________________
ज्ञानमीमांसा।
"सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः”। [श्लो० वा० सू० ४ प्रत्यक्ष० श्लो० ३८] इत्यादिना तल्लक्षणं व्याख्यातम् तेषामपि प्रयोगस्यातीन्द्रियत्वात् सम्यक्त्वं न विशिष्टफलमन्तरेण ज्ञातुं शक्यम् फलविशेषणत्वेन च न किञ्चित् पदं श्रूयत इति न कार्यद्वारेणापि तत्सम्यक्त्वावगतिः। बुद्धिजन्मनः प्रमाणत्वं तु न सम्भवत्येव वुद्धातृव्यापारलक्षणायाः पूर्वमेव प्रमाणत्वनिषेधांत् । यैस्तु "नेदं प्रत्यक्षलक्षणविधानं किन्तु लोकप्रसिद्धप्रत्यक्षानुवादेन प्रत्यक्षस्य धर्म प्रत्यनिमित्तत्वविधानम्"५ [
] इति व्याख्यातं तैरपि वाच्यम् कतरस्य प्रत्यक्षस्य धर्म प्रत्यनिमित्तत्वं विधीयते?
"सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्" इत्यादिना जयन्तकृतं जैमिनिप्रत्यक्षलक्षणसमालोचनमत्रत्यया सर्वया चर्चया समानप्रायं वर्तते-न्यायमज. आ० २ पृ० १०० पं० १७-पृ० १०८ पं० २५ ।
तदेव च तत्त्वार्थश्लोकवार्तिक-स्याद्वादरत्नाकर-प्रमाणमीमांसादितोऽपि क्रमेण समवगन्तव्यम्-पृ० १८७ श्लो० ३७ ॥ पृ० ३४१ पं० १९-पृ० ३४२ पं० २५ आ० । १-१-३० पृ. ३७ पं० १९-पृ० ३९ पं० ७॥
१ श्लोकवार्तिके "प्रयोग इन्द्रियाणां च व्यापारोऽर्थेषु कथ्यते"-इत्युत्तरार्धम् ।। "सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः। दुष्टत्वाच्छुक्तिकायोगो वार्यतामक्षजेक्षणात्"-न्यायमज आ० २ पृ. १.१५०३।
"वार्यते रजतेक्षणात्"-स्याद्वादर० पृ. ३४२ पं. ६ आ०, प्रमाणमी० पृ. ३८ पं० ११॥ २० २० पं०१। प्रमेयक पृ० ६ प्र० पं० १५-पृ० ७ द्वि. पं. १४।
३ पृ. ४८ पं०१७-1 "भवदासेनैतत् सूत्रं द्विधा कृत्वा सत्संप्रयोगे इत्येवमादि तत् प्रत्यक्षमित्येवमन्तं प्रत्यक्षलक्षणपरम् अनिमित्तमित्यादि च तस्य धर्म प्रत्यनिमित्तवपरं व्याख्यातम् तदुपन्यस्य दूषयति"-श्लो० वा. पार्थव्या. पृ. १३३ पं० १५-पृ० १३४ पं०९। “अत्र भाष्यकारेणैतत् सूत्रं सकलमेव प्रत्यक्षस्यानिमित्तलकथनपरखेन व्याख्यातम् , वृत्त्यन्तरे तु सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमित्येतावत् प्रत्यक्षलक्षणपरलेन व्याख्यातम् अवशिष्टं तु तस्य धर्म प्रत्यनिमित्तत्वेन । तदस्य लक्षणपरले परोद्भावितं दूषणमनूद्य परिहरति"-शास्त्रदीपिका युक्तिनेहप्रपूरणीसिद्धान्त पृ० ३५५० ३६-1 गं० श्लो. वा० पृ. ६९ टि. १२।।
४"कतरस्य प्रत्यक्षस्य धर्म प्रत्यनिमित्तत्वं प्रतिपाद्यते किमस्मदादिप्रत्यक्षस्य योगिप्रत्यक्षस्य वा । तत्रास्मदादिप्रत्यक्षस्य तथाले सर्वेषामविवाद एवेति किं तत्रेयता श्रमेण । योगिप्रत्यक्षस्य तु भवतामसिद्धत्वात् कस्य धर्म प्रत्यनिमित्तलप्रतिपादनम् ।
एवं च धर्मिणोऽभावादाश्रयासिद्धतां स्पृशेत् । विद्यमानोपलम्भवप्रत्यक्षलादिसाधनम् ॥ परप्रसिद्धया तत्सिद्धिरिति चेत्केयं प्रसिद्धिर्नाम । प्रमाणमूला तद्विपरीता वा । आद्य पक्षे प्रमाणस्यापक्षपातिखात् परस्येव तवापि तत्सिद्धिर्भवतु । अप्रमाणमूलवे तु न कस्यचिदप्यसौ प्रसिद्धिः।
योगिज्ञानं परेषां यत्सिद्धं तदनुभाषणे । प्रतिज्ञापदयोरेव व्याघातस्ते प्रसज्यते ॥ परैर्हि धर्मग्राहि योगिज्ञानमभ्युपगतम् अतस्तदनुभाषणे धर्मग्राहकं न धर्मग्राहकमिति उक्तं स्यात् ।
परसंसिद्धमूलं च नानुमान प्रकल्पते । उक्तं भवद्भिरेवेदं निरालम्बनदूषणम् ॥
साध्यसिद्धिर्यथा नास्ति परसिद्धन हेतुना । तथैव धर्मिसिद्धवं परसिद्धया न युज्यते ॥ तत्रैतत्स्यात् प्रसङ्गसाधनमिदं प्रसङ्गश्च नाम परप्रसिद्धेन परस्यानिष्टापादनमुच्यते । परस्य च विद्यमानोपलम्भनं सत्सम्प्रयोगजन्यं च प्रत्यक्षं प्रसिद्धम् । अतस्तेनैव धर्मेण हेतुना धर्मानिमित्तलं तस्योपपद्यते इति को दोषः । नैतदेवम् ।
प्रसङ्गसाधनं नाम नास्त्येव परमार्थतः । तद्धि कुड्यं विना तत्र चित्रकर्मेव लक्ष्यते ॥ न हि नभःकुसुमस्य सौरभासौरभविचारो युक्तः । अथापि किं न एतेन भवविदं प्रसङ्गसाधनम् ।
तदत्रापि न तु व्याप्तिप्रतीतिरिह मादृशाम् । न धर्मग्राहि सर्वेषां प्रत्यक्षमिति वेत्ति कः ॥ मत्प्रत्यक्षमक्षमं धर्मग्रहणे इति भवान्न जानीते वत्प्रत्यक्षमपि न धर्मग्राहीति नाहं जाने अन्यस्य प्रत्यक्षमीदृशमेवेत्युभावप्यावां न जानीवहे।
खया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् । तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ॥ प्रामाणिकस्थिति तस्मादित्थं श्रोत्रिय ! बुध्यसे । परोक्तेऽतीन्द्रिये ह्यर्थे मा वादीर्दूषणं पुनः ॥
प्रमाणसिद्धे हतशक्तिदूषणं प्रमाणशून्येऽपि वृथा तदुक्तयः । निरस्य चोद्यव्यसनं तु मृग्यतामतीन्द्रिये वस्तुनि साधनं पुनः ॥ सचेत् पर्यनुयुक्तः सन् वक्तुं शक्नोति साधनम् । ओमिति प्रतिपत्तव्यं नो चेन्नास्त्येव तस्य तत्"-न्यायमा० आ० २ पृ० १०२ पं०-1