SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ] इति । ज्ञानमीमांसा। ५५५ "अर्थस्यासंभवे भावात् प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्” ॥ [ तेन 'अनधिगतार्थपरिच्छित्तिः प्रमाणम्' इत्यादि यदुक्तम् तदप्यपास्तम्; यतः सर्व एव प्रेक्षावान् प्रवृत्तिकामः प्रमाणमन्वेषते प्रवृत्तिविषयार्थप्रदर्शकम् । अर्थक्रियासमर्थश्चार्थः प्रवृत्तिविषयः । अनागतं च प्रवृत्तिसाध्यमर्थक्रियासामर्थ्यमर्थस्य नाध्यक्षमधिगन्तं समर्थम भाविनि प्रमाणव्या वात् तत् कथमस्यार्थपरिच्छेदमात्रात् प्रामाण्यं युक्तम् ? अतः स्वविषये अध्यक्षं तदुत्पत्त्या 'यत् पूर्व मया प्रबन्धेनार्थक्रियाकारि प्रतिपन्नं वस्तु तदेवेदम्' इति निश्चयं कुर्वत् प्रवर्तकत्वात् प्रमाणम् अनुमानेऽपि चैतत् समानम् यतोऽर्थक्रियाकारित्वेन निश्चितादर्थात् पारम्पर्येणोत्पत्तिरेवाव्यभिचारित्वलक्षणं प्रामाण्यमनुमानेऽप्यध्यक्षवत् कथं नाविप्रतिपत्तिविषयः? प्रतिपद्यत एवं चाप्यनुमानस्य तदुत्पत्त्या बाह्यवह्नयध्यवसायेन लोकोऽध्यक्षवत् प्रामाण्यम् । अथाध्यक्षमपि प्रमाणं नेष्यते तर्हि १० लोकप्रतीतिबाधा भवन्तमनुवध्नाति अध्यक्षानुमानयोः प्रमाणतया लोके प्रतीतत्वात् । न च नाध्यक्षानुमानयोः प्रामाण्यमस्माभिर्निषिध्यते किन्तु त्रिलक्षणं चतुर्लक्षणं वा लिङ्गं न केनचित् प्रमाणेन भवतः प्रसिद्धमिति पर्यनुयोगे यद्यनुमानं साधकमभिधीयते ततस्तत्रापि स एव पर्यनुयोग इत्येवं सर्वत्र पर्यनुयोगपराण्येव बृहस्पतेः सूत्राणीति वक्तव्यम् यतः पक्षधर्मात् तदंशव्याप्तात् प्रमाणतोऽव. गतात् साध्यप्रतिपत्तिरनुमानम् पक्षधर्मतानिश्चयश्च क्वचित् प्रत्यक्षात् क्वचिच्चानुमानात् यत्राप्यनु-१५ मानात् तन्निश्चयस्तत्रापि नानवस्थादिदूषणम् प्रत्यक्षादेव क्वचित् तन्निश्चयादनवस्थादिदोषव्यावृत्तेः तदंशव्याप्तिनिश्चयश्च कार्यहेतोः कस्यचित् स्वभावहेतोश्च विशिष्टप्रत्यक्षादेव । स्वभावहेतोरप्यनित्यत्वस्याध्यक्षेणैव प्रतिपत्तेस्तन्निबन्धन एव तन्निश्चयः । अध्यक्षावगतेऽपि च क्षणिकत्वे तद्व्यवहारसाधनाय प्रवर्त्तमानमनुमानं न वैयर्थ्यमनुभवेत् शिंशपात्वाद् वृक्षत्वानुमानवत् । न च सत्त्व-क्षणिकत्वयोस्तादात्म्ये सत्त्वनिश्चये क्षणिकत्वस्यापि निश्चयात् तदनिश्चये वा सत्त्वस्याप्यनिश्चयात्-अन्यथा २० तत्तादात्म्यायोगात्-क्षणिकत्वानुमानवैयर्थ्यम् यतो निश्चयापेक्षो हि गम्यगमकभावः निश्चयश्चानुभवाविशेषेऽपि सत्त्व एव न क्षणिकत्वे सदृशापरापरोत्पत्त्यादेर्भ्रान्तिनिमित्तस्य सद्भावात् विपर्यये बाधकप्रमाणवृत्त्या सत्त्व-क्षणिकत्वयोस्तादात्म्यसिद्धर्वाधकप्रमाणस्य च प्रतिबन्धसिद्धिरध्यक्षत इति नानवस्थादिदोषः । न च निर्विकल्पकं व्याल्या प्रतिवन्धग्रहणाक्षमम् विकल्पोत्पादनद्वारेण तस्य तत्र सामर्थ्याभ्युपगमात् । न चाप्रमाणकेने परः पर्यनुयुज्यते वादिप्रतिवादिनोः पर्यनुयोगस्य प्रमाणत्वे-२५ नासिद्धेः । अथ यथा वचनात्मकमनुमानं न वक्तुः प्रमाणम् अथ चाऽनेन वक्ता परान् प्रतिपादयति तथाऽप्रमाणकेन पर्यनुयोगः क्रियत इत्ययुक्तमेतत् यतो वचनाद् द्वयोरप्यर्थप्रतीतिः प्रमाणभूतैवोत्पद्यतेऽर्थपरिच्छेदकत्वात् केवलं वक्तुरधिगमस्य निष्पन्नत्वात् प्रमाणं नोच्यते न पुनरप्रमाणं भवति अप्रामाण्ये वा द्वयोरप्यप्रमाणमिति कथं तथार्थप्रतीतिः? यदपि 'परप्रसिद्धनानुमानेन तदेव निषिध्यते' इत्युच्यते तदप्येतेनैव निरस्तम् । यच्च 'तद्विषयस्य सामान्यादेरभावादनुमानमप्रमाणम्' इत्यु-३० क्तम् तदप्यतद्रूपपरावृत्तवस्तुमात्रप्रसाधकत्वेनानुमानस्य प्रतिपादनात् प्रतिविहितम् यथोक्तस्य च सामान्यस्यायोगव्यवच्छेदेन प्रतिनियतदेशादिसम्बन्धितयाऽनुमानेन प्रसाधनात् । 'विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम्' इत्यपि प्रतिविहितमेव । अवगततादात्म्यतदुत्पत्तिप्रतिबन्धस्य च लिङ्गस्य साध्यगमकत्वे विशेषविरुद्धानुमानविरोधयोः सहभावदर्शनमात्रप्रतिपन्नाविनाभावलिङ्गप्रभ १ "प्रमाणहेतुत्वे"-बृ.टि.। २ पृ. १७ पं. ९ । तत्त्वसं० पजि. पृ. ७७५ पं० २७ । आप्तप० पृ० ४३ पं. १६ । १-१-११ प्रमाणमी. पृ० १४ पं. १६। ३ पृ० ५५४ पं० ४। ४ "प्रत्यक्षस्य"-बृ.टि.। ५-पत्तिर्विबृ०। ६-व वा-बृ० वा. बा. विना। लोकेऽ-बृ० विना। ८ लिङ्गं के-वा. बा. भां० मा विना । ९पृ० ६९ पं०३९ । “परपर्यनुयोगपराणि हि बृहस्पतेः सूत्राणि इति वचनात्"-प्रमाणप० पृ. ६३ पं० १। १० “प्रत्यक्षनिबन्धन-" बृ० टि०। ११-न पर्य-वा० बा०। १२-नं व-भां० मां० विना। १३ "वचनात्मकं हि अनुमानं परार्थ ततस्तस्यैव प्रमाणं न वक्तुः वक्ता चात्माप्रमाणेनाऽपि परं प्रतिपादयति"-वृ. ल. टि. । १४ नित्योत्पन्न-बृ० सं०। १५ कथं वितथाथै प्र-भां० मां०। १६ पृ. ५५४ पं०५। १७ पृ. ५५४ पं. ७॥
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy