________________
ज्ञानमीमांसा।
५४१ उन्मीलनादिकश्च व्यापारो वैयर्थ्यमनुभवेत् । अथ गोलकाश्रयास्त इति तन्निमीलने असंस्कारे वा तेषामपि स्थगनमसंस्कृतिश्चेति विषयं प्रति गमनं तत्प्रकाशनं च न स्यात् अतस्तदर्थं तदुन्मीलनं तत्संस्कारश्च न वैयर्थ्यमनुभवेत् तर्हि गोलकानुषक्तकामलादेः प्रकाशकत्वं तेषां स्यात् न हि प्रदीपः स्खलग्नं शलाकादिकं न प्रकाशयतीति दृष्टम् । यैरपि 'गोलकान्तर्गतं तेजोद्रव्यमस्ति तदाश्रितास्ते' इत्यभ्युपगतं तेषामपीदं दूषणं समानम् न हि काचकूपिकान्तर्गताः प्रदीपादिरश्मयस्ततो निर्गच्छन्त-५ स्तद्योगिनमर्थ न प्रकाशयन्ति । तदेवं रश्मीनामसिद्धेर्न ते चक्षुःशब्दाभिधेयाः । अथ रसनादयो बाह्येन्द्रियत्वात् प्राप्तार्थप्रकाशका उपलब्धाः बाह्येन्द्रियं च चक्षुः ततस्तदपि प्राप्तार्थप्रकाशकम् न च गोलकस्य वाह्यार्थप्राप्तिः सम्भविनीति पारिशेष्यात् तद्रश्मीनां तत्प्राप्तिरिति रश्मिसिद्धिः, न; अत्यासन्नमलाञ्जनशलाकादेःप्रकाशप्रसक्तेः। किञ्च, यदि गोलकान्निर्गत्य बाह्यार्थेनाभिसम्बध्य तद्रश्मयोऽर्थ प्रकाशयन्ति तयर्थ प्रत्युपसर्पन्तस्त उपलभ्येरन रूप-स्पर्शविशेषवतां तैजसानां वह्नयादिवत् सता-१० मनुपलम्भे निमित्ताभावात् न चोपलभ्यन्त इत्युपलब्धिलक्षणप्राप्तानामनुपलम्भादसत्त्वम् । अनुभूतरूप-स्पर्शत्वादनुपलभ्यास्त इति चेत् किं पुनरनुभूतरूप-स्पर्श तेजोद्रव्यमुपलब्धं येनैवं कल्पना भवेत् ? अथ दृश्यते सतोरपि तैजसरूप-स्पर्शयोर्नीर-हेम्नोरनुभूतिः, न स्वर्ण-तप्तोदकयोस्तेजस्त्वासिद्धेः दृष्टानुसारेण चानुपलभ्यमानभावप्रकल्पनाः प्रभवन्ति अन्यथा रात्रौ भास्करकराः सन्तोऽपि नोपलभ्यन्ते अनुभूतरूपस्पर्शत्वान्नायनरश्मिवदित्यपि कल्पनाप्रसक्तेः । अथ यद्यपि नायना रश्मयोऽ-१५ ध्यक्षतो न प्रतीयन्ते तथाप्यनुमानतः प्रतीयन्ते अनुमानं च तेजोरश्मिवत् चक्षू रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपकलिकावदिति तद्रश्मिसत्त्वप्रतिपादकम् नैवं भास्करकरसत्त्वप्रतिपादकं क्षपायामनुमानमस्ति, न; निशायां वहुलान्धकारायां वृषदंशचक्षुर्वाह्यालोकसव्यपेक्षमर्थप्रकाशकं चक्षुष्टात् दिवा पुरुषचक्षुर्वदित्यस्यानुमानस्य रात्रौ तत्सत्त्वप्रतिपादकस्य भावात् । अथ वृषदंशादेश्चाक्षुषं तेजोऽस्तीत्यर्थसिद्धेर्न किञ्चिद् भास्करज्योतिपाऽनुद्भूतरूपेण प्रकल्पितेन तर्हि मनुष्यादीनामपि २० तदस्तीति किमुद्भूतरूपेण वाह्यतेजसा तेषां कृत्यम् ? अथ यद् यथा दृश्यते तत् तथाऽभ्युपगम्यत इति मनुष्यादीनां नायनं सौर्य च तेजो विज्ञानकारणं दृश्यते ततस्तथैव तत् कल्प्यते क्षपायां मार्जारादे यनमेव दृश्यते अतस्तदेव तत्कारणं प्रकल्प्यते न सौर्यम् भवेदेवं यदि तथादर्शनं स्यात् यावता यथा रात्री भास्करकरादर्शनं तथा दिवा चाक्षुषरश्म्यदर्शनम् यथा वा दिवा भास्करकरावभासनं तथा क्षपायां वृषदंशनेत्रालोकावलोकनम् विशेषस्त्वयम्-एकदा भास्कररश्मयोऽन्यदा नाय-२५ नास्तेऽनुमेया इति । अथान्धकारावधनिशीथिनीसमयेऽपि भास्करकरसंभवे नक्तंचराणामिर्व नराणामपि रूपदर्शनं स्यात्, न; सन्तोऽपि तदा तत्करा न नराणां रूपदर्शनजननप्रत्यलाः यथा त एव वासरे उलूकादीनाम् भावशक्तीनां विचित्रत्वात् । तस्मादनुपलम्भात् क्षपायां यथा न भास्करकरास्तथा नायना रश्मयोऽन्यदेति स्थितम् । यदपि परेणात्रोक्तम् 'दूरस्थितकुड्यादिप्रतिफलितानामन्तराले गच्छतां प्रदीपरश्मीनां सतामप्यनुपलम्भदर्शनान्नानुपलम्भात् तभावसिद्धिः' इति, ३० तदप्यनेनैव निरस्तम् ; रविरश्मीनामपि क्षपायामभावासिद्धिप्रसक्तेः । किञ्च, योगिन आत्ममनःसंयोगो यदा सदसवर्गालम्बनमेकं ज्ञानं जनयति तदा सकलसदसद्वर्गस्तस्य चेन्न सहकारी तर्हि "अर्थवत् प्रमाणम्" [वात्स्या० भा० पृ० १] इत्यत्र "अर्थः सहकारी यस्य विशिष्टप्रमिती प्रमातृप्रमेयाभ्यामर्थान्तरं तदर्थवत् प्रमाणम्"[
] इति विरुध्यते । सहकारी चेदसौ देशाद्यन्तरितोऽपि कुड्यादेःप्रभासुरतयोत्पत्तौ प्रदीपो देशव्यवहितोऽपि सहकारीति नान्तराले तद्रश्मिसिद्धिः।३५ ततो न तैरनुपलम्भव्यभिचारः अत एव नाप्यनुमानम् उदकं तेज उखादिव्यवहितमप्युष्णस्पर्श जनयिष्यतीति नोदके उष्णस्पर्शोपलम्भादनद्भतभास्वररूपस्य तेजसः सिद्धिः। यदपि चक्षुः स्वर सम्बद्धार्थप्रकाशकं तैजसत्वात् प्रदीपवदित्यनुमानम् अनेन किं चक्षुषो रश्मयः साध्यन्ते उतान्यतः सिद्धानां ग्राह्यार्थसम्बन्धस्तेषां साध्यत इति? आये पक्षे तरुणनारीनयनानां दुग्धधवलतया भासुर
१-पःप्रल-पृ. आ. हा० वि०। २-सम्बन्ध्य बृ० ल. विना। ३ बहला-वृ० आ. हा० वि० । ४ “चाक्षुष तेजः"-वृ. ल. टि०। ५ "भास्करसम्बन्धिना"-बृ. ल. टि.। ६-वरूप-ल. वा. बा० । ७ "रवि-" बृ. ल.टि.। ८"दिने"-बृ० ल. टि। ९-कुट्यादि-भां० मां० विना। १०-शानं न जपा. बा. भा. मा. विना। ११-प्युपलब्धं स्प-मां० ।-प्युपलब्ध स्प-भा० ।