________________
ज्ञानमीमांसा।
१०
तस्यानर्थान्तरत्वे तावेव स एव वा स्यात् । अर्थान्तरत्वे भावाभावयोः सद्भावेऽपि न विशेषणविशेष्यरूपंता ताभ्यां तस्यासम्बन्धात् सम्बन्धे वा ताभ्यां तस्यापरेण सम्बन्धनिमित्तेन विशेषणविशेष्यभावेन भवितव्यम् । तस्यापि सम्बन्धनिमित्तनापरेण तेनेत्यनवस्था भवेत् । तस्मात् कथञ्चित् तयोस्तादात्म्यमभ्युपगन्तव्यम् । अन्यथाऽभावस्याध्यक्षप्रमाणग्राह्यता न भवेत्। तदेवं समवायासिद्धेर्नाक्षस्य रूपेण सम्बन्ध इति न तेन तस्य ग्रहणं परपक्षे भवेदिति "चक्षुषो घटेन संयोग एव युतसिद्ध-५ त्वात् द्रव्यसमवेतानां गुणादीनां संयुक्तसमवाय एव” [
] इत्यादि षोढा सन्निकर्षप्रतिपादनमयुक्तम् संयोग-समवाय-विशेषणविशेष्यभावसम्बन्धानामभावेन तदनुपपत्तेः संयोगादेश्चाभावः प्रतिपादित एव यथावसरमिति न पुनः प्रतिपाद्यते । ___अथ यथाऽस्माकं चक्षुपः प्राप्तार्थप्रकाशकत्वं प्रमाणाभावान्न सिद्धं तथा भवतोऽप्यप्राप्तार्थप्रकाशकत्वं तस्य तत एव न सिद्धमिति कथम्
“रूवं पुण पासइ अपुढे तु” [आवश्यकनि० गा० ५] इत्यभिधानं युक्तिसङ्गतम्, न तस्याप्राप्तार्थप्रकाशने अनुमानसद्भावात् । तथाहि-अप्राप्तार्थप्रकाशकं चक्षुः अत्यासन्नार्थाप्रकाशकत्वात् यत् पुनः प्राप्तार्थप्रकाशकं तदत्यासन्नप्रकाशकमुपलब्धम् यथा श्रोत्रादि अत्यासन्नार्थाप्रकाशकं च चक्षुस्तस्मादप्राप्तार्थप्रकाशकमिति व्यतिरेकी हेतुः । न चायमसिद्धो हेतुः गोलकस्थस्य कामलादेः पक्ष्मपुटगतस्य चाञ्जनादेस्तेनाप्रकाशनात् कथमन्यथा दर्पणादेः परो-१५ पदेशस्य वा तत्प्रतिपत्त्यर्थमुपादानं भवेत? अथ साध्यनिवृत्ती नियमेन यतः साधनं निवर्तते स वैधर्म्यदृष्टान्तः जीवच्छरीरस्य सात्मकत्वे साध्ये घट इव आत्मशरीरसंयोगविशेषे सात्मकत्वे निवर्तमाने नियमेन ततः प्राणादिमत्त्वनिवृत्तेः न च श्रोत्रादेरप्राप्तार्थप्रकाशकत्वे निवर्तमानेऽत्यासन्नार्थाप्रकाशकत्वं नियमेन व्यावर्तते चक्षुप इव तस्याप्यत्यासन्नार्थाप्रकाशकत्वात् ततो नायं व्यतिरेकी हेतुः, न; कर्णशष्कुलीप्रविष्टमशकादिशब्दस्य तेनं प्रकाशनात् स्पर्शनादौ त्वविवाद एव । २० "चक्षुः-श्रोत्र-मनसामप्राप्तार्थकारित्वम्" [ ] इति वचनादप्राप्तार्थप्रकाशकं श्रोत्रमिति न साध्यनिवृत्तौ साधननिवृत्तिस्तत इति नायं व्यतिरेकी हेतुरिति सौगतः यथा सर्वगतात्मपक्षे सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति हेतुः, न; अप्राप्तकारित्वे श्रोत्रस्य चक्षुष इवात्यासन्नविषयप्रकाशकत्वं न स्यादिति मशकादिशब्दस्य प्राप्तस्य प्रत्यक्षतः प्रकाशकत्वेन प्रतीयमानस्याप्राप्तार्थप्रकाशकत्वं तस्याध्यक्षबाधितम् अग्नावनुष्णत्ववत् । अथ 'दूरे शब्दो निकटे शब्दः' इति प्रतीतेः २५ प्रोप्ताप्रकाशकम् प्राप्तार्थप्रकाशकं च श्रोत्रमिष्यते, न सदेतत्; यतः साकारज्ञानपक्षेऽनाकार ज्ञानपक्षे वाऽयमभ्युपगम इति वाच्यम् ? न तावत् प्रथमः पक्षः शब्दाकारस्य ज्ञानगतस्यावभासे दूर-निकटव्यवहारानुपपत्तेः अन्यथा स्वसंवेदनाकारेऽपि तत्प्रसक्तिर्भवेदिति सर्वत्रासन्नद्रव्यवहारोऽघटमानक: स्यात् । अथाकाराधायकस्यासन्नादित्वात् तद्व्यवहारस्तर्हि परपक्षेऽप्येतदुत्तरं समानं भवेदिति किं तत्प्रतिक्षेपः? शक्यं हि परेणाप्येवमभिधातुम् कर्णशष्कुल्यनुप्रविष्टस्य शब्दस्य ३० ग्रहणेऽपि तत्प्रथमकारणस्य दूरत्वाद दरव्यवहारो विपर्ययाच्च विपर्यय इति । द्वितीयपक्षस्त्वयुक्तः सौगतस्यानभिमतत्वात् । अथ परापेक्षयोऽप्राप्तार्थप्रकाशकं श्रोत्रमित्यभिधीयते दूरादिव्यवहारात्
१-वयोस्तद्धा-भां० मां० विन।। २-पताभ्यां भां० मा० आ० हा० । ३ पृ० ५१९ पं० १५-२० टि०९। ४ पृ० ११३ पं० ४२ तथा पृ० १०६ पं० १०।
५ “पुढे सुणेइ सई रूवं पुण पासइ अपुढे तु । गंधं रसं च फासं बद्धपुढे वियागरे" ॥ इति संपूर्णा गाथा । ६ "चक्षुषाऽप्रकाशनात्"-बृ. ल. टि.। "घटादेः सकाशात्"-वृ. ल. टि०। ८"प्राप्तार्थप्रकाशकत्वे"बृ० ल० टि०। ९ "श्रोत्रादे:"-बृ० ल. टि.। १० "श्रोत्रेण"-बृ० ल. टि.। ११ "श्रोत्रस्य"-बृ. ल. टि.। १२ प्राप्तार्थप्र-वा. बा. आ. हा०वि० । अत्र 'प्राप्तार्थप्रकाशकं च' इत्यंशस्य असंलग्नतया भासमानत्वात् 'अथ दूरे शब्दो निकटे शब्द इति प्रतीतेः प्राप्तार्थाप्रकाशक श्रोत्रमिष्यते' एतावान् पाठो मौलिको भाति । “प्राप्यकारित्वे च श्रोत्रस्य तद्गोचरे शब्दे दूरादिव्यवहारो न स्यात् । अस्ति चात्रायं दूरे शब्दो निकटे शब्दः श्रूयत इति प्रतीतिः अतोऽप्राप्य. कारित्वमेवास्योपपन्नम्”–स्याद्वादर० पृ. ३३३ पं० १८ आ०। १३ "निराकारज्ञानस्य"-बृ.टि.। १४ “निरा. कारज्ञानरूपः"-ल.टि.. १५-या प्रा-वा. बा०।
७० स०त.