________________
५५०
द्वितीये काण्डेलम्बनत्वम् तद्देशस्यैवमालम्बनत्वप्रसक्तेः न च प्रतिभासमानान्यार्थसन्निकर्षजत्वं तज्ज्ञानस्य सत्योदकज्ञाने अस्यादृष्टेः । न चा(वा) प्रतीयमानसन्निकर्षजत्वस्य तस्य जित्वमभ्युपगन्तुं युक्तम् अन्यथानुमेयदहनज्ञानस्यापीन्द्रियार्थसन्निकर्षजत्वं स्यात् । अथ मन एव तत्रेन्द्रियं तस्य च दहनेन सह प्रतीयमानेन नास्ति सम्बन्धः इहापि तर्हि प्रतीयमानेनोदकेन न सम्बन्धश्चक्षुषः मरीचीनां तु न ५प्रतीयमानत्वमिति ताभिरपि कथं तस्य सम्बन्धः? यच्च 'सामान्योपक्रमं विशेषपर्यवसानम् 'इदमुदकम् इत्येकं ज्ञानं तस्य सामान्यवानर्थः स्मृत्युपस्थापितविशेषापेक्षो जनकः तिरस्कृतस्वाकारस्य परिगृहीताकारान्तरस्य सामान्यविशिष्टस्य वस्तुनो जनकत्वे तथाविधस्येन्द्रियेण सम्बन्धोपपत्तेरिन्द्रियार्थसन्निकर्षजो विपर्ययः' इति, तदत्यन्तमसम्बद्धम् । पराभ्युपगमेनास्यानुपपत्तेः। तथाहि-सामान्यो
पक्रममिति यदि सामान्यविषयम् 'इदम् इति ज्ञानं तदा मरीच्युदकयोः साधारणमेकं सामान्य १० 'इदम्'इति ज्ञानस्य विषयो वक्तव्यः । न चैकान्ततो व्यक्तिभिन्नमभिन्नं वा सामान्यं संभवति
संभवेऽपि सत्त्वद्रव्यत्वव्यतिरिक्तस्य मरीच्युदकसाधारणस्य तस्य न सद्भावः सत्त्वद्रव्यत्वादेश्च ज्वलनादावपि सद्भाव इति न मरीच्युदकसाधारणत्वम् । तरङ्गायमाणत्वं तूभयसाधारणं सामान्य पराभ्युपगमेन न संभवत्येव संभवेऽपि न तस्य तदुभयनियतत्वम् अन्यत्रापि सद्भावोपपत्तेः । 'विशेषपर्यवसानम्' इत्येतदपि यदि विशेषग्राहकं तदा सामान्यग्राहकत्वानुपपत्तिः न हि 'इदम्'१५ इत्येतस्य ज्ञानस्य विशेषग्राहिताऽनुभूयते तत्त्वे वा सामान्य-विशेषयोर्भिन्नस्वरूपत्वात् कथं सामान्य
ग्राहिताऽस्य? अथ 'उदकम्'इति ज्ञानं विशेषग्राहि तर्हि भिन्नावभासम् 'इदम्' 'उदकम्' इति ज्ञानद्वयं प्रसक्तम् प्रतिभासभेदस्यान्यत्रापि भेदनिबन्धनत्वात् तस्य चात्रापि भावात् । ज्ञानद्वये च 'इदम्'इति सामान्यावभासि सत्यार्थविषयं सन्निकर्षप्रभवम् 'उदकम्'इति त्वविद्यमानविशेषावभासि
न तत् सन्निकर्षप्रभवम् यदसत्यार्थ न तद् व्य(अव्यभिचारिपदोपादानव्यवच्छेद्यम् सन्निकर्षों२० त्पन्नपदेनापोदितत्वात् यच्च सन्निकर्षजं सामान्यज्ञानं तद् व्यभिचारि न भवतीति नाव्यभिचारिपदव्यवच्छेद्यम् । अथ 'इदमुदकम्' इत्युल्लेखद्वययुक्तमेकं ज्ञानं तर्हि सामान्ये तत् प्रत्यक्षं प्रमाणं च विशेष अनध्यक्षमप्रमाणं चेति कथमेकं ज्ञानमध्यक्षानध्यक्षरूपं प्रमाणाप्रमाणरूपं च नाभ्युपगतं भवेत् ? अथ सामान्येऽपि नाध्यक्षं प्रमाणं चेदमभ्युपगम्यते तीन्द्रियार्थसन्निकर्षजत्वाभावादस्य नाव्यभिचारिपदापोद्यता विशेषेऽप्यस्य प्रामाण्येऽध्यक्षत्वे चाव्यभिचारिपदमपार्थकमपोद्याभावात् । यदि २५ च सामान्यवानर्थः स्मृत्युपस्थापितविशेषापेक्षोऽस्य जनकः कथमस्य विपर्यस्तता विद्यमानविशेषविषयत्वात् ? अथ स्मृत्युपस्थापितत्वाद् विशेषस्य अविद्यमानविशेषविषयतया तस्य विपर्यस्तता; ननु तत्राविद्यमानः स्मृत्युपस्थापितो विशेषः कथं तजनको येन सामान्यवानर्थस्तदपेक्षस्तजनकः परिगीयेत? तथापि तज्जनकत्वे इन्द्रियस्य स्वदेशकालासन्निहितार्थापेक्षस्य ज्ञानजनकत्वादर्थेन
सन्निकर्षकल्पना तस्य प्रमाणस्य चार्थवत्त्वकल्पना विशीर्येत तथा च "इन्द्रियार्थसन्निकर्षात्पन्नम्" ३० न्यायद०१-१-४] इति “अर्थवत् प्रमाणम्" [१-१-वात्स्या०भा०पृ०१] इति च न वक्तव्यं स्यात् ।
अथाजनकस्य तत्र न प्रतिभास इति स्मृत्युपस्थापितस्य तस्य तज्जनकता तहविद्यमानस्य न जनकत्वमिति विद्यमानविशेषविषयत्वेन तज्ज्ञानस्याविपर्यस्ततेति तद्व्यवच्छेदार्थमव्यभिचारिपदोपादानमनर्थकं भवेत् । सामान्यवतोऽर्थस्य केवलस्य तजनकत्वे तस्यैव तत्र प्रतिभासः स्यात् । यदपि 'तिरस्कृतस्वाकारस्य परिगृहीताकारान्तरस्य तस्य तजनकत्वम् तत्रापि वस्तुनः स्वाकारतिरस्कारे वस्तु३५ त्वमेव न स्यादिति कथं तस्य सामान्यविशिष्टता? तथाहि-मरीचीनां मरीच्याकारतापरित्यागे वस्तुत्वमेव परित्यक्तं भवेत् स्वाकारलक्षणत्वाद् वस्तुनःन चाकारान्तरस्य परिग्रहःसंभवति वस्त्वन्तरस्य
१ "न चावभातोदकभिन्नार्थसन्निकर्षजखमुदकविज्ञानस्योपपद्यते सत्योदकज्ञानेऽदृष्टवात् अन्यथानुमेयदहनज्ञानस्यापि इन्द्रियार्थसन्निकर्षजखमापनीपद्येत आत्ममनःसन्निकर्षजवात् । अथ प्रतीयमानदहनेन सह मनसो नास्ति संबन्धः तदिहापि प्रतीयमानेनाम्भसा सह नास्ति सम्बन्धश्चक्षुषस्तस्माद् अव्यभिचारिपदं न युक्तम् इन्द्रियार्थसन्निकर्षपदेनापोदितखात्"इत्यादि-तत्त्वोप० लि. पृ. १७ पं० १०-१६ ।
२-त्व (-त्वं तस्य) तस्य ल.। ३ "तज्ज्ञानस्य"-बृ० ल.टि.। ४ “सन्निकर्षजत्वम्"-वृ. ल.टि.। ५ पृ. ५२३ पं०८। ६ तथा म-बृ. आ. हा. वि. विना। "तरङ्गायमाणत्वसामान्यस्य"-बृ. टि.। ८-वापोहित-बृ० वा. बा. विना। ९ “सन्निकर्षप्रभवत्वात्"-बृ० ल. टि.। १०-क्षत्वे वा-बृ. ल. वा. बा० विना । ११ पृ. ५२३ पं०९।