________________
५३८
द्वितीये काण्डेअसदेतत् मनोविज्ञानस्यातीतानागतार्थग्रहणे व्याघाताभावात् चक्षुरादिप्रभवप्रतिपत्तीनां तु युक्त एव वर्तमानार्थग्रहणलक्षणो धर्मः न तु मानसस्य अन्यथा चोदनाजनितस्यापि सं स्यादित्युक्तम् । ___ नन्वेवमपि भाविरूपता भावस्य सावधिः प्रागभावः न च भिन्नकालत्वाद् वस्त्ववस्तुनोः सम्बन्ध इति कथं तस्य भाविरूपता? अत्र केचिदाहुः-न तयोरसम्बन्धिता विशेषणविशेष्यतया ५प्रतिपत्तेः, नैतत् न हि सम्बन्धपूर्वको विशेषणविशेष्यभावः किं तर्हि भाविता भावस्योच्यते? बुद्धौ प्रतिभासमानस्याकारस्य कुतश्चिन्निमित्तात् प्रागभावविशेषणता तच्च निमित्तं भोजनादिकार्य भ्रातृकृतम् तद् भ्रातुरनागतस्य नोपपद्यत इत्यनागमनकाल एव कार्येण बुद्धयुपस्थापितस्य भ्रातुः श्वस्तनागमनविशिष्टता प्रतिपद्यते । सद्व्यवहारनिवन्धनं च सत्त्वम् तच्च विधिप्रतिभास एव अतो विधिप्रतिभासवभावत्वान्न निर्विषया प्रतिभा । मा भूनिर्विषयत्वं तस्याः तेन त्वर्थेन सह सन्निकर्ष १० इन्द्रियस्य वाच्यः इन्द्रियार्थासन्निकर्षजस्य प्रत्यक्षत्वानुपपत्तेः । अत्र केचित् प्रतिसमादधति-'श्वो
मे भ्राताऽत्र देशे आगन्ता' इति प्रतिभोत्पादाद देशादेश्चेन्द्रियेण संयोगात् तद्विशेषणत्वाच्च श्वस्तना. गमनविशिष्टस्य भ्रातुः संयुक्तविशेषणभावः सन्निकर्षः। एतत् परे नाऽनुमन्यन्ते विशेषणविशेष्ययोरेकविषयत्वान्न भ्रात्रा विशेषणेन चक्षुरादेः सन्निकर्षः तेदभााद विशेषणाग्रहणे कथं विशेष्यबुद्धिः?
अपि च, श्वस्तनागमनविशिष्टभ्रातृज्ञानं प्रतिभा न देशादिज्ञानम् न चेन्द्रियस्य तेनं कश्चित् सम्बन्धः। १५अत एव आर्षमपि ज्ञानं न प्रतिभा । यतः
"ऋषीणामपि यद् शानं तदप्यागमपूर्वकम्”। [वाक्यप० प्र० का० श्लो० ३०] अनेनोपायजत्वमार्षस्य दर्शयति उपायश्च सन्निकर्ष-लिङ्ग-शब्दस्वभावः आगमग्रहणस्य प्रदर्शनार्थत्वात् । नापि धर्मविशेषात् सन्निकर्ष विनापि प्रतिभायाः समुद्भवः यतो धर्माधर्मयोः फलजनकत्वं
साधनजनकत्वेनैव यथा सुखादी जन्ये शरीरादेर्जननम् एवं प्रतिभाया अपि धर्मविशेषजन्यत्वे २० केनचिदिन्द्रियार्थसन्निकर्षादिना साधनेन धर्मविशेषजनितेन भाव्यम् । अत एव सिद्धदर्शनमपि न प्रतिभा रथ्यापुरुषस्यापि भावात् । अनियतनिमित्तप्रभवत्वेनाप्रमाणं प्रतिभेति यत् कैश्चिदभ्यधायि तन्नैयायिकैर्निराक्रियत एव मनसस्तन्निमित्तत्वेन तत्र तत्र प्रतिपादनात् । नाप्यस्या लिङ्ग-शब्दप्रभवत्वम् तदोवेऽपि भावात् । उपमानजत्वाशङ्का दरोत्सारिता अतः प्रत्यक्षं प्रतिभा । यद्येवं तदुत्पत्तावक्षं वक्तव्यम् किमत्रोच्यते मनसः सन्निहितत्वात् तस्य विशिष्टार्थग्रहणे विशेषणविशेष्य२५भावः सन्निकर्षः नियामकत्वेन पूर्व प्रदर्शितः यथा प्रत्यभिज्ञानोत्पत्तौ स्मर्यमाणप्रतीयमानानुभवविशेषणं
वस्तु तस्या विषयः न चैतावति बाह्येन्द्रियव्यापार इति मानसं प्रत्यभिज्ञानम् तद्वत् प्रातिभमपि ।
१ "वर्तमानार्थतारूपः प्रत्यक्षधर्मः"-बृ. ल.टि.।
२ "ननु भावितया ग्रहणमघटमानम् भावित्वं हि नाम सावधिः प्रागभावः अभावस्य च भावेन भ्रात्रा सह कः सम्बन्धः । वस्त्ववस्तुनोर्विरोधात् । तदेतदसम्यक् । तद्देशसंबन्धस्य तत्र प्रागभावो न तु धर्मिणः । स हि विद्यते एव प्रागभावतः । स च कुतश्चिद्भोजनोत्कण्ठादेः कारणात् स्मरणपदवीमुपारूढः श्वस्तनागमनविशिष्टत्वेन प्रतिभातीति प्रातिभस्य स एव जनक इति । तस्मादनर्थजवाभावात् प्रमाण प्रातिभम्"-न्यायमज. आ० २ पृ० १०६ पं० २३-।
३-षता बृ०। ४-ते सिद्ध्यव्यव-भां० मां०। ५“सन्निकर्षाभावात्"-बृ. ल. टि.। ६-वा वि-ल. वा० बा० ।-वादवि-आ० हा० वि०। ७ "भ्रात्रा"-बृ० ल० टि.।। ८ "न चागमादृते धर्मस्तकेंण व्यवतिष्ठते । ऋषीणामपि यद् ज्ञानं तदप्यागमहेतुकम्" ॥ वाक्यप० ।
न्यायमञ्ज. आ० २ पृ० १०७ पं० ८। ९ "उपायस्य"-बृ० ल. टि.। १० “यथा सुखादेर्धर्मविशेषजन्यत्वे शरीरादेर्धर्मविशेषजनितस्य भावस्तथेति"बृ. ल. टि.। ११-वत्वेन प्र-वा० बा० । १२-भावे भा-बृ. आ. हा० वि०। १३ प्रशस्तपादभाष्ये तत्त्वसंग्रहपत्रिकायां च प्रातिभस्य वर्णनमित्थं दृश्यते--
"आम्नायविधातृणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु प्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगाद् धर्मविशेषाच्च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते । तत् तु प्रस्तारेण देवर्षीणाम् कदाचिदेव लौकिकानां यथा कन्यका ब्रवीति श्वो मे भ्राताऽऽगन्तेति हृदयं मे कथयतीति"।