________________
५४६
द्वितीये काण्डे -
तद्विषये चक्षुर्वदिति नः एवं परसिद्धेनानुमानेन प्रमाणेतरसामान्यव्यवस्थादेश्चार्वाकस्योत्पत्त्यनित्यत्वादिना सुखादेरचेतनत्वप्रसाधनं सांख्यस्यं चानिषिद्धं भवेत् बौद्धाभ्युपगतेनानुमानेनोत्पत्त्यादिना च तेनापि स्वाभिप्रेतसाध्यस्य साधयितुं शक्यत्वात् । यश्च बाणादेरागतस्य ग्रहणेऽपि दूरादिव्यवहारं प्रतिपद्यते परः स कथं तत एव त्वदीयं साध्यं प्रतिपद्येत ? यदि च स्वोत्पत्तिदेशस्थ एवं शब्दः श्रोत्रेण ५ गृह्येत नागतस्तर्हि कथमनुवाते शब्दस्य तद्देशोत्पत्तिकस्यैव श्रवणम् प्रतिवातेऽश्रवणम् मन्दवाते मना श्रवणं भवेत् ? न च प्रतिकूलवातेन शब्दस्य नाशितत्वात् श्रोत्रस्य वाभिहतत्वान्न श्रवणं शब्दविनाशे अनुकूलवातस्थस्यापि तदश्रवणप्रसक्तेः । शब्दस्य विनष्टत्वात् व्यवहितदेशस्थस्य च तस्य श्रोत्राभिघातहेतुत्वानुपपत्तेः अन्यथा भस्त्रादिव्यवस्थितस्यापि तस्य तदुपघातकत्वं स्यात् । अनुकूलवातेन तस्य तं प्रति प्रेरणात् तेन तच्छ्रवणे 'प्राप्तः शब्दः श्रूयते' इति प्राप्तम् तथापि तत्र दूरादि१० व्यवहारे न श्रोत्रमप्राप्तप्रकाशकमतः सिध्यतीति कथं न व्यतिरेकी हेतुः ? न च 'चक्षुः शब्देन नायनरश्म्यभिधानादत्यासन्नप्रकाशकत्वाच्च तेषाम् 'अत्यासन्नाप्रकाशकत्वात्' इति हेतुरसिद्धः तेषां प्रत्यक्षादिप्रमाणाविषयत्वेन सद्भावासिद्धेरिति प्रतिपादनात् । तदसिद्धतादिदोषविकलादतो हेतोर - प्राप्तार्थप्रकाशकत्वं चक्षुषः सिद्धमिति 'रूवं पुण पासइ अपुठ्ठे तु' इति न युक्तिविकलं वचः तदेवमिन्द्रियार्थसन्निकर्षोत्पन्नत्वं प्रत्यक्षस्यासिद्धम् ।
१५
दपि न त्वन्तःकरणेन्द्रियसम्बन्धस्य सुखादिज्ञानोत्पत्तावसंभवेन तस्याव्यापकत्वादभिधानम्' इति, तदप्यसम्बद्धम् ; यथा हीन्द्रियार्थसन्निकर्षो यथोक्तन्यायेन रूपज्ञानोत्पत्तौ न संभवीति न प्रत्यक्षलक्षणं तथान्तःकरणेन्द्रियसम्बन्धोऽपि; अन्तःकरणस्य परपरिकल्पितस्यासिद्धत्वात् तत्सम्बन्धस्य च दूरापास्तत्वात् । यथा चान्तःकरणस्यासिद्धिस्तथा स्वनिर्णयं ज्ञानस्य साधयद्भिः प्रदर्शितम् । यदपि 'अव्यभिचारादिकार्यविशेषणोपादानमन्तरेण सन्निकर्षस्य साधुत्वं ज्ञातुं न शक्यते' इति २० अभिधानम् तदप्यसङ्गतम् ; परपक्षेऽव्यभिचारादिधर्मोपेतस्य ज्ञानकार्यस्यैवासिद्धेः कथं ततः सन्नि कर्षस्य साधुत्वावगमः ? कोर्यत्वानवगमश्च ज्ञानस्य स्वसंविदितत्वानभ्युपगमे ज्ञानान्तरप्रत्यक्षतायामनवस्थादिदोषोपपत्तेः प्राक् प्रतिपादनात् । यच्च 'अर्थग्रहणं स्मृतिफलसन्निकर्षनिवृत्त्यर्थम्' इत्युक्तम्, तदप्यसङ्गतम् ; स्मृतिवद् ज्ञानस्याप्यर्थजन्यत्वासिद्धेः तज्जन्यत्वात् तस्यें तड्राहकत्वे समानसमयचिरातीतानागतार्थग्राहकत्वं तस्य न स्यात् तथाभूतस्यार्थस्य तत् प्रत्यजनकत्वात् तथा च सर्वज्ञज्ञानं २५ सकलपदार्थग्राहकं न भवेदिति प्राक् प्रतिपादितम् । यदपि 'ज्ञानग्रहणं सुखादिनिवृत्त्यर्थम्' इति प्रतिपादितम्, तदप्यसङ्गतम् ; सुखादेर्ज्ञानरूपत्वानतिक्रमात् अन्यथा आल्हादाद्यनुभवो न स्यात् तग्राहकस्यापरस्यानुभवस्यानवस्थादिदोषतो निषिद्धत्वात् । यदपि भिन्नहेतुकत्वं सुखादेः प्रतिपदितम् तदपि सुखत्वादेः सामान्यस्यासिद्धेरसङ्गतम् । यश्च प्रत्यक्षविरोधः प्रतिपादितो ज्ञानसुखयोरेकत्वे - 'ज्ञानमर्थावबोधस्वभावं सुखादिकमाल्हादादिस्वभावं ततो भिन्नमध्यक्षतोऽनुभूयते' इति ३० सोऽप्यनुपपन्नः यतः स्वावबोध एव विज्ञाने अव्यभिचरितो धर्मः स्मरणादौ ज्ञानरूपतायामप्यर्थावबोधरूपताया अभावात् । एतच्च 'अर्थोपलब्धिः' इति विशेषणमुपाददता प्रमाणे परेणाभ्युपगतमेव । स्वावबोधरूपता तु ज्ञानाव्यभिचरिता सुखादावप्यस्ति अन्यथा तस्यानुभव एव न स्यादिति प्रतिपादितम् ततश्च सुखादेर्ज्ञानरूपतायां कथमध्यक्षविरोधः ? अदृष्टविशेषप्रभवत्वेन च सुखादेर्भेदे सुरूपज्ञानस्य विरूपज्ञानाद् ज्ञानरूपतया भेदो भवेत् अहप्रविशेपजन्यताया अविशेषात् । तन्न ३५ सुखादिव्यवच्छेदार्थ ज्ञानपदोपादानं युक्तम् । अव्यपदेश्यपदोपादानमप्यनर्थकम् व्यवच्छेद्याभावात् । 'उभयजं ज्ञानं व्यवच्छेद्यमिति चेत्, नः तस्याध्यक्षंतायां दोषाभावात् । अथ शब्दजत्वात् तस्य शाब्दे ऽन्तर्भावः; नन्वक्षजत्वादध्यक्षे किमिति नान्तर्भावः ? शब्दस्य तत्र प्राधान्याच्छाब्दं तदिति चेत्, न; अक्ष
१- स्य वानि - आ० । २ “परवादिना”-बृ० ल० टि० । ३ व श्रोत्रे - वृ० आ० हा० वि० विना । ४-हारो म श्रो- आ० हा ० वि० ।-हारे श्रो- वा० बा० । ५ पृ० ५४५ पं० भां० मां० विना । ८ पृ० ४७७ पं० विना । ११ पृ० ५२० पं० ११ । १५ पृ० ५२० पं० १४ । १९- क्षतया दो - वृ० ।
१७ पृ० ४७८ पं० ६ । ९ १२ “ज्ञानस्य”–बृ० ल० टि० १६० ५२१ पं० ५ ।
११ । ६ पृ० ५१९ पं० २३ । ७-स्य दूपृ० ५२० पं० ३ । १० कार्यान - वा० वा० । १३ “अर्थः " - बृ० ल० टि० । १४ सर्वज्ञानं १७ पृ० ५२१ पं० ४ । १८- यजज्ञा-पृ० भा०
बृ० । वि० ।