________________
५४८
द्वितीये काण्डेलक्षणायास्तदर्थक्रियायास्तदैव निष्पत्तेः । व्यापकत्वाच्च सामान्यस्य न प्रतिनियतदेशकालप्रवृत्ति विषयतेति प्रवृत्त्यभावात् न तत्सामर्थ्यम् तदभावान्न तदवभासिनो ज्ञानस्याव्यभिचारितावगतिः। अथ प्रतिभाततद्वदर्थप्राप्त्या तदव्यभिचारित्वमिति पक्षः सोऽप्यसङ्गतः अवयवि-सामान्ययोरभावे तब्दत्पक्षस्य दुरापास्तत्वात् । अथ प्रतिभातावयवप्राप्त्या तस्याव्यभिचारिता, न; अवयवानामपि व्यणुकं ५यावदवयवित्वात् परमाणूनां चार्वाग्दर्शनेऽप्रतिभासनान्न कथंचित्प्रतिभातार्थप्राप्त्या ज्ञानस्याव्यभिचारितासंभवः । किञ्च, प्रवृत्तिसामर्थ्येनाव्यभिचारिता पूर्वोदितज्ञानस्य किं लिङ्गभूतेन ज्ञायते, उताध्यक्षरूपेण? यद्याद्यः पक्षःसन युक्तः तेन सह सम्बन्धानवगतेः अवगतौ वा न प्रवृत्तिसामर्थेन प्रयोजनम् । अथ द्वितीयः सोऽपि न युक्तः ध्वस्तेन पूर्वज्ञानेन सह इन्द्रियस्य सन्निकर्षाभावात् तद्विषयज्ञानस्याध्यक्षफलतानुपपत्तेः केशोन्दुकादिज्ञानवत् तस्य निरालम्बनत्वाच्च कथमव्यभिचारिताव्यव१० स्थापकत्वम् ? न चाविद्यमानस्य कथञ्चिद्विपयभावः संभवति जनकत्वाकारार्पकत्वमहत्त्वादिधर्मो
पेतत्वसहोत्पादसत्त्वमात्रादीनां विषयत्वहेतुत्वेन परिकल्पितानामसति सर्वेषामभावात् । अथात्मान्तःकरणसम्बन्धेनाव्यभिचारिताविशिष्टज्ञानमुत्पन्नं गृह्यत इति तदव्यभिचारितावगमः; नन्वत्राप्यव्यभिचारित्वं किं ज्ञानधर्मः उत तत्स्वरूपम् ? यदि तद्धर्मस्तदान नित्यःसामान्यपणेनापोदितत्वात्।
अनित्योऽपि यदि ज्ञानात् प्रागुत्पन्नस्तदा न तद्धर्मः धर्मिणमन्तरेण तस्य तद्धर्मत्वायोगात् । १५सहोत्पादेऽपि तादात्म्य-तदुत्पत्ति-समवायादिसम्बन्धाभावे 'तस्य धर्मः' इति व्यपदेशानुपपत्तिः। पश्चादुत्पादे पूर्व व्यभिचारि तद् ज्ञानं स्यात् । किञ्च, अव्यभिचारितादि को धर्मो ज्ञानाद व्यतिरिक्तः अव्यतिरिक्तो वा? यदि व्यतिरिक्तस्तदा तस्य ज्ञानेन सह सम्वन्धो वाच्यः । सन समवायलक्षणः तस्यासिद्धेः सिद्धावपि ज्ञानस्य धर्मतया अव्यभिचारितादिधर्माधिकरणताऽयोगात् धर्माणी धर्माधिकरणताऽनभ्युपगमात् अभ्युपगमे वा तस्यापि धर्मिरूपताप्रसक्तिः । अथ समानधर्माधिकरणता २०धर्माणां नाभ्युपगम्यते विजातीयधर्माधिकरणता त्विष्यत एव अन्यथा ज्ञाने 'अव्यभिचारि' इत्यादिव्यपदेशानुपपत्तिर्भवेत् तहव्यभिचारितादीनामपि धर्माणां सत्त्व-प्रमेयत्व-ज्ञेयत्वाद्यनेकधर्माधिकरणतया धर्मिरूपतैव प्रसक्तेति कस्यचिद्धर्मस्यापरधर्मानधिकरणस्याभावाद् धर्माभावतो धर्मिणोऽप्यभावप्रसक्तिः । नापि विशेषणविशेष्यभावलक्षणोऽसौ तस्याप्यपरसम्बन्धकल्पनया सम्बन्ध(द्ध)
१“पानादिरूपा बर्थक्रिया ततः कथं प्रादु.ध्यात्"-वृ० टि० । २ "जातिमदर्थप्राप्या"-बृ. ल. टि. । ३ "किञ्च, प्रवृत्तिसामर्थेनाव्यभिचारिता पूर्वोदितज्ञानस्य ज्ञाप्यते किं लिङ्गभूतेन आहो अध्यक्षात्मकेन ? तद्यदि लिङ्गभूतेन तदयुक्तम् तेन साकं संबन्धानवगतेः अवगतौ वा अलं प्रवृत्तिसामर्थेन । अथाध्यक्षात्मकेन तदयुक्तम् पूर्वोदितप्रत्यस्तमितेन साकं सन्निकर्षाभावात् तद्विषयविज्ञानं न प्रत्यक्षफलं निरालम्बनचात् केशोण्डुकादिसंवेदनवत् । न विज्ञानस्याभावोऽवभाति न भावस्तदभावात् । अविद्यमानस्य विषयार्थो वक्तव्यः । किमाकारार्थ(प)कत्वेन वा महत्त्वादिधर्मोपेतत्वेन वा सत्तामात्रेण वा सहोत्पादेन वा सर्वस्य प्रत्यस्तमितत्वात् कथमसी विषयस्तद्विषयत्वे केशोण्डुकादिविज्ञानस्येव मिथ्यात्वे बीजमन्वेषणीयम् आत्मसत्तामात्रेण मिथ्यात्वे सर्वस्य मिथ्याखमापद्यते ततस्तत्त्वोपप्लवः स्यात् । अथान्यथाऽव्यभिचारित्वं गृह्यते आत्मान्तःकरणसंबन्धेनोत्पन्नं विज्ञानमव्यभिचारिताविशिष्टं प्रद्योत्यते तदयुक्तम् तदव्यभिचारित्वं तद्धर्मो वा तत्स्वरूपं वा? तद्यदि तद्धर्मः स नित्योऽनित्यो वा ? यदि नित्यस्तदा जातिदोषेणापोपो(णापो)दितो वेदितव्यः । अथानित्यः स पूर्वोत्पन्नः सह पश्चाद् वा जातः ? तद्यदि पूर्वोत्पन्नस्तदा कस्यासौ धर्मः ? न हि धर्मिणमन्तरेण धर्मों भवितुमर्हति सर्वतो व्यावृत्तरूपखात् कः कस्येति वक्तव्यम् । अथ सहोत्पन्नः कस्तयोः संबन्ध इति वक्तव्यम् । तादात्म्य-तदुत्पत्ति-समवायसंवन्धाभावे सति षष्ठ्यर्थो वक्तव्यस्तस्याव्यभिचारिखमिति । अथ पृष्ठोत्पन्नस्तहिं पूर्व व्यभिचारिता विज्ञानस्य प्राप्नोति न चाध्यात्मिको व्यभिचारिरूपो धर्मोऽस्ति सुखादिव्यतिरिक्तस्तत्प्रतीत्यसंभवेन खयमनभ्युपगमात् । यदि वाऽव्यभिचारादयो धर्मा अर्थान्तरभूता अभ्युपगम्यन्ते तैरवच्छिन्नं विज्ञानं सामग्र्या अवस्थापकमु ष्यते तच्चानुपपन्नम्"-इत्यादि-तत्त्वोप० लि. पृ० १२ पं० ३-पृ० १३ पं० ११। ४ "ज्ञानेन सह लिङ्गस्य"-बृ. ल. टि. । ५ “पूर्वज्ञानविषयः"-बृ० ल. टि.। ६-यहे-बृ० आ० हा० वि० विना०। ७-नापादि-बृ० ल० आ० हा० वि०। ८ “यावदद्यापि व्य(अव्य)भिचारिता न जायते"-वृ०ल. टि. । ९ "व्य(अव्य)भि०धर्मिणः"-बृ० टि० । "व्य(अव्य)भि०धर्मस्य"-ल. टि. । १० “सम्बन्धः"-ल. टि. । ११-णां च धर्मा-आ० हा० वि० ।-णां न च धर्मा-बृ. ल.। १२-ऽसावस्या-बृ. आ. हा० वि०।