________________
५३६
द्वितीये काण्डे
किमस्मदादिप्रत्यक्षस्य, उत योगिप्रत्यक्षस्येति ? तत्र यद्याद्यः पक्षः स न युक्तः सिद्धसाध्यताप्रसक्तेः। द्वितीयपक्षोऽप्ययुक्तः योगिप्रत्यक्षस्य स्वमतेनासिद्धत्वात् । न चासिद्धस्यानिमित्तत्वविधानम् अन्यथा खरविषाणादेरपि तं प्रत्यनिमित्तत्वविधिर्भवेत् । न च योगिप्रत्यक्षं परेणाभ्युपगतमिति तं प्रति तस्य तदनिमित्तत्वं साध्यत इति वक्तव्यम् यतो यदि प्रमाणतस्तत् तेनाभ्युपगतं तदा प्रमाणप्रसिद्धस्य ५भवतोऽपि प्रसिद्धत्वात् कथं तस्य तदनिमित्तत्वं साध्येत तन्निमित्ततयैव योगिप्रत्यक्षस्य प्रमाणप्रसिद्धत्वात् ? अथाप्रमाणतस्तत् तेनाभ्युपगतं तदा प्रमाणाभावादेव नासावभ्युपगम इति कथं ततस्तस्य तदनिमित्तत्वसिद्धिः? अत एवातीन्द्रियं वस्त्वनङ्गीकुर्वता परप्रतिपन्ने वस्तुन्यतीन्द्रियेऽसौ प्रमाणं प्रष्टव्यः-सचेत् तत् तत्र ब्रूते तदा तद्वस्त्वङ्गीकर्तव्यम् । अथ न ब्रूते तदा तस्य प्रमाणाभावादेवासिद्धिः न तदुक्तप्रमाणप्रतिषेधात् न ह्यतीन्द्रिये वस्तुनि प्रमाणं प्रतिषेधविधायि प्रवर्तितु१० मुत्सहते धर्म्यसिद्धत्वादिदोपैराघ्रातत्वात् । अथापि स्यात् भवेदेष दोपः स्वतन्त्रसाधनपक्षे नत्विदं
स्वतन्त्रसाधनम् अपि तु प्रसङ्गसाधनम् तच्च स्वतोऽप्रसिद्धेऽपि वस्तुनि परप्रसिद्धेन परस्यानिष्टापादनमिति परैरभ्युपगतं यथा सामान्यादिनिषेधे, एतदप्ययुक्तम् दृष्टान्तस्याप्यसिद्धेः। यथा च सामान्यादिनिषेधे न प्रसङ्गसाधनं प्रवर्तते तथा नैयायिकैः प्रतिपादित सामान्यादिपरीक्षायाम् । किञ्च, प्रसङ्ग
साधनानुपपत्तिरत्र, यतः प्रसङ्गः सर्वोऽपि विपर्ययफल इति पूर्व प्रसङ्गः प्रदर्शनीयः । स च कथं प्रद१५र्यत इति वक्तव्यम् ? अथ योगिप्रत्यक्ष धर्मग्राहकं न भवति विद्यमानोपलम्भनत्वात्, न; हेतोरसिद्धत्वात् । अथ तेन्सिद्ध्यर्थ हेत्वन्तरोपादानम् । तथाहि-विद्यमानोपलम्भनं योगिप्रत्यक्षं सत्संप्रयोगजत्वात् , न; अस्याप्यसिद्धत्वात् । अथैतत्सिद्धये हेत्वन्तरमुपादीयते-विवादास्पदं सत्संयोगजं प्रत्यक्षत्वात् तच्छब्दवाच्यत्वाद्वा अस्मदादिप्रत्यक्षवदिति दृष्टान्तः सर्वत्र वक्तव्यः। धर्मादिग्राहकत्वे वा धर्मा
देरसत्त्वान्न विद्यमानोपलम्भकत्वमिति विपर्ययः अविद्यमानोपलम्भनत्वे च न सत्संयोगजम् अस२०त्संयोगजत्वे वा न प्रत्यक्षम् नापि तच्छन्दवाच्यम् ननु भवत्येवंप्रसङ्गपूर्वको विपर्ययः तस्य त्वनेन किं
सद्भावो निषिध्यते, उत प्रत्यक्षत्वम् ? प्राच्ये विकल्पे धर्म्यसिद्धता हेतूनामित्युक्तम् । द्वितीयेऽपि तस्य प्रमाणान्तरत्वप्रसक्तिः विशेषप्रतिपेधस्य शेपाभ्यनुज्ञानलक्षणत्वात् । स्यादेतत् विशेषप्रतिषेधे धर्मिण एव प्रतिषेधः तस्य तद्रूपतयैवाभ्युपगमात् न च धर्म्यसिद्धत्वादिर्हेतुदोषः 'यदि'अर्थस्याभ्युपगमात्,
असदेतत् व्याप्ती सत्यां प्रसङ्गपूर्वकस्य विपर्ययस्य प्रवृत्तेः। न च प्रत्यक्षत्वस्य तच्छब्दवाच्यत्वस्य वा २५सत्संप्रयोगजत्वेन व्याप्तिसिद्धिः क्वचित् संजाता । अथ प्रसङ्गसाधनवादिनि तत्सिद्धिस्तथापि दोषः
न हि यत् तेन न गृह्यते तदन्येनापि न गृह्यत इति व्याप्तिसिद्धिः । तथाहि-यथा प्रसङ्गसाधनवादिचक्षुर्नातिदूरस्थविषयग्राहि सम्पात्यादे[ध्रराजस्य तु चक्षुष्वेऽपि चक्षुर्योजनशतव्यवहितावभासि श्रूयते रामायणादौ । न च कादम्बर्यादेरिव काव्यत्वादस्याप्रमाणतेति न तन्निवन्धना वस्तुव्यवस्था भारतेऽपि प्रमाणभूते अस्यार्थस्य संसूचनात् । खरूपार्थप्रतिपादकत्वेऽपि च भारतादीनां प्रमाणता सिद्धव । ३० यद्याप्तप्रणीतत्वे निश्चयस्तदा वृपदंशचक्षुश्चक्षुष्टेऽपि तच्छब्दवाच्यत्वेऽपि वा भिन्नखभावं दृष्टं तद्वत्
१पृ० १११ पं० ३-३४ । २ पूर्व प्र-बृ० हा० विना। ३ तद्वित्सि-आ० । तस्मित्सि-वा० बा० । ४ सम्पत्या-वा० बा० । सम्पत्त्या-भां. मां० । सम्पातिनामा च गृध्रराजो योजनशतव्यवहितामपि दशरथनन्दनसुन्दरी ददर्शति श्रूयते रामायणे-न्यायमा. आ. २ पृ० १०३ पं० २३ । ५तु चक्षुचक्षुष्टेऽपि वा. बा० । तु चक्षुष्केऽपि ल०। ६ गृध्रराजस्य सविस्तरवर्णनार्थ द्रष्टव्यम्-रामाय० अरण्य० स० १४ श्लो. १-३६ ।
७ “सखा दशरथस्यासीजटायुररुणात्मजः । गृध्रराजो महावीरः संपातिर्यस्य सोदरः ॥
स ददर्श तदा सीतां रावणाङ्कगतां सुषाम् । सक्रोधोऽभ्यद्रवत् पक्षी रावणं राक्षसेश्वरम् ॥ अथैनमब्रवीद्गृध्रो मुञ्चमुञ्चेति मैथिलीम् । ध्रियमाणे मयि कथं हरिष्यसि निशाचर ! ॥ न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे वधूम् । उक्त्वैवं राक्षसेन्द्रं तं चकत नखरैभृशम् ॥ पक्षतुण्डप्रहारैश्च शतशो जर्जरीकृतम् । चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव" ॥ इत्यादि
महाभा० वनप० अ० २८० श्लो० १-५॥ ८-स्तथा वृ-बृ० विना। ९ "वृषदंशो मार्जारः" अमर सिंहादिवर्ग० २,६ । अभिधान० ४,३६७ । “तथाहियोजनशतव्यवहितमन्धकारान्तरितं वा नास्मदादिलोचनगोचरतामुपयाति सम्पातिवृषदंशदृशोस्तु विषयो भवत्येव" ।न्यायमा. आ. २ पृ. १०४ पं०९।