________________
ज्ञानमीमांसा।
५४३ प्रदीपे सति प्रतिनियतप्राणिनां रूपदर्शनसंभवात् तस्य रूपप्रकाशकत्वम् अञ्जनादिसंस्कृतचक्षुषां सदभावेऽपि रूपदर्शनसद्भावात् । न च यदन्तरेणापि यद् भवति तत् तत्कार्यम् इतरत् तत्कारणम् अन्वयव्यतिरेकनिबन्धनत्वात् तद्भावस्य । अथ प्रदीपे सति यद् दर्शनं तत् तदभावे न भवति यत्तु तेदभावे भवति न तत तत्रापि तत्सदृशम । न चान्यस्य व्यभिचारे अन्यस्यासौ अतिप्रसकात. असदेतत्; यतो यादृशमेव रूपदर्शनमालोके संस्कृतचक्षुषाम् तदभावेऽपि तादृशमेव तद्भेदानव-५ धारणात् । तथा हि तद्भेदकल्पने न किञ्चित् कस्यचिद् वस्तुनः सदृशमिति सौगतमतानुप्रवेशः स्यात् । रूप-प्रदीपयोश्च सहोत्पन्नयोर्युगपद्दर्शने प्रदीपवत् रूपस्यापि प्रदीपप्रकाशकत्वाद् रूपं तैजसं भवेत् अन्यथा न प्रदीपोऽपि तैजसः स्यात् तजनकत्वाविशेषात् तयोः । न चायंदा प्रदीपस्यैव रूपप्रकाशकत्वोपलब्धेः स एव तदापि प्रकाशकोऽन्यदाऽप्यञ्जनादिसंस्कृतचक्षुषां तेंदभावेऽपि रूपदर्शनसद्भावात् तस्र्यं तत्प्रकाशकत्वासिद्धेः । अथ तस्मिन् सति कदाचित् कस्यचित् रूपदर्शनात् १० तस्य तत्प्रदर्शकत्वं तर्हि नक्तंचराणां संतमसे रूपदर्शनात् तेदभावे च तदभावात् हेतुफलभावस्य सर्वत्र तन्निबन्धनत्वात् तमोऽपि रूपप्रकाशकत्वात् प्रदीपवत् तैजसं भवेत् । अन्यथा हेतोरनेनैव व्यभिचारः स्यात् ।
[अनुषङ्गात् तमसो भावाभावत्वप्रक्रमः ] आलोकाभाव एव तम इति चेत्, न; आलोकस्यापि तमोऽभावरूपताप्रसक्तेः । आलोकस्य १५ तरतमादिरूपतयोपलम्भात् नाभावरूपतेति चेत् न, तमस्यप्यस्य समानत्वात् । यथा चालोकः प्रतिभासविषयस्तथा तमोऽपि तद्विषयः। न चालोकप्रतिभासाभाव एव तमःप्रतिभासः इतरत्राप्यस्य समानत्वात् । न च चक्षुर्व्यापाराभावेऽपि तत्प्रतिभाससंवेदनादालोकप्रतिभासाभाव एव तमःप्रतिभासः प्रतिनियतसामग्रीप्रभवविज्ञानावभासित्वात् प्रतिनियतभावानां तमसस्तदतत्प्रभवविज्ञानावभासित्वात् आलोकस्य च तद्विपर्ययात् यद्वा आलोकस्याप्यचक्षुर्जे सत्यस्वप्नज्ञाने प्रतिभासनात् २०
मोज्ञानाभावरूपता भवेत् । अथालोकस्य रूपप्रतिपत्तौ हेतुभावान्नाभावरूपता तर्हि तमसोऽपि नक्तंचररूपप्रतिपत्तौ हेतुभावो विद्यत इति नाभावरूपता भवेत् । तदेवमालोकस्य वस्तुत्वे तमसोऽपि तदस्त्विति तेन हेतोर्व्यभिचारः । भवतु वा आलोकाभाव एव तमस्तथापि व्यभिचारापरिहारः तभावस्यातैजसस्यापि तत्प्रकाशकत्वात् । अथ तमोऽभावेऽपि रूपदर्शनान्न तस्य तत्प्रकाशकत्वं तर्हि नक्तंचराणामालोकाभावेऽपि रूपदर्शनादालोकस्यापि न तत्प्रकाशकत्वं भवेत् । अथास्मदादीनां २५
१ "दीपाभावे"-बृ० ल. टि०। २ "व्यभिचारः"-बृ० ल० टि.। ३ अत्र 'तथापि पाठः सम्यक् स्यात् । ४-स्तुतः स-वृ० ल०। ५ "प्रदीप-रूपयोः"-बृ०ल.टि.। ६ “आलोकाभावे"-बृ० ल. टि.। ७ “दीप-" बृ० ल.टि.। ८-स्य प्र-बृ. आ. हा० वि०। ९ "तमः-" बृ० ल.टि.। १० "रूपदर्शन-" बृ० ल० टि। ११ “रूपप्रकाशकवादित्यस्य"-ल. टि.। १२ “तमसा"-ल. टि.।
१३ तमसः खरूपे मतद्वयम्-केचित् तमो भावरूपं मन्यन्ते केचित्त्वभावरूपम् । तत्र जैनाः पुद्गलपरिणामतया, भर्तृहरिप्रमुखवैयाकरणा अणुपरिणामतया, साङ्ख्याः प्रकृतिपरिणामतया मीमांसकाश्च अभावस्य पदार्थान्तरखाभावेन च तमसो भावरूपता प्रतिपन्नाः । नैयायिक-वैशेषिको तु तमसस्तेजोऽभावरूपत्वेन अभावरूपतां खीकृतवन्तः । तमोभावाभावचर्चाविषयाणि तत्तद्न्थस्थलानि यथा-५, २४ राजवा० वा० १९, २०, २१ पृ. २३३ । ५, २४ तत्त्वार्थभाष्यव्याख्या पृ० ३६३ पं० ६- ३६४ पं० १६ । प्रमेयक पृ० ६५ प्र. पं० २-। ५, ८ स्याद्वादर• पृ० ८४९ पं० १९८६७ पं० ९ आ० । २, २१ रत्नाकराव. पृ. ६४-७२ । स्याद्वा० का० ५ पृ० १६ पं०७-२१ ।
"अणवः सर्वशक्तिवाद् भेदसंसर्गवृत्तयः । छायाऽऽतपतमःशब्दभावेन परिणामिनः॥ खशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः । अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥"
-वाक्यप० प्र० का० श्लो. १११-११२ । न्यायवा. ता. टी. पृ. ३४५पं०४-१६ । प्रशस्त. के. पृ. ९५० १-१० पं०८।
१४ “वस्तुसम्"-वृ० टि.। १५ “'रूपादीनां मध्ये रूपस्यैव प्रकाशकखात्' इत्यस्य"-बृ. ल. टि.। १६ “नक्तंचरादीनां रूपप्रकाशकलात्"-बृ० ल० टि.।