________________
जानमीमांसा।
५४९ त्वेऽनवस्थाप्रसक्तेः असम्बद्धत्वे 'तत्सम्बद्धः' इति व्यपदेशानुपपत्तेः । नाप्यसावेकार्थसमवायः आत्मन्येवाव्यभिचारितादिधर्मकलापस्य प्रसक्तः। न च समवायाभावे एकार्थसमवायः संभवी न चान्यः सम्बन्धोऽत्र परैरभ्युपगम्यते । किञ्च, यदि अव्यभिचारितादयो धर्मा अर्थान्तरभूता ज्ञानस्य विशेषणत्वेनोपेयन्ते तदैकविशेषणावच्छिन्नज्ञानप्रतिपत्तिकाले नापरविशेषणावच्छिन्नस्य तस्य प्रतिपत्तिरित्यशेषविशेषणानवच्छिन्नं तत् सामथ्या व्यवच्छेदकं भवेत् अपरविशेषणावच्छिन्नतत्प्रति-५ पत्तिकाले ज्ञानस्य ज्ञानान्तरविरोधितया तँस्यासत्त्वात् । अथ निर्विकल्पके युगपदनेकविशेषणावच्छिन्नस्य तस्य प्रतिभासान्नायं दोपस्तर्हि 'व्यवसायात्मकम्' इति पदमध्यक्षलक्षणे नोपादेयम् अनिश्चयात्मकस्याप्यध्यक्षफलत्वेनाभ्युपगमात् । अथ विशेषजनितं व्यवसायात्मकम् नन्वेवं सामान्यजनितं विशेपणज्ञानमध्यक्षफलं न भवेत् । यदि चानेकविशेषणावच्छिन्नकज्ञानाधिगतिरेकं ज्ञानम् कथमेकानेकरूपं वस्तु नाऽभ्युपगतं भवेत् ? अथाव्यतिरिक्तस्तर्हि ज्ञानमेव नाऽव्यभिचारितादि तदेव १० वा न ज्ञानमित्यन्यतरदेव स्यात् न सामग्रीव्यवच्छेदस्ततो भवेत् । अथाव्यभिचारितादि ज्ञानस्वरूपमेव तदा विपर्ययज्ञानेऽप्यव्यभिचारिताप्रमक्तिः । अथ विशिएं ज्ञानमव्यभिचारितादिस्वभावम् । ननु विशेपणमन्तरेण विशिष्टता कथम्पपत्तिमती? विशेषणस्य चकान्ततो भेदे सैव सम्वन्धासिद्धिः अभेदे न विशिष्टता कथंचिद्भेदे परपक्षसिद्धिः । नन्न अव्यभिचारितापदोपादानमर्थवत् ।
इतोऽप्यपार्थकम इन्द्रियार्थसन्निकर्षपदनैव तव्यावर्त्यस्यापोदितत्वात् । तथाहि-मरीच्युदक-१५ ज्ञानव्यवच्छेदायाऽव्यभिचारिपदोपादानम् तज्जाने च उदकं प्रतिभाति न च तेनेन्द्रियसम्बन्धः अविद्यमानेन सह सम्बन्धानुपपत्तः विद्यमानन्वे वा न तद्विपयज्ञानम्य व्यभिचारिता विद्यमानार्थज्ञानवत्। अथ प्रतिभासमानोदकसम्बन्धाभावेऽपि मरीचिभिःसम्बन्धादिन्द्रियस्य तत्सन्निकर्पप्रभवं तत् अत एव मरीचीनां तदालम्बनत्वं तस्य तदन्वयव्यतिरेकानुविधानात् तद्देशं प्रति प्रवृत्तेश्च मिथ्यात्वमपि तज्ज्ञानस्यान्यदालम्बनमन्यत् प्रतिभातीति कृत्वाः नन्वप्रतिभासमानं कथमालम्वनम् ? यदि ज्ञानजन-२० कत्वात् इन्द्रियादेरप्यालम्बनत्वप्रसक्तिः आकारार्पकत्वतदधिकरणत्वादिकं त्वालम्बनत्वं न परस्याभिमनम् तस्मात् तदवभासित्वमेवालम्बनत्वम न च मरीच्यदकमाने मरीचयः प्रतिभान्ति । अथोदकाकारतया ता एव तत्र प्रतिभान्तिः ननु ताभ्य उदकाकारता यद्यव्यतिरिक्ता परमार्थसती च तदा तत्प्रतिपत्तन व्यभिचारित्वम् । अथापग्मार्थमती नदा नासामप्यपरमार्थसत्त्वप्रसक्तिः । किञ्च, अपारमार्थिकोदकतादात्म्ये मरीचीनां तदकज्ञानवद मरीचिज्ञानमपि वितथं भवेत् । न च उदकाकार २५ एकस्मिन् प्रतीयमाने मरीचयः प्रतीयन्त इति वनं शक्यमतिप्रसङ्गात् । अथ व्यतिरिक्ता ताभ्य उदकाकारता तर्हि तत्प्रतिपत्ती कथं मरीचयः प्रतिभान्ति अन्यप्रतिभासेऽप्यन्यप्रतिभासाभ्युपगमे अतिप्रसङ्गात् ? किञ्च, केशोन्दुकशाने किमालम्बनम् किं वा प्रतिभातीति वक्तव्यम् ? अथ केशोन्दुकादिकमेवालम्बनम् प्रतिभाति च तदेव तत्र तर्हि मरीच्यदकज्ञानेऽपि तदेवालम्बनम् तदेव प्रतिभातीति किं न भवेत् ? न च तज्ज्ञानम्य प्रतीयमानान्यालम्वनन्वेन मिथ्यात्वम् अपि तु प्रतिभास-३० मानम्यासत्यत्वेन अन्यथा केशोन्दकमानम्य मिथ्यात्वं न भवेत् । न च मरीचिदेशं प्रति प्रवृत्तेर्मरीच्या
१-म्वन्धत्वे आ० । २-म्बन्ध इ-बृ० वा. बा. मां. आ० । ३-भावऽ(वेऽपि ए-ल०। ४ "विशेषकम्"-वृ० ल.टि.। ५ “अव्यभिचारित्व"-बृ० ल.टि.। ६-कालेन ज्ञा-भां० मा०। ७ "ज्ञानस्य"-बृ. ल. टि.। ८-फलं भ-ल.। ९ "अव्यभिचारिपदव्यावृत्त्यस्य"-वृ० ल.टि. ।
___ “अतोऽव्यभिचारिपदमपार्थकमितोऽप्यपार्थकमिन्द्रियार्थसन्निकर्षपदेनापोदितत्वात् न हि केशोण्डुकविज्ञानस्य नयनार्थसन्निको दतिरस्ति । नन्वस्ति मरीच्युदकविज्ञानस्य तदपनोदायाव्यभिचारि पदम् नन्न, यत उदकं प्रतिभाति न च तेन सह सम्बन्धोऽस्ति विद्यमानेन सार्क सम्बध्यते नाऽविद्यमानेन । तत्संबन्धे वा न तद्विषयो मिथ्यावमिहोपपद्यते सत्योदकसंवेदनवत् ; ननु यद्यपि प्रतीयमानोदकेन सह संबन्धो नास्ति चक्षुपस्तथापाग्या (थाप्या) लम्ब्य मरीचिनिचयेन सार्क संवन्धोऽस्ति तस्य॑वालम्बनखात् तद्देशं प्रति प्रवृत्तरत एव मिथ्यात्वमन्यद आलम्बनमन्यच प्रतिभाति"-इत्यादि-तत्त्वोप० लि. पृ० १५५० ११-पृ० १६ पं० २। १. "मरीचिदेशम्"-बृ. ल.टि.। ११ “अव्यतिरिक्ता"-बृ० ल. टि.। १२ "मरीच्युदक"-बृ. ल. टि.। १३-सत्वे-वृ०। १४ "न हि केशोन्दुकज्ञानस्य प्रतीयमानात् केशोन्दुकादन्यत् किश्चिदालम्बनमस्ति ततोऽस्यापि मिथ्यावं न स्यात्"-वृ० ल.टि.।