तल्लक्षणमुच्यते, असदेतत्। 'सर्वमनेकान्तात्मकं क्षणिकं वा सत्वात्' इति साधयतः क्वचिदन्वयाभावेऽपि सत्त्वस्यानेकान्तात्म
कत्वेन क्षणिकत्वेन वा विनाऽनुपपत्त्या गमकत्वदर्शनात् । तथा, 'परिणामी ध्वनिःक्षणिको वा श्रावण२०त्वात्' इत्यत्रापि न क्वचिदन्वयसद्भावः । न चानित्यत्वमन्तरेण श्रावणत्वं संभवति नित्यस्य श्रवण
ज्ञानजनकत्वासंभवात् यस्मिन् सत्येव यद् भवति यदभावे यन्न भवत्येव कथं न तत् तस्य गमकं भवेत? तथा सर्वोऽपि धूमोऽग्निमन्तरेण न कदाचित् प्रभवतीति व्याप्तिसाधने नान्वयः संभवति तदसिद्धौ च कुतोऽभिमतप्रदेशे धूमाद् अग्निनिश्चयः? अतस्त्रिलक्षणपरिकल्पनायां व्याप्तिनिश्चयस्य
सर्वत्रासंभवात् कार्य-स्वभावहेतुद्वयस्यापि गमकत्वं न स्यात् । तथा 'नास्तीह घटः उपलब्धिलक्षण२५प्राप्तस्यानुपलब्धेः' इत्यत्रापि दृष्टान्ताभावान्नान्वयः सिद्धः। न च शशशृङ्गादिको दृष्टान्तः समस्तीति
वक्तव्यम् तत्रापि दृष्टान्तान्तरकल्पनायामनवस्थाप्रसक्तेः । अथ शशशृङ्गादावनुपलम्भात् प्रवर्तिताभावव्यवहारोऽपि मूढः अनुपलभ्यमानेऽपि प्रदेशविशेषे घटादौ यस्तं न प्रवर्तयति स निमित्तदर्शनात तत्र प्रवर्त्यत इति भवत्येव शशशृङ्गोंदिरभावव्यवहारे साध्येऽनवस्थादोषविकलो दृष्टान्तः
तत्रानुपलम्भेनाभावव्यवहारस्य प्रवृत्तासद्व्यवहारशशशृङ्गादिदृष्टान्तबलात् प्रसाधनात् प्रदेशविशेषे ३० घटाभावस्य त्वध्यक्षसिद्धत्वात्, असदेतत्; यतो घटाभावसिद्धिर्घटाभावनिर्णय उच्यते सचेत सिद्धः अभावव्यवहारोऽपि सिद्ध एव अभावनिर्णयव्यतिरेकेणाभावव्यवहारायोगात् । न च प्रदेशे घटाभावं निश्चिन्वानोऽपि तच्छब्दादिकं कश्चिन्न प्रवर्तयेदित्यनुपलम्भेन प्रवर्त्यत इति वाच्यम् एवं हि भावं निश्चिन्वानोऽपि कश्चित् शब्दं नोच्चारयेदिति तत्प्रवर्तनाय हेत्वन्तरं मृग्यं स्यात् ततो घटादावप्यभावस्य साधनादृष्टान्तान्वेषणे तत्राप्यभावो यदि दृष्टान्तान्तरात् सिद्धस्तदा सैवानवस्था।
१-धकल्प-बृ. आ. हा० वि० ।
२ युक्ति-अनुपलब्धि-संभव-ऐतिह्यादीनां पृथक् प्रामाण्यप्रतिक्षेपः प्रत्यक्ष-परोक्षयोश्चान्तर्भावस्तत्त्वसंग्रहे प्रतिपादितःका. १६९२-१७०० पृ. ४८२-४८४ ।
३ प्रस्तुतचर्चया साम्यं बिभ्राणा हेतुखरूपप्रधाना चर्चा प्रमेयकमलमार्तण्डतोऽवबोद्धव्या-पृ० १०० द्वि.पं०१२पृ० १०७ प्र. पं० ७॥ ४ “अनित्यत्वाभावे"-बृ० टि०। ५“श्रवणज्ञानजनकसम्”-बृ.टि.। ६ “महानसादेरन्वयार्थ ग्रहणे तत्रापि अपरनिदर्शनाद् व्याप्तिर्निश्चेतव्या तत्राप्यपरस्मादित्यनवस्थानादिति"-बृ.टि.। ७ “व्यवहारम्"बृ० टि.। ८-ङ्गादेर-भां० मां०। ९-देशघ-बृ. आ०। १०-धनाद् दृष्टा-बृ० सं०।-धनदृष्टा-आ०। अत्र 'साधने' अथवा 'साधनाय' इति पाठः कलयितुं योग्यो भाति ।