________________
५५२
द्वितीये काण्डेतिप्रसङ्गतोऽघटमानकम् । यदपि 'ज्ञानसद्भावे न काचित् तजन्या विषयाधिगतिः अक्षादिसद्भावे तु विषयाधिगतिभिन्नोपजायत इत्यक्षादेरेवाधिगतिजनकस्य प्रमाणता' इति, तदप्यसमीक्षिताभिधानम्; ज्ञानस्यैव यथावस्थितार्थाधिगतिस्वभावतया प्रमाणत्वात् प्रमाणफलामेदाविरोधस्य च प्रतिपादितत्वात् अक्षादिसद्भावे तु विषयाधिगतेरसिद्धत्वात् । तथाहि-व्यापारवदक्षादिसद्भावेऽपि ५व्यासक्तचेतसो न विषयाधिगतिः सत्यस्वप्नज्ञाने त्वक्षादिव्यापाराभावेऽपि यथावस्थितार्थाधिगतिरुपलभ्यत इति न सा अक्षादिकार्या । न चासावपि मनोऽक्षकार्या परपरिकल्पितमनोऽक्षस्य प्रागेव निषिद्धत्वात् । अत एव 'चक्षुषाऽधिगतम्' इति तस्य साधकतमत्वाभिमानः न साधकतमताव्यवस्थापकः तदभावेऽपि विषयाधिगतिसद्भावात् । 'ज्ञानेनाधिगतः' इत्यभिमानस्तु ज्ञानस्य साधकतम
ताव्यवस्थापक एव ज्ञानाभावे तदधिगतेरभावात् । परम्परया तूपचरितमाधिगतौ साधकतमत्वम१०क्षादेर्न प्रतिषिध्यते अस्मदादिप्रत्यक्षस्य स्वार्थाधिगतिस्वभावस्याक्षादिप्रभवत्वात् । तत् "इन्द्रियानिन्द्रियनिमित्तम्" [ तत्त्वार्थ०१-१४] इति वचनात् एतेन प्रातिभस्यानक्षप्रभवस्यापि स्वार्थावगतिरूपस्य विशदतयाऽध्यक्षप्रमाणता प्रतिपादिता द्रष्टव्या। तेन यत् तत्रेन्द्रियार्थसन्निकर्पजत्वाभावप्रतिपादनेन मीमांसकैर्दषणमभ्यधायि यच्च नैयायिकैर्मनोऽक्षार्थजत्वसमर्थनेनोत्तरं प्रतिपादितं तदुभयमप्ययुक्ततया व्यवस्थितम् । शेषं त्वत्र यथास्थानं प्रतिविहितत्वान्न प्रत्युच्चार्य दूष्यते । तन्नैकान्तवादि१५प्रकल्पितमध्यक्षलक्षणमनवद्यम् ।
[प्रत्यक्षस्य तद्भेदानां च सिद्धान्तसंमतं निरूपणम् ] किं पुनस्तदनवद्यम् ? "स्वार्थसंवेदनं स्पष्टमध्यक्षं मुख्यगौर्णतः" [
] इत्येतत् । अत्र च मुख्यमतीन्द्रियज्ञानमशेषविशेषालम्बनमध्यक्षं सर्वज्ञसिद्धौ प्रतिपादितम् । गौणं तु संव्यवहारनिमित्तमसर्वपर्यायद्रव्यविषयमिन्द्रियानिन्द्रियग्रभवमस्मदाद्यध्यक्षं विशदमुच्यते । अस्य च वयो२०ग्योऽर्थः स्वार्थः तस्य संवेदनं विशदतया निर्णयखरूपम् । तेन संशय-विपर्ययाऽनध्यवसायलक्षणय
ज्ञानस्य संव्यवहारानिमित्तस्य नाध्यक्षताप्रसक्तिः नाप्यज्ञानरूपस्येन्द्रियादेः अविकल्पस्य वा सौगतपरिकल्पितस्येन्द्रियज-मानस-योगिज्ञानस्वसंवेदनरूपस्य । स्खं चार्थश्च स्वार्थो तयोः संवेदनं स्वार्थसंवेदनमित्यस्यापि समासस्याश्रयणात् अर्थसंवेदनस्यैव जैमिनीय-वैशेषिकादिपरिकल्पितस्य परोक्षस्य तदेकार्थसमवेतानन्तरज्ञानग्राह्यस्यास्वसंविदितस्वभावस्याध्यक्षताव्युदासः विज्ञानवादिपरिकल्पितस्य २५च स्वरूपमात्रग्राहकस्य ।
प्रमाणप्रमेयरूपस्य च सकलस्य क्रमाक्रममाव्यनेकधर्माकान्तस्यैकरूपस्य वस्तुनः सद्भावेऽध्यक्ष प्रमाणस्यैकस्य क्रमवर्तिपर्यायवशात् तथाव्यपदेशमासादयतश्चातुर्विध्यमवग्रहेहावायधारणरूपतयोपपन्नम् । तत्र "विषयविषयिसन्निपातानन्तरमाद्यं ग्रहणमवग्रहः”[
] विषयस्य तावत
१ पृ. ५२९ पं० १८। २ पृ० ५३७ पं० १५। ३ पृ. ५३७ पं० २० ।
४ "प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः । परोक्षं शेषविज्ञानं प्रमाणे इति संग्रहः" ॥३॥-लघीयत्र० पृ० ६ । प्रमाणप० पृ. ६९ पं० २४-२५ ।
"तदुक्तम्-प्रत्यक्षं विशदं ज्ञानं त्रिधाश्रितमविप्लवम् । परोक्षं प्रत्यभिज्ञादि प्रमाणे इति संग्रहः" ॥ अष्टस० पृ. २८९ पं० २। ५ पृ० ५३-६९ । ६-स्य संव्य-बृ. आ. हा० वि०। ७ "तत्राव्यक्तं यथाखमिन्द्रियैर्विषयाणामालोचनावधारणमवग्रहः"-१-१५ तत्त्वार्थ. भा० । “विषयविषयिसन्निपातसमयानन्तरमाद्यग्रहणमवग्रहः । विषयविषयिसन्निपाते सति दर्शनं भवति तदनन्तरमर्थस्य ग्रहणमवग्रहः"-१-१५ सर्वार्थक तथा राजवा० ।
"विषयविषयिसन्निपातानन्तरमाद्यं ग्रहणमवग्रहः । विषयस्तावद् द्रव्यपर्यायात्मार्थः विषयिणो द्रव्यभावेन्द्रियम् अर्थग्रहणं योग्यतालक्षणम् तदनन्तरभूतं सन्मानं दर्शनं स्वविषयव्यवस्थापन विकल्पमुत्तरं परिणामं प्रतिपद्यतेऽवग्रहः"लघीयत्र. खो• बृ० लि. पृ. २ प्र० पं० १-३ । ___"विषयविषयिसंनिपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः"प्रमाणनयत०२-७॥