________________
ज्ञानमीमांसा |
अन्धाद्यभावो बाह्यार्थाभ्युपगमे मनसः स्वातन्येण पूर्व निराकृतः । एवं मानसस्य प्रत्यक्षस्याविद्यमानोपलम्भकस्य सद्भावान्न प्रसङ्गसाधने व्याप्तिसिद्धिः । तथा सर्वस्यैव स्थपत्यादेः क्रियमाणवस्तुग्रहणं प्रत्यक्षं सिद्धमेव । किञ्च कथं जैमिनीयाः स्थिरग्रहणवादिनो वर्त्तमानविषयमेव प्रत्यक्षं संचक्षते ? स्थिरग्रहणं हि वस्तुन एवं भवति यदि वर्तमानविशिष्टस्यैवातीतानागतकालविशिष्टग्रहणम् अन्यथा स्थिरग्रहणाभावः । तथा चोक्तम्
"रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते " [
५३९
J
ततः परस्परव्याहतार्थाभिधानात् यत्किञ्चिदेतत् । तदेवं न प्रत्यक्षस्यातीन्द्रियार्थग्रहणनिषेधः पूर्वोक्तनीत्या, संभाव्यते चातीन्द्रियार्थ ग्रहणमध्यक्षस्य । यथा तत् संभवति तथा सर्वज्ञसिद्धौ प्रतिपादितमिति न पुनरुच्यते ।
"अवश्यं भाविनं नाशं विद्धि सम्प्रत्युपस्थितम् ।
अयमेव हि ते कालः पूर्वमासीदनागतः ॥ [
५
किञ्च, सत्संयोगजत्वाद् यदि विद्यमानोपलम्भनत्वमुच्यते तत्र 'सता सीदता साधुना सद्भिर्वा' १० इत्येतान् पक्षान् व्युदस्याभिमतपक्षस्थापनं कृतम् - सति सम्प्रयोगे, प्रयोगश्च द्विधा प्रदर्शितः
विन्द्रियाणां व्यापारः योग्यता वा न तु नैयायिकाभ्युपगत एव संयोगादिः । स द्विविधोऽप्यतीतानागतादिलक्षणेऽर्थे अन्तःकरणस्य चोदनया इव कार्येऽर्थे न वार्यते । अथाविद्यमाने कथं करणव्यापारः? करणत्वेनाभ्युपगतायाश्चोदनाया अपि कथं कार्येऽर्थे ? ततो नान्तःकरणस्य विशेषः तत्प्रमेयस्य त्रिकालावच्छिन्नत्वात् भाविरूपस्यापि वा तद्रूपत्वेन सतो वर्तमानत्वापत्तिः । तथा १५ चोक्तं व्यासेन
1
यत् पुनः कार्य कालत्रयापरामृष्टं शशशृङ्गप्रख्यं तत्र कथं प्रेरणाख्यकरणव्यापारः ? अथावाधितप्रतीतिजनकत्वेन प्रेरणायास्तत्र व्यापारस्तर्ह्यन्तःकरणेऽप्येतत् तुल्यम् । ततोऽविद्यमानोपलम्भनस्य २० मानसाध्यक्षस्य सद्भावान्न प्रसङ्गसाधने व्याप्तिसिद्धिरिति न प्रर्थमा व्याख्या ।
द्वितीयव्याख्याने तत्संतोर्व्यत्ययेऽपि च न संशयज्ञानव्युदासः । तत्र ह्ययमर्थो व्यवतिष्ठते यद्विषयं विज्ञानं तेनैव संप्रयोगे इन्द्रियाणां प्रत्यक्षम् प्रत्यक्षाभासं त्वन्यसंप्रयोगजमिति । तत्र संशयज्ञानं सम्यग्ज्ञानवत् यत्प्रतिभासि तेनैव संयोगे भवति । ननु उभयालम्बनत्वादुभयप्रतिभासि संशयज्ञानम् न चोभयात्मकेनेन्द्रियसम्बन्धः यद्यपि नोभयात्मकेन तेनेन्द्रियसम्बन्धस्तथापि तत्त्वतः २५ सामान्यवान् पुरोऽवस्थितो धर्मी प्रतिभासमानान्यतरविशेषाश्रयः अतो यत् प्रतिभाति तेन सहेन्द्रियस्य संयोगे संशयज्ञानमुदेति न चैतद्व्यवच्छेदाय किञ्चित् पदमुपात्तमिति नैतल्लक्षणात् तैद्रयुदास इति न जैमिनीयमपि प्रत्यक्षलक्षणमनवद्यम् । चार्वाकैस्तु प्रत्यक्षमपि न तत्त्वतः प्रमाणमभ्युपगम्यत इति न तद्विचारणप्रयासः सफल इत्यक्षपादविरचितमेव प्रत्यक्षलक्षणमनवद्यमिति नैयायिकाः ।
“इन्द्रियलिङ्गाद्यभावे यदर्थप्रतिभानं सा प्रतिभा प्रतिभैव प्रातिभमित्युच्यते तत्र भवद्भिः । तस्योत्पत्तिरनुपपन्ना कारणाभावादित्यनुपयोगे सति इदमुक्तम् धर्मविशेषादिति । विशिष्यते इति विशेषो धर्म एव विशेषो धर्मविशेषः विद्यातपःसमाधिजः प्रकृष्टो धर्मस्तस्मात् प्रतिभोदयः । तत्तु प्रस्तारेण बाहुल्येन देवर्षीणां भवति कदाचिदेव लौकिकानामपि यथा कन्यका ब्रवीति वो मे भ्राताऽऽगन्तेति हृदयं मे कथयतीति । न चेदं संशयः उभयकोटिसंस्पर्शाभावात् न च विपर्ययः संवादादतः प्रमाणमेव” - प्रशस्तकं० पृ० २५८ पं० १– ।
"प्रातिभं तु ज्ञानमार्ष यथा श्वो मे भ्राताऽऽगमिष्यतीति" - तत्त्वसं० पञ्जि० पृ० ८० पं० २१ ।
१ " सूत्रधारादेः " - बृ० ल० टि० । २ " यथाह भट्टः- रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते इति” - न्यायमञ्ज • आ० ७ पृ० ४६२ पं० १७ । ३ पृ० ५३-६९ । ४ यद्यवि - भां मां० विना । ५ अर्थेन्द्रि-आ०हा० वि० । ६- ना इ-भां० म० । ७ " व्यापार इति योगः " - बृ० ल० टि० । ८ " वर्तमानः " - बृ० ल० टि० । ९-थमव्याभ० मां० । १० - त्सतोव्य - वा० बा० । ११ - त्ययोऽ-भां मां० । १२ " जैमिनीयैः " - बृ० ल० टि० । १३ " संशयज्ञान- " बृ० ल० टि० । १४ - यप्रत्यक्षलक्षणमप्यनव - भां० मां० ।