________________
ज्ञानमीमांसा।
द्रव्यपर्यायात्मनोऽर्थस्य विषयिणश्च निर्वृत्त्युपंकरणलक्षणस्य द्रव्येन्द्रियस्य लब्ध्युपयोगस्वभावस्य च भावेन्द्रियस्य विशिष्टपदलपरिणतिरूपस्यार्थग्रहणयोग्यतास्वभावस्य च यथाक्रमं सन्निपातो योग्यदेशावस्थानं तदनन्तरोद्भूतं सत्तामात्रदर्शनस्वभावं दर्शनमुत्तरपरिणाम स्वविषयव्यवस्थापनविकल्परूपं प्रतिपद्यमानमवग्रहः । “पुनरवगृहीतविषयाकाङ्क्षणमीही" [ . ] “तदनन्तरं तदीहितविशेषनिर्णयोऽवायः" [ ] "अवेतविषयस्मृतिहेतुस्तदनन्तरं धारणा" [ ]।५ ___अत्र च पूर्वपूर्वस्य प्रमाणता उत्तरोत्तरस्य च फलतेत्येकस्यापि मतिज्ञानस्य चातुर्विध्यम् कथञ्चित् प्रमाणफलभेदश्वोपपन्नः । यथा च प्रतिभासभेदेऽपि ग्राह्यग्राहकसंविदां युगपदेकत्वं तथा क्रमभाविनामवग्रहादीनां हेतुफलरूपतया व्यवस्थितस्वरूपाणामेकत्वं कथंचिदविरुद्धम् अन्यथा हेतुफलभावाभावप्रसक्तिरिति प्रतिपादितमनेकशः । धारणास्वरूपा च मतिरविसंवादस्वरूपस्मृतिफलस्य हेतुत्वात् प्रमाणम् स्मृतिरपि तथाभूतप्रत्यवमर्शस्वभावसंज्ञाफलजनकत्वात् , संज्ञाऽपि तथाभूततर्क-१० खभावचिन्ताफलजनकत्वात्, चिन्ताऽप्यनुमानलक्षणाभिनिबोधफलजनकत्वात् , सोऽपि हानादिबुद्धिजनकत्वात् । तदुक्तम्-"मतिस्मृतिसंज्ञाचिन्ताऽभिनिबोध इत्यैनन्तरम्" [तत्त्वार्थ० १-१३] अनर्थान्तरमिति कथंचिदेकविषयम् । “प्राक् शब्दयोजनात् मतिज्ञानमेतत् शेषमनेकप्रभेद(दं) शब्दयोजनादुपजायमानमविशदं ज्ञानं श्रुतम्" [ . ] इति केचित् । सैद्धान्तिकास्तु अवग्रहेहावायधारणाप्रभेदरूपाया मतेर्वाचकाः पर्यायशब्दा मतिः स्मृतिः संज्ञा चिन्ता अभिनिबोध १५ इत्येते शब्दा इति प्रतिपन्नाः । स्मृतिसंज्ञाचिन्तादीनां तु कथञ्चिगृहीतग्राहित्वेऽप्यविसंवादकत्वादनुमानवत् प्रमाणताऽभ्युपेया। न चानुमानस्यागृहीतवलक्षणाध्यवसायात् प्रामाण्यं न यथोक्तस्मृत्यादेः शब्दानित्यत्वादिषु लिङ्गलिङ्गिधियोरप्रमाणताप्रसङ्गात् व्याप्तिग्राहकप्रमाणेन साकल्येनानधिगतस्खलक्षणाध्यवसायिना सैत्वानित्यत्वादेर्ग्रहणे तयोः समधिगतस्खलक्षणविषयत्वात् । शेषमत्र सविकल्पकमध्यक्ष प्रसाधयद्भिश्चिन्तितम् । अत्र च यत् शब्दसंयोजनात् प्राक स्मृत्यादिकमवि-२० संवादिव्यवहारनिर्वर्तनक्षम प्रवर्तते तन्मतिः शब्दसंयोजनात् प्रादुर्भूतं तु सर्व श्रुतमिति विभागः ।
"अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः" । प्रमाणमी. १-१-२७॥ । ईहादित्रयस्य लक्षणवाक्यानामपि क्रमविकासमवगन्तुकामैरुक्तेभ्य एव ग्रन्थेभ्यस्तत्तुलना विधेया। आवश्यकनियुक्ति-विशेषावश्यकभाष्ययोस्तु अवग्रहादीनां चतुर्णा लक्षणानीत्थम्"अत्थाणं उग्गहणं अवग्गहं तह वियालणं ईहं । ववसायं च अवार्य धरणं पुण धारणं बेंति" ॥ नि० १७९॥ सामण्णत्थावरगहणमुग्गहो मेयमग्गणमहेहा । तस्सावगमोऽवाओ अविच्चुई धारणा तस्स" ॥ भा० १८०॥ १“कर्णशष्कुलिकारूपमुपकरणेन्द्रियम् कदम्बगोलकाद्याकारा चक्षुरादीन्द्रियनिर्वृत्तिः"-वृ० ल.टि.।
द्रव्येन्द्रिय-भावेन्द्रियखरूप-संस्थान-पृथुवादिकं प्रज्ञापनोपाङ्गगतेन्द्रियाख्यपञ्चदशपदतोऽवबोद्धव्यम्-पृ० २९२ द्वि०३१७ प्र०। २-णलक्षणस्य वा. बा. भा. मां०। ३-त्रदर्शनमुत्तर-बृ. आ. हा० वि०। ४ "पुनरवग्रहगृहीतविशेषाकाङ्गणमीहा"-लघीयस्त्र. खो. वृ० लि. पृ. २ प्र. पं०३। ५ "तथेहितविशेषनिर्णयोऽवायः"लघीयत्र. खो. वृ.लि. पृ. २ प्र. पं०४। ६ "स्मृतिहेतुर्धारणा संस्कार इति यावत्-लघीयत्र. खो० वृ.लि. पृ. २ प्र.पं०५। ७"प्रमाणमिति सर्वत्र संटङ्कः"-बृ. ल.टि.। ८-त्यनान्तरमिति कथ-बृ. ल. वा. बा० विना । सर्वेष्वपि श्वेताम्बरीय-दिगम्बरीयेषु तत्त्वार्थव्याख्याग्रन्थेषु “मतिः स्मृतिः संज्ञा" इत्यादिक एव पाठः । सिद्धिविनिश्चयटीकायामपि तथैव समुद्धृतो दृश्यते-लि. पृ. ९९ पं० १४ । “ज्ञानमाद्यं मतिः संज्ञा चिन्ता चाभिनिबोधनम्"।-लघीयस्त्र. ५०३ श्लो०१।
"प्राङ् नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात्"।-लघीयत्र०प०३ श्लो. १। “अविसंवादस्मृतेः फलस्य हेतुखात् प्रमाणं धारणा स्मृति(स्मृतिः) संज्ञायाः प्रत्यवमर्शस्य, संज्ञा चिन्तायास्तर्कस्य, चिन्ताभिनिबोधस्यानुमानादेः प्राक् शब्दयोजनाच्छेषं श्रुतज्ञानमनेकप्रदम्"-लघीयत्र. खो० वृ० लि. पृ. २ द्वि. पं. ११ । “प्राङ् नामयोजनाच्छेषम्" इत्याद्याकलई पद्यमादाय विद्यानन्दिना चर्चितम्-१,२० तत्त्वार्थ० श्लो० वा० श्लो०८४-८८ । विशेषा० गा० १६२ पृ. ९९ । १. विशेषा• गा० ३९६-४०१ पृ. २२६-२२९ । १,१३ तत्त्वार्थ० व्या० पृ. ७८ पं० १२- ११ सत्त्वनि-वा. बा. भां० माविना। १२ “लिङ्ग-लिङ्गिधिषणयोः"-बृ० ल० टि० ।
१३ "मति-श्रुतयोः खरूपविभागपरा भूयसी चर्चा शास्त्रेषु दृश्यते, ततो विशेषार्थिना विशेषावश्यकभाष्य-ज्ञानबिन्दुतोऽवसेया-विशेषाव. भा. गा. ९७-१७५ पृ. ६३-१०६ । ज्ञानबिं० पृ. १३६ द्वि०-१३८ द्वि० तथा १४२ द्वि०-१४३ द्वि०।
०स० त.