________________
द्वितीये काण्डे[सिद्धान्तिना न्यायसूत्रीयप्रत्यक्षलक्षणस्य खण्डनम् ]
[प्रसङ्गादिन्द्रियाणां प्राप्याप्राप्यकारित्वचर्चा ] असदेतत् तदभ्युपगमेनेन्द्रियार्थसन्निकर्षोत्पन्नत्वादेरघटमानत्वात् । तथाहि-इन्द्रियं यदि चक्षुर्गोलकादिकमवयविरूपमभ्युपगम्यते तदा तस्य स्वविषयेण व्यवहितदेशेन पर्वतादिना सन्नि५कर्षोऽसिद्धः । न ह्यत्यन्तव्यवहितयोहिमवद्विन्ध्ययोरिव चक्षुर्गोलक-तदर्थयोः सन्निकर्षः संयोगादिलक्षणः सिद्धः । न चावयविलक्षणं गोलकादि वस्तु सिद्धम् तद्राहकाभिमतप्रमाणस्य निषिद्धत्वात् । न च तदाधारः संयोगादिकः सम्बन्धः समस्ति पराभ्युपगतस्य तस्य निषिद्धत्वात् निषेत्स्यमानत्वाच्च । योऽपि कथंचित् पदार्थाव्यतिरिक्तः संश्लेषलक्षणः काष्ठ-जतुनोरिव सम्बन्धः प्रसिद्धः सोऽपि व्यवहितेन पर्वतादिना स्वविषयेण सह चक्षुर्गोलकस्यानुपपन्नः तत्प्रसाधकप्रमाणाभावात् । अथास्ति १० तत्प्रसाधकं प्रमाणम् । ननु तत् किं प्रत्यक्षम्, उतानुमानम् ? न तावत् प्रत्यक्षमत्र विषये प्रवर्तितु. मुत्सहते न हि 'देवदत्तचक्षुस्तद्विषयेण पर्वतादिना सम्वद्धम्' इत्यस्मदादेरक्षप्रभवा प्रतिपत्तिः । अथानुमानं तत्सन्निकर्षप्रसाधनाय प्रवर्तते । ननु किं तदनुमानमिति वक्तव्यम् ? अर्थ 'चक्षुः प्राप्तार्थप्रकाशकम् बाह्येन्द्रियत्वात् त्वगादिवत्' इत्येतदनुमानं तत्सन्निकर्षप्रसाधनम्, न; चक्षुगोलक-तदर्थ
योरध्यक्षेणैवासनिकृष्टयोः प्रतिपत्तेरध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेनास्य हेतोः कालात्यया१५पदिष्टत्वात् अवयविलक्षणस्य च चक्षुषोऽसिद्धराश्रयासिद्धश्च हेतुः । अत एव स्वरूपासिद्धश्च न
ह्यविद्यमानस्यावयविनो बाह्येन्द्रियत्वमुपपन्नम् 'त्वगादिवत्' इति निदर्शनमपि साध्यसाधनविकलम् । अथ चक्षुःशब्देनात्र तद्रश्मयोऽभिधीयन्त इति न प्रागुक्तदोषावकाशः, न तेषामसिद्धेः इतरथाऽस्यानुमानस्य वैफल्यापत्तेराश्रयासिद्धो हेतुः । अथात एवानुमानात् तत्सिद्धर्नायं दोषः, न; इतरेतराश्रयदोषप्रसक्तेः। तथाहि-तद्रश्मिसिद्धावाश्रयासिद्धत्वदोपपरिहारः तस्मिंश्च सत्यतो हेतोस्तत्सिद्धिरिति २० व्यक्तमितरेतराश्रयत्वम् अत एव स्वरूपासिद्धिरपि हेतोः तेषामसिद्धौ तदाश्रयबाह्येन्द्रियत्वासिद्धेः। यदि पुनर्गोलकाद् बहिर्भूता रश्मयश्चक्षुःशब्दवाच्या अर्थप्रकाशकास्तर्हि गोलकस्याञ्जनादिना संस्कार
१ "अवयवि"-बृ० ल. टि.। २ "चक्षुर्विषय"-बृ० ल० टि०। ३ सालय-नैयायिक-वैशेषिक-जैमिनीयाः सर्वेषां बहिरिन्द्रियाणां प्राप्यकारित्वं मन्यन्ते । बौद्धास्त्वग्-घ्राण-रसनानां प्राप्यकारित्वम् चक्षुः-श्रोत्रयोरप्राप्यकारित्वं च खीकुर्वते । जैनास्तु त्वग्-घ्राण-रसन-श्रोत्राणां प्राप्यकारिखम् चक्षुषोऽप्राप्यकारित्वं च साधयन्ति । तदेवं साङ्ख्यनैयायिक-वैशेषिक-जैमिनीय-बौद्ध-जैनतर्कग्रन्थेषु प्राप्यकारिताप्राप्यकारित्वविषयो वादः सविस्तर चर्चितो दृश्यते । अत्र च तत्तद्वन्थीयतद्वादस्थलप्रदर्शनमात्रं क्रियते क्रमेण
सांख्यद. १,८७ पृ० ६२ पं० २१- मुक्ताव पृ. २९३ पं० १-२९४ ।
न्यायद. ३,१, ३३-५३ पृ० २५८-२७४ । न्यायवा० पृ. ३३ पं० १५-३६ पं० २१ तथा पृ० ३७३ पं०४-३८५५०६। न्यायवा. ता. टी. पृ. ११६ पं. १८-१२३ पं. १ तथा पृ. ५२० पं० २२५२६ पं० ११ । न्यायमञ्ज. आ० ८ पृ० ४७७ पं० २५-४८० पं० २० ।
प्रशस्त० के० पृ. २३ पं० ४- ।
१, १, १३ शाबरभा० पृ० १९-२० । श्लो० वा० पृ० १४६-१४९ तथा पृ. ७४०-७८१ । शास्त्रदीपिका अधि० ६ पृ० १३३-१४० ।
स्फुटार्थअभि. पृ. ८४-९४ ।
प्रज्ञाप० १५, पृ० २९८ प्र. पं०६-१० । आवश्यकनि. गा० ५ । विशेषाव. भा. गा० २०४-२१२ पृ. १२२-१२७ तथा गा० ३३६-३४० पृ. १९९-२००।१, १९ तत्त्वार्थभाष्यव्याख्या पृ० ८७ पं० २३-राजवा. पृ.४७ पं० ३३-४८ पं० ३२ । तत्त्वार्थश्लोवा. पृ. २२९ श्लो. १-२३६ श्लो. ९८ । न्यायकु. लि. पृ. ३६ द्वि. पं०११-४२ । प्रमेयक० पृ० ५९ प्र. पं० ११-६२ प्र.५०५।२, ३ स्याद्वादर. पृ. ३१८ पं. ११३४१ आ० । २, ५ रत्नाकराव० पृ. ५१ पं० २२-६० श्लो. ९३। ।
अन्तरिन्द्रियस्य मनसस्तु प्राप्यकारित्वं पुष्णाति सांख्यवेदान्तप्रक्रिया न पुनस्तद्भिनदर्शनप्रक्रिया । ४ "खगिन्द्रियलक्षणावयविनोऽस्माभिः प्राप्तार्थप्रकाशकत्वं बाह्येन्द्रियत्वं च नेष्यते अवयविनोऽभावातू"-वृ० ल.टि.।