________________
५४२
द्वितीये काण्डेरश्मिरहितानामध्यक्षतः प्रतीतेरध्यक्षबाधितकर्म निर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टो हेतुः। अथ यदध्यक्षग्रहणयोग्यं साध्यमध्यक्षत एव तत्र नोपलभ्यते तत्र तद्वाधः कर्मणः यथाऽनुष्णोऽग्निः सत्त्वादिति न चाध्यक्षग्रहणयोग्या नायना रश्मयःसदा तेषामदृश्यत्वात् , न: पृथिव्यादिद्रव्येऽपितेषां साध्यत्वप्रसक्तेः । तथाहि-रश्मिवन्तो भूम्यादयः सत्वात् प्रदीपवदित्यनुमातुं शक्यत्वात् यथैव हि तैजसत्वं ५प्रदीप रश्मिवत्तया व्याप्तमुपलब्धं तथा सत्त्वमपि । अस्याऽन्यथाऽपि संभावना न तैजसत्वस्येति कुतो विभागः? अथ भूम्यादेस्तत्साधनेऽध्यक्षबाधः, न; दुग्धवलक्षाबलालोचनानामपि तत्साधने तद्विरोधः समानः । अथ वृषदंशचक्षुषोऽध्यक्षतो वीक्ष्यन्ते रश्मय इति कथं तद्विरोधः? ननु यदि तत्र त ईक्ष्यन्तेऽन्यत्र किमायातम् ? तत एवान्यत्र तत्साधने हेम्नि पीतत्वप्रतीतौ रजते पीतत्वप्रसङ्गः
प्रमाणबाधनमुभयत्र तुल्यम् । अथ तंत्र तेत्प्रतीतेर्नान्यत्र सत्त्वेन ते साध्यन्ते अपि त्वनुमानतः तत् तु १० दृष्टान्तमात्रम् ; नन्वत्र 'नेत्रत्वात्' इति यदि हेतुः 'तैजसत्वात्' इत्यस्याऽऽनर्थक्यम् अत एव प्रकृतसिद्धेः अध्यक्षबाधा चात्रापि तदवस्थैव तैजसत्वात्' इत्यस्य हेतुत्वे प्रदीपदृष्टान्तेनैवार्थसिद्धवृषदंशनेत्रनिदर्शनमनर्थकम् । न च तस्य तैजसत्वं परं प्रति सिद्धमिति तत्साधनविकलता तदपेक्षया दृष्टान्तदोषः । न च रश्मिवत्त्वाद् विडाललोचनस्य तैजसत्वं सिद्धम् मण्यादीनामपि तत्प्रसक्तेः । न च रश्मिवत्त्वान्मण्यादीनामपि तैजसत्वम् मूलोष्णप्रभाया एव तैजसत्वात् अन्यथा तरुणतरुकिसल१५यानामपि तैजसत्वं स्यात् । न च नारीनयनानां तैजसत्वं सिद्धमित्यसिद्धो हेतुः। न च रश्मिवत्त्वादेव
तेषां तत् साध्यते इतरेतराश्रयदोपप्रसक्तेः-सिद्धे भाँवरप्रभावत्त्वे तैजसत्वसिद्धिस्ततश्च भास्वरप्रभावत्वसिद्धिरिति कथं नेतरेतराश्रयदोपः ? अथ तैजसं चक्षू रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवदित्यतोऽनुमानात् तैजसत्वसिद्धेर्नेतरेतराश्रयदोषः । नन्वत्र भास्वररूपोष्णस्पर्शतेजो
द्रव्यसमवेतगोलकखभावं कार्यद्रव्यं यदि 'चक्षुःशब्दवाच्यं तस्य तैजसत्वसाधने अध्यक्षविरोधः २० तद्विपरीतरूपस्पर्शाधारतयाऽध्यक्षतः प्रतिपत्तेः । तथाहि-अबला-पारावत-बलीवर्दादीनां चक्षुषो
धवल-लोहित-नीलरूपतयोष्णस्पर्शविकलतया चाध्यक्षतः प्रतिपतिः सिद्धैव । न च गोलकव्यतिरिक्तं चक्षुस्तब्राहकप्रमाणाभावात् सिद्धमित्याश्रयासिद्धः स्वरूपासिद्धश्च, रूपस्यैव प्रकाशकत्वादिति हेतुरनैकान्तिकश्च तुहिनकरकरनिकरेण तस्य रूपस्यैव प्रकाशकत्वेऽप्यतैजसत्वात् । न चास्यापि पक्षीकरणाददोषः व्यभिचारविषयस्य पक्षीकरणादैकान्तिकत्वे सर्वत्रानैकान्तिकहेत्वभावप्रसक्तेः। न २५ चैवं जलानलयोर्विशेषगुणसङ्कराद् भेदः सिध्येत् । न च तनिकरान्तर्गतं तेजस्तत्रापि रूपप्रकाशकमिति न व्यभिचारःदीपेऽप्यन्यस्य तदन्तर्गतस्य तत्प्रकाशकस्य प्रकल्पनात् दृष्टान्तासिद्धिप्रसक्तेः। प्रत्यक्षबाधोभयत्र चक्षूरूपसम्बन्धेन रूपस्यैव प्रकाशकेन च व्यभिचारः । न चासौ रसादेरपि प्रकाशकः इन्द्रियान्तरपरिकल्पनावैफल्यप्रसक्तेः । रूपप्रकाशकत्वं च रूपज्ञानजनकत्वम् तच्च नील
रूपेऽपि विद्यते अन्यथा “अर्थवत् प्रमाणम्" [वात्स्या० भा०पृ०१] इत्यत्रार्थसहकारित्वं तस्य न ३० स्यादिति तेन व्यभिचारः । अथ द्रव्यत्वे सति करणस्य रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वादिति विशेषणान्न सम्बन्ध-रूपाभ्यामनेकान्तः। ननु यथा सम्बन्धादेरद्रव्यादेरप्यतैजसस्य रूपज्ञानजननं तथा चक्षुषोऽपि किं न स्यात् ? न च 'अदर्शनात्' इत्युत्तरम् असर्वदर्शिदर्शननिवृत्तेर्भावानिवर्तकत्वात् । प्रदीपवदिति दृष्टान्तस्यापि रूपप्रकाशकत्वासिद्धेः साधनविकलता दृष्टान्तस्य । न च
१-द्वाधकः क-बृ. ल. वा. बा. विना। २ "पक्षस्य"-बृ० ल. टि। ३-धने तु त-वृ. आ. हा०वि०। ४ "वृषर्दशनेत्रे"-वृ० ल.टि.। ५"रश्मिप्रतीतेः"-बृ. ल.टि.। ६ “नारीनयनानां तैजससम्"बृ. ल. टि०। ७ भास्कर-भां० मां०। ८-त्तिस्तथा सि-भा० मा०। ९-णादनैका-बृ० वा. बा। १. "अयमभिप्रायः यथा न हिमकरकरा रूपप्रकाशकाः किन्तु तदन्तर्गतमन्यदेव तेजो रूपप्रकाशकम्"-ल.टि.। "अयमभिप्रायः-यथा न हिमकरकरा रूपप्रकाशकाः किन्वन्यदेव तेषु अन्तर्गतं रूपं तेजः तत् तत्प्रकाशकमिति"-बृ.टि.। ११ "हिमकरनिकर"-बृ. ल.टि.। १२ “दीपेऽपि वक्तुं शक्यम्-न दीपो रूपप्रकाशकः किन्तु तदन्तर्गतमन्यदेव तेजो रूपप्रकाशकम्"-बृ० ल.टि.। १३ "सनिकर्षों हि चक्षुरूपसंवन्धरूपः स च रूपप्रकाशकोऽपि तै-(न तै-)जसतामनुभवति"-बृ० ल.टि.। १४ "न च तैजसत्वं रूपप्रकाशकत्वेऽपि"-बृ० ल. टि.। १५-रूपे वि-बृ. आ. हा. वि. विना।