________________
ज्ञानमीमांसा।
५३७ योगिप्रत्यक्षं भविष्यति एवं प्रतिवादिप्रत्यक्षेऽपि साध्यसाधनयोर्व्याप्तिनिषेधो द्रष्टव्यः । अथ गृध्रवृषदंशचक्षुषोरेतत्स्वभावत्वेऽपि रूपग्रहणप्रतिनियमः न हि ते रसादौ कदाचित् प्रवर्तन्ते तथा योगिप्रत्यक्षस्यापि स्वविषय एवातिशयो भविष्यति । तदुक्तम्
“यत्राप्यतिशयो दृष्यैः” इत्यादि । तथा,
"येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः" । इत्यादि च । एवमेतत् किन्तु द्विविधं प्रत्यक्षम् बाह्येन्द्रियजम् मानसं च । तत्र पूर्वस्यातीतादिग्राहकत्वनिषेधे रसादिग्राहकाणामिव इतरेतरविषयाग्रहणे सिद्धसाध्यता । मानसस्य त्वतीतादिरपि विषयः तस्य सर्व विषयत्वात् । तथाहि-त्रादि-प्रतिवादिनोर्मानसं स्पष्टाभं स्मार्तमतीतार्थग्राहि विज्ञानं सिद्धम् एव: मनागतार्थाध्यवसायि मानसंवादि-प्रतिवादिनोस्तथाविधं द्रष्टव्यम। तस्य चाभूतार्थस्यापि स्पटामता भावनाप्रकर्षात् काम-शोक-भयादिज्ञाने प्रतिपादिता । यत् पुनर्भूतार्थ प्रमाणद्वयपूर्वकं भावनाप्रकर्ष-१० समुद्भूतं तत् संवादात् प्रमाणम् विशदत्वाच्च प्रत्यक्षम् संभाव्यते च तथाविधं प्रत्यक्षं योगिनाम् यथाऽस्मदादीनां प्रातिभम् –'श्वो मे भ्राता आगन्ता' इत्यनागतार्थग्राहकम् । न च सन्दिग्धस्वभावताऽस्य निश्चितत्वेनोत्पादाद् बाधकाभावान्न विपर्यस्ततापि । अथ सर्वा प्रतिभा सत्यार्थी न सिद्धेति न प्रमाणं प्रातिभंतीन्द्रियजमपि सर्व न सत्यार्थ सिद्धमिति तदप्यप्रमाणं भवेत् । अथ मा भूत् प्रमाणं यद्वाध्यते इतरं तु (इतरत् तु) प्रमाणम् प्रातिभेऽपि समानमेतत् । अथ प्रतिभाया न प्रमाणफलता १५ अर्थजत्वानुपपत्तेः । तथाहि-कर्मशक्तिः कर्तृकरणसहकृता क्रियानिर्वर्तिका कर्तृकरणशक्तिरिव कर्मशक्तिसहकृता । न चासती स्वरूपेणानागता वर्तमानकालकर्तृ-करणाभ्यां सह कर्मशक्तिः खकार्य व्याप्रियते । नापि कर्तृकरणशक्तिर्वर्तमानसमयसम्वन्धिनी भाविकर्मशक्त्या तदा विद्यमानया सह स्वकार्ये व्याप्रियत इति कथमनागतार्थविषयार्थजा प्रतिभा? ततो न प्रमाणफलं सेति, अयुक्तमेतत्; असमानकालत्वेऽपि प्रतिभाविषयस्य कर्तृकरणव्यापारसमानकालतोपपत्तेः । तथाहि-करणं प्रति-२० भाजनकं न वर्तमानसमयवस्तुपरिच्छेदकं किन्त्वनागतस्य तेनानागते वस्तुनि करणस्य व्यापाराद् वस्तुनश्च तेन रूपेण सत्त्वात् कथं प्रतिभा निर्विषया? यदि च सा भाविभावविषयं ज्ञानं निर्विषयं तर्हि चोदनाजनितं ज्ञानं वाक्यप्रभवं वाक्यकाले कार्यस्यार्थस्यासत्त्वान्निविषयमासज्येत । अथ वर्तमानार्थग्रहणस्वभावोऽध्यक्षस्यैव न शब्दादेः । उक्तं च
“सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना"। [श्लो० वा० प्रत्यक्ष० श्लो० ८४] २५ तथा
"एष प्रत्यक्षधर्मश्च वर्तमानार्थतैव यो" ॥ [श्लो० वा० निरा० श्लो० ११४] "सन्निकृष्टार्थवृत्तित्वं न तु ज्ञानान्तरेष्वयम्”। [श्लो० वा० निरा० श्लो० ११५] इति,
१पृ० ४९ पं. १२ । तत्त्वसं. का. ३३८७ पृ.८८६ । न्यायमञ्ज. आ. २ पृ० १०४ पं०३। २ पृ० ४९ पं० १० । “प्रज्ञामेधाबलेनराः"-तत्त्वसं. का० ३१६० पृ. ८२५ । "प्रज्ञामेधाबलेर्नृणाम्"-न्यायमा. आ. २ पृ० १०४ पं०६। ३-कर्षात् का-बृ. ल.।
४ “अपि चानागतं ज्ञानमस्मदादेरपि क्वचित् । प्रमाणं प्रातिभं श्वो मे भ्राताऽऽगन्तेति दृश्यते ॥
नानर्थजं न संदिग्धं न बाधविधुरीकृतम् । न दुष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥ क्वचिद्बाधकयोगश्चेदस्तु तस्याप्रमाणता । यत्रापरेधुरभ्येति भ्राता तत्र किमुच्यताम्" ।
न्यायमज. आ. २ पृ. १०६ पं० १३-। ५-शक्तिः खक-वा. बा०। ६-शक्तिरेव वा. बा०। ७ "मनोलक्षणम्"-बृ० ल.टि.। ८ च भाभां. मांविना।
९ “सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना । सामान्य वा विशेषो वा ग्राह्यं नाऽतोऽत्र कल्प्यते" ॥ श्लो० वा० । न्यायकु. लि. पृ० २४ द्वि. पं. १० । “सन्निहितं वर्तमानं च गृह्यते चक्षुरादिना"-सिद्धिवि० टी० लि.पृ० ४१३ पं० ४।
१. "तस्योत्पत्तौ कथञ्चित् स्युः पृथिव्यादीनि कारणम् । एष प्रत्यक्षधर्मश्च वर्तमानार्थतैव या" ॥ श्लो. वा० । ११ ननु ज्ञा-बृ. ल.। “सन्निकृष्टार्थवृत्तिश्च न तु ज्ञानान्तरेष्वियम् । कथमुत्पादयेज् ज्ञानं तत्राऽसंश्चेत्कुतोन्वियम्" ॥ श्लो. वा० । १२ "वर्तमानार्थतारूपः प्रत्यक्षधर्मः"-बृ० ल.टि.।
६९ स० त.