________________
५५४
द्वितीये काण्डे -
[ प्रत्यक्षैकप्रमाणवादिनः चार्वाकस्यानुमानप्रामाण्याशङ्का ]
अत्राहुश्चार्वाकाः - भवतु सांव्यवहारिकं विशदमध्यक्षम् अनुमानादिकं तूपचरितरूपत्वाद्विषयाभावाश्च प्रमाणमनुपपन्नमिति कथं शब्दसंयोजनात् श्रुतं स्मृत्याद्युपपत्तिमत् ? तदुक्तम्- “प्रमाणस्यागौणत्वादनुमानादर्थनिर्णयो दुर्लभः” [ ] तथा “अनधिगतार्थपरिच्छित्तिः ५ प्रमाणम्" । [ ] न चानुमानमर्थ परिच्छित्तिस्वभावम् तद्विषयाभिमतस्य सामान्यादेरर्थस्याभावात् । भावेऽपि यदि विशेषस्तद्विषयोऽभ्युपगम्यते तदा तत्र हेतोरनुगमाभावः अथ सामान्यं तद्विषयस्तदा सिद्धसाध्यताप्रसक्तिः । तदुक्तम् - "विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम्" । [ ] इति । किञ्च व्याप्तिग्रहणे पक्षधर्मतावगमे च सत्यनुमानं प्रवर्तते न च व्याप्तिग्रहणमध्यक्षतः संभवति तस्य सन्निहितमात्रार्थ ग्राहकत्वेन सकलपदार्थाक्षेपेण १० व्याप्तिग्रहणेऽसामर्थ्यात् । नाप्यनुमानं तग्रहणक्षमम् तस्यापि व्याप्तिग्रहणपुरःसरतया तत्र प्रवृत्तेः अनुमानात् तग्रहणेऽनवस्थेतरेतराश्रयदोषप्रसक्तेः । प्रत्यक्षानुमानव्यतिरिक्तस्य च व्याप्तिग्राहकत्वायोगात् विशेषविरुद्धानुमानविरोधयोश्च सर्वत्र सुलभत्वात् कुतोऽनुमानस्य प्रामाण्यम् ?
[ सौगतैरनुमानप्रामाण्यसमर्थनेन चार्वाकाशङ्कायाः प्रतिविधानम् ]
अत्र प्रत्यक्षानुमानप्रमाणद्वयवादिनः सौगताः प्रतिविदधति - प्रमाणेतरसामान्यस्थितेः परबुद्धि१५ परिच्छित्तेः स्वर्गापूर्वदेवतादिप्रतिषेधेस्य चाकृतलक्षणाभिः स्वसंवित्तिभिः कर्तुमशक्तेः प्रमाणान्तरसद्भावः सिद्धः । यच्च 'प्रमाणस्यागौणत्वात्' इत्युक्तम् तत्र यद्यगौणत्वमनुपचरितत्वमभिप्रेतं तदानुमानमप्यनुपचरितमेव अस्खलितबुद्धिरूपत्वात् अथ धर्मिधर्मसमुदायस्य साध्यत्वे हेतोः पक्षधर्मत्वम् अन्वयो वाऽसंभवीति धर्मिणः साध्यत्वं पक्षधर्मत्वप्रसिद्ध्यर्थं धर्मस्य चान्वयसिद्ध्यर्थमुपचरितमित्युपचरित विषयत्वादनुमानमुपचरितम्, असदेतत् यतो यत्र धर्मिणि धूममात्रमग्नि२० मात्र व्याप्तमुपलभ्यते तत्रैवाग्निप्रतिपत्तिर्भवन्ती लोके दृश्यत इति कस्यात्रोपचारः ? समुदायस्याप्येवं साध्यत्वं सिध्यत्येव । यदाह "केवल एव धर्मो धर्मिणि साध्यस्तथेष्ट समुदायस्य सिद्धिः कृता भवति" [ ] इति । पुनरप्युक्तम् -
"धर्मस्याव्यभिचारस्तु धर्मेणान्यत्र दर्श्यते ।
तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥" [ ] इति । २५ न चानुमानविषये साध्यशब्दोपचारे अनुमानमुपचरितं नाम । न चागौणत्वादभ्रान्तत्वात् प्रमाणस्यानुमानस्य च भ्रान्तत्वादप्रामाण्यम् भ्रान्तस्याप्यनुमानस्य प्रतिबन्धबलादुपजायमानस्य प्रामाण्यसिद्धेः । तथाहि— प्रत्यक्षस्यापि अर्थस्यासंभवेऽभाव एवाव्यभिचारित्वलक्षणं प्रामाण्यम् तच्च साध्यप्रतिबद्धहेतु प्रभवस्यानुमानस्याप्यस्तीति कथं न प्रमाणम् ? तदुक्तम्
१ प्रत्यक्षैक प्रमाण समर्थन प्रवणं चार्वाकमतं प्रमेयकमलमार्तण्डे द्रष्टव्यम् - पृ० ४५ द्वि० पं० ५। २ पृ० ७० पं० २७ टि० २ । “तथा चाहुः-प्रमाणस्यागौणत्वादनुमानार्थनिश्चयो दुर्लभः " - न्यायमञ्ज० आ० २ पृ० ११८ पं० २१ ।
३ “विशेषेऽनुगमाभावात् सामान्य सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः " ॥ - न्यायमञ्ज० आ० २ पृ० ११९ पं० ४-५ । “येऽपि मन्यन्ते – विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता ” - १,१,५ शास्त्रदीपिका ० ११ पं० १० ।
४ अत्रार्थे कारिकेयं वर्तते - " तदुक्तं धर्मकीर्तिना
प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ” - प्रमाणप० पृ० ६४ पं० ३६-३८ । प्रमेयक० पृ० ४६ द्वि० पं० २ । “ तथा चोक्तं सौगतैः” इति कृत्वोद्धृतोऽयं श्लोकः प्रशस्तपाद कन्दल्याम् - पृ० २५५ पं० १७-१९ । “धर्मकीर्तिरप्येतदाह” इति निर्दिश्योद्धृतोऽयं श्लोकः प्रमाणमीमांसायाम् - १-१-११ पृ० १४ पं० १४ । ५- धस्याकृ-आ० हा० वि० । ६ प्र० पृ० पं० ४ । ७ धर्मत्वं प्रभां ० मां० आ० हा० वि० । ८ " साध्यधर्म" - बृ० टि० ।
“लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दृश्यते । तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥” - न्यायवा० ता० टी० पृ० १८० पं० ९ ।