________________
५४४
द्वितीये काण्डेकिमित्यालोकाभावे रूपदर्शनं न भवति? भवत्येव कथमन्यथान्धकारसाक्षात्करणम् ? घटरूपदर्शनं किं नेति चेत् बहलतमोव्यवधानात् तीवालोकतिरोहिताल्परूपवत् । प्रदीपोपादानं तु तस्य व्यवच्छेदार्थम् । अत एवान्यत्रोक्तम्
“तमोनिरोधे वीक्षन्ते तमसानावृत्तं(वृतं) परम् । घटादिकम्" [
] इत्यादि। प्रदीपस्य च घटरूपैव्यवधायकतमोऽपनेतृत्वे 'तैजसं चक्षू रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवत्' इति साधनविकलत्वाद् दृष्टान्तस्य निरस्तं द्रष्टव्यम् ।
न चान्यत एव तस्य रश्मयः सिद्धाः केवलमनेन प्राप्तार्थप्रकाशकत्वं तेषां साध्यत इति वक्तव्यम तत्सद्भावप्रतिपादकस्य प्रमाणस्याभावात् । अथ यद्यप्राप्तार्थप्रकाशकं चक्षुः अविशेषेण सर्व प्रकाशयेत. १०न; भावानां नियतशक्तित्वात् । यतो य एव यत्र योग्यः स एव तत् प्रकाशयति अन्यथा संयुक्तसमवायाविशेषाच्चक्षुर्यथा कुवलयरूपं प्रकाशयति तथा तद्गन्धमपि प्रकाशयेत् तथा चेन्द्रियान्तरवैफल्यम् । अथ योग्यताऽभावान्न तत् तद्न्धमवभासयति तर्हि योग्यताऽभावात् प्राप्त्यभावेऽपि नातिव्यवहितमतिसन्निकृष्ट वा तद्रूपं प्रकाशयतीति सर्वत्र योग्यतैवाश्रयणीया नापरं सम्बन्ध
प्रकल्पनेन कृत्यम् 'रश्मयो वा कुतो न लोकान्तमुपयान्ति'? इति प्रेरणायां परेणाप्ययोग्यतैव तत्र १५इतरत्र तु योग्यता प्रतिविधानत्वेन वक्तव्या। तथा, यस्य कारणाद भिन्नमेव कार्य तस्य मेदाविशेषात्
सर्व सर्वस्मात् कुतो नोत्पद्यत इति चोये योग्यतातो नापरमुत्तरमिति सैवात्राप्यभ्युपगमनीया। किञ्च, यदि प्राप्तार्थप्रकाशकं चक्षुः स्फटिकाद्यन्तरितवस्तुप्रकाशकं न स्यात् तद्रश्मीनां विषयं प्रति गच्छता स्फटिकादिना प्रतिबन्धात् । न च तैस्तस्यै ध्वस्तत्वादयमदोषः तद्व्यवहितवस्तुदर्शनसमये
स्फटिकादेर्व्यवधायकस्यादर्शनप्रसङ्गात् तदुपरि व्यवस्थापितस्य चाधारविनाशात् पातप्रसक्तेश्च न हि २०परमाणवो दृश्याः कस्यचिदाधारभूता वा अवयविकल्पनावैयर्थ्यप्रसक्तेः । अन्यस्यावयविन आशुत्प
त्तेरदोषश्चेत्, न तदा तद्व्यवहितस्यादर्शनप्रसक्तः। तथा च यदा व्यवधायकदर्शनं न तदा व्यवहितदर्शनम् यदा च व्यवहितदर्शनं न तदा व्यवधायकदर्शनमिति प्रसज्येत । न चैवम् युगपद् द्वयोदर्शनात् । अथाशूत्पत्तेर्निरन्तरं व्यवहितप्रतिपत्तिविभ्रमस्तर्हि तेदभावस्थापि आशुवृत्तेरभावप्रतिपत्तिविभ्रमस्तथा किं न भवेत् ? भावपक्षस्य बलीयस्त्वादिति चेत्, न; भावाभावयोः परस्परं खकार्य२५करणं प्रत्यविशेषात । किञ्च, कलषजलाद्यावतस्यार्थस्य किं न ते प्रकाशकोः स्फटिकादेरिव जलादेरपि
भेदे तेषां सामर्थ्याप्रतिघातात् ? न च जलेन ते प्रतिहन्यन्ते स्वच्छजलेनापि तेषां प्रतिघातात् तद्व्यवहितस्याप्यप्रकाशनप्रसङ्गात् । अथ तेषां तत्र प्रकाशनयोग्यता तर्हि तत एव तेऽप्राप्तमप्यर्थ प्रकाशयिष्यन्तीति व्यर्थ संयुक्तसमवायादिसन्निकर्षप्रकल्पनम् । अपि च, समवायसम्बन्धनिषेधे चक्षुषो
घटरूपेण संयुक्तसमवायप्रतिबन्धस्याभावात् तद्रूपाप्रकाशकत्वात् कथं नासिद्धो हेतुः 'रूपादीनां ३०मध्ये रूपस्यैव प्रकाशकत्वात्' इति? अथ 'इह तन्तुषु पटः' इति बुद्धिः सम्बन्धनिबन्धना तद्बुद्धित्वात् 'इह कुण्डे दद्धि' इति बुद्धिवत् इत्यतोऽनुमानात् समवायसिद्धेः न संयुक्तसमवायसम्बन्धाभावः, न; 'इह'बुद्ध्या सम्बन्धमात्रसाधने घट-तद्रूपयोः कथञ्चित्तादात्म्यसम्बन्धाभ्युपगमात् सिद्धसाध्यताप्रसङ्गात् । अथ कथञ्चित्तादात्म्यसम्बन्धः तद्बुद्धिनिमित्तत्वेन न प्रतिपन्न इति कथमतोऽसौ
साध्यस्तर्हि समवायेऽप्येतत् समानम् । तथापि ततस्तत्साधनेऽन्यत्र कः प्रद्वेषः? अथ घट-तद्रूपयोः ३५कथञ्चित्तादात्म्यसम्बन्धो विरोधान्नेष्यते तर्हि भावाभावयोः कथञ्चित्तादात्म्याभावे समवायादेर
संभवादसम्बन्धः स्यात् तथा च अभावेनाक्षाणां सन्निकर्षाभावान्नाक्षतस्तत्प्रतिपत्तिः स्यात् । विशेषणविशेष्यभावस्य भावाभावयोः सम्बन्धस्य भावान्नायं दोष इति चेत्, न; भावाभावाभ्यां
१“जनाः"-बृ. ल. टि.। २-पस्य व्य-भा० मां०। ३-क्षुः स्फुटि-ल. वा. बा० । ४-तां स्फुटि-ल० वा. बा०। ५ “प्रतिबन्धस्य"-बृ० ल. टि.। ६-मये स्फुटि-ल. वा. बा०। ७-स्य वाधाबृ. ल. वा. बा. विना। ८-न्तर व्य-वा० बा० । “निरन्तरस्फटिकादिविभ्रमः"-प्रमेयक. पृ० ६१ द्वि. पं०६। ९ “अवयवि-" बृ० ल.टि.। १० "रश्मयः"-बृ० ल. टि.। ११-काः स्फुटि-वा० बा०। १२ “खच्छजल-" बृ. ल. टि. । १३ व्यर्थ समवा-बृ. आ. हा०वि०। १४ अत्र प्रशस्त० के० गतं समवायनिरूपणं द्रष्टव्यम्-पृ० ३२४-३२५। १५-न प्र-वा० बा।
तत एक
वात् तम् ।