________________
ज्ञानमीमांसा।
५४७ -लिङ्गातिक्रान्त एव शब्दस्य प्राधान्येन व्यापारोपगमात् । अथोभयजज्ञानविषयस्यापि तदतिक्रान्तत्वं तहव्यपदेश्यपदोपादानमन्तरेणापि शाब्द एव तस्यान्तर्भावो भविष्यतीति तद्व्यवच्छेदार्थमव्यपदेश्यपदोपादानमनर्थकम् । अथोभयजत्वादस्य प्रमाणान्तरत्वं स्यात् असति अव्यपदेश्यग्रहणे, न; अक्षप्राधान्ये प्रत्यक्षता शब्दप्राधान्ये तु शाब्दतेति कथं प्रमाणान्तरता? न चोभयोरपि प्राधान्यम् सामग्र्यामेकस्यैव साधकतमत्वात् तेनैव च व्यपदेशप्राप्तेः । यदपि 'व्यभिचारिज्ञाननिवृत्त्यर्थमव्यभिचारिपदमुपा-५ त्तम् । तदप्ययुक्तम् । तत्प्रतिपाद्यस्यार्थस्य परमतेनासङ्गतेः। तथाहि-अदुष्टकारणप्रभवत्वं वाधारहितत्वं वा अव्यभिचारित्वं प्रवृत्तिसामर्थ्यावगमव्यतिरेकेण न ज्ञातुं शक्यमिति स्वतःप्रामाण्यनिराकरणप्रस्तावे प्रतिपादितमिति प्रवृत्तिसामर्थ्य सेवाव्यभिचारित्वम् । तच्च विषयप्राप्त्या विज्ञानस्याव्यभिचारित्वं शायमानं किं प्रतिभातविषयप्राप्त्याऽवगम्यते आहोस्विदप्रतिभातविषयप्राप्त्या? यदि प्रतिभातविषयप्राप्त्या तदोदकज्ञाने किमुदकावयवी प्रतिभातः प्राप्यते उत तत्सामान्यम् आहोस्विदुभयमिति पक्षाः।१० तत्र यद्यवयवी प्रतिभातः प्राप्यत इति पक्षः स न यक्तः अवयविनोऽसत्त्वेन प्रतिभासं प्रति विषयत्वासंभवात् सत्त्वेऽपि न तस्य पराभ्युपगमेन प्रतिभातस्य प्राप्तिः अषादिविर्वर्तनाभिघातोपजातावयवक्रियादिक्रमेण ध्वंससंभवात् । अथावस्थितव्यहरवयवैरारब्धस्य तस्य तज्जातीयतया प्रतिभातस्यैव प्राप्तिः नन्वेवमप्यन्यः प्रतिभातोऽन्यश्च प्राप्यत इति कथं तदवभासिनो ज्ञानस्याव्यभिचारिता न ह्यन्यप्रतिभासनेऽन्यत्र प्राप्तावव्यभिचारिता अन्यथा मरीचिकाजलप्रतिभासे दैवात् सत्यजलप्राप्तौ तदव-१५ भासिनस्तस्याऽव्यभिचारिता भवेत् । न च तद्देशजलप्रापकस्याव्यभिचारितेति नायं दोषः यतो देशस्यापि भास्करकरानुप्रवेशादिनाऽवयवक्रियाक्रमेण नाशात तत्त्वानुपपत्तिः। न चैवमव्यभिचारवादिनः चन्द्रार्कादिज्ञानं विनश्यवस्थपदार्थोत्पादितत्वा(दितं वा) तदव्यभिचारि भवेत् । अथ प्रतिभातो. दकसामान्यप्रात्या तदव्यभिचारीति पक्षः सोऽप्ययुक्तः एकान्ततो व्यक्तिभ्यो भिन्नस्याभिन्नस्य वा सामान्यस्यासत्त्वेन प्रतिभासपात्यालम्वनत्वायोगात् सत्त्वेऽपि तस्य नित्यतया स्वप्रतिभासज्ञानजन-२० कत्वायोगादजनकस्य च परेण ज्ञानविषयत्वानभ्युपगमात् ज्ञानविषयत्वेऽपि तस्य पानावगाहनाद्यर्थक्रियाऽनिर्वर्तकत्वान्नार्थक्रियार्थिनी तज्ज्ञानात् जलाधुपादानार्था प्रवृत्तिर्भवेत् । न च समवायात् सामान्यावगमेऽपि व्यक्तावर्थक्रियार्थिनां प्रवृत्तिः अन्यप्रतिभासे अन्यत्र प्रवृत्त्ययोगात् योगे वाऽतिप्रसङ्गात् । न च समवायस्यातिसूक्ष्मतया जाति-व्यक्त्योरेकलोलीभावेन जातिप्रतिपत्तावपि भ्रान्त्या व्यक्ती प्रवृत्तिः तज्ज्ञानस्यातस्मिंस्तहणरूपतया भ्रान्तिरूपत्वादव्यभिचारित्वायोगात् । न च २५ समवायोऽपि जातेय॑क्तौ संभवति संभवेऽपि तस्य व्यापितया सर्वत्रैकस्य प्रतिनियतव्यक्तिप्रवृत्तिनिमित्तत्वानुपपत्तिः । न च नित्यस्य तस्य ज्ञानजनकत्वमपि संभवीति स्वग्राहिणि ज्ञाने अप्रतिभासमानस्य कथं भ्रान्तिहेतुतापि तस्य संभवति? प्रतिभासनेऽपि स्वरूपेण प्रतिभासनात् कथं भ्रान्तिनिमित्तता? न च सामान्यस्य प्रतिपत्तौ सामान्यसाध्यार्थक्रियार्थितया तंदर्थिनां प्रवृत्तिःज्ञानाभिधान
१ "इन्द्रियसन्निकर्षाभावेन"-वृ० ल० टि०। २-क्षप्राधान्ये तु शाब्दतेति कथं बृ. ल. आ० ।-क्षप्रा धान्ये नु मानतेति कथं हा०वि०। ३ "शब्देन्द्रिययोः"-वृ० ल. टि.। ४ "व्यभिचारिपद-" वृ० ल.टि.। ५पृ० ८-१९। ६-कज्ञानेन कि-बृ० आ० हा० वि० ।
तत्त्वोपप्लवे (लि. पृ० २-३०) इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति नैयायिकसंमतप्रत्यक्षलक्षणस्य विचारासहखप्रदर्शिका सविस्तरा चर्चा दृश्यते, तत्र यो योऽशः शब्देनार्थेन च प्रस्तुतटीकया समानभावं बिभर्ति सोऽत्रान्यत्र च तत्तत्स्थले समुद्धृतोऽस्ति ।
___ “अथावगतं तदवगतेरव्यभिचारिता कथमवगम्यत इति पूर्वोक्तमनुसतव्यम् । उदकप्राप्त्या पूर्वोत्पन्नोदकविज्ञानस्याव्यभिचारिता व्यवस्थाप्यते । किं तत्प्रतिभातोदकप्राप्त्या आहोखित् तजातीयोद(दक) प्राप्त्या तद्वंशजजलप्राप्त्या वा ? तद्यदि प्रतिभातोदकपात्या तदयुक्तम् प्रतिभातोदकस्यावस्थानं नोपपद्यते । झषमहिषपरिवर्तनाभिघातोपजातावयवक्रियान्यायेन प्रत्यस्तमयसंभवात् । अथ तज्जातीयोदकप्राप्त्या एवं तीसत्योदकज्ञानेऽपि जाते क्वचित् तोयमासादयन्ति पुमांसस्तदपि 'अवितथं स्यात्" इत्यादि-तत्त्वोप० लि. पृ० ४ पं० ८।
७ “मत्स्य"-बृ० ल० टि०। ८-वर्तमानाभि-बृ. आ० हा० वि०। ९ “विषयप्राप्तिलक्षणाव्यभिचारित्वकल्पने"बृ० ल. टि.। १०-चारावा-भां० मां०। ११-त्पादितत्वात्तद-भां० । १२ “सामान्यस्य"-बृ० ल० टि० । १३-नां ज्ञा-बृ० । १४-क्तिप्रतिनिमि-हा० वि० ।-क्तिनिमि-ल० वा. बा. भां० मा० । १५ “समवायस्य"बृ० टि०। १६ “समवायस्य"-बृ. टि.। १७ "अर्थक्रियार्थिनाम्"-बृ० ल. टि.।