________________
५३४
द्वितीये काण्डेप्रमाणं न युक्ता । न च सांख्यदर्शनकल्पितस्य श्रोत्रादेः पदार्थस्य सिद्धिः सत्कार्यवादसिद्धौ तत्पदार्थव्यवस्थितेः तस्य च निषिद्धत्वात् । किञ्च, श्रोत्रादीनां वृत्तिस्तेभ्यो यद्यव्यतिरिक्ता तदा श्रोत्रादिकमेव तच्च सुप्तमत्ताद्यवस्थास्वपि विद्यत इति तदाप्यध्यक्षप्रमाणप्रसक्तिरिति सुप्तादिव्यवहारोच्छेदः । अथ व्यतिरिक्ता तेभ्यो वृत्तिस्तदा वक्तव्यम् किमसौ तेषां धर्ममात्रम् आहोखिदर्थान्तरम् ? यद्याद्यः पक्ष५स्तदा वृत्तेस्तैः सम्बन्धो वक्तव्यः यदि तादात्म्यं तदा श्रोत्रादिमात्रमेवासाविति पूर्वोक्तो दोषः । अथ समवायस्तदाऽयुतसिद्धिप्रसक्तिरिति व्यापिश्रोत्रादिसद्भावे सति नियतदेशा वृत्तिरभिव्यज्यत इति प्लवते । अथ संयोगस्तदार्थान्तरप्रसक्तिरिति न तद्धर्मो वृत्तिर्भवेत् । अथार्थान्तरं वृत्तिस्तदा नासौ वृत्तिः अर्थान्तरत्वात् पटादिवत् । अथार्थान्तरत्वेऽपि प्रतिनियतविशेषसद्भावात् तेषामसौ वृत्तिः, नन्वसौ विशेषो यदि श्रोत्रादिविषयप्राप्तिस्वरूपस्तदेन्द्रियार्थसन्निकर्षोऽभिधानान्तरेण प्रतिपादितो १०भवेत् । स च यद्यव्यभिचारादिविशेषणविशिष्टार्थीपलब्धिजनकः प्रत्यक्षं प्रमाणमभिधीयते तदा
अस्मत्पक्ष एव समाश्रितो भवेत् । अथ तथाभूतोपलब्ध्यजनकः न तर्हि प्रमाणमसाधकतमत्वात् । अथार्थाकारपरिणतिः श्रोत्रादीनां वृत्तिस्तदात्रापि वक्तव्यम् किमसौ परिणतिः श्रोत्रादिस्वभावा, उत धर्मः, आहोस्विदर्थान्तरमिति? पक्षत्रयेऽपि च पूर्ववद्दोषाभिधानं विधेयम् । न च श्रोत्रादीनां विषयाकारपरिणतिः परपक्षे संभविनी परिणामस्य व्यतिरिक्तस्याव्यतिरिक्तस्य चासंभवादिति प्रति१५पादितत्वात । प्रतिनियताध्यवसायस्तु श्रोत्रादिसमुत्थोऽध्यक्षफलम् न पुनरध्यक्षं प्रमाणमसाधकतमत्वात । विशिष्टोपलब्धिनिर्वर्तकत्वेनाध्यक्षत्वेऽस्मन्मतमेव समाश्रितं भवेत् । तन्न सांख्यमतानसारिपरिकल्पितमप्यध्यक्षलक्षणमुपपन्नम् ।
[नैयायिकैजैमिनीयसूत्रोक्तप्रत्यक्षलक्षणस्य निरासः] जैमिनिपरिकल्पितमपि प्रत्यक्षलक्षणम् “सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम" २० [ मीमांसाद० १-१-४] इति संशयादिषु समानत्वात् वार्तिककारप्रभृतिभिर्निरस्तमेव । यैरपि
"एतच्च यथोक्तं प्रत्यक्षदृष्टसम्बन्धमनुमानं विशेषतोदृष्टमनुमानमित्येवं विन्ध्यवासिना गदितम्"-तत्त्वसं० पजि. पृ. ४१३ पं० २२ । “सारूप्यं सादृश्यं विन्ध्यवासीष्टम्"-तत्त्वसं० पञ्जि. पृ० ६३६ पं० ७ ॥ “यदेव दधि तत् क्षीरं यत् क्षीरं तद्दधीति च । वदता रुद्रिलेनैव ख्यापिता विन्ध्यवासिता" ॥
-तत्त्वसं० पजि. पृ. २२ पं० २६ । "देहभोगेन नैवास्य भावतो भोग इष्यते । प्रतिबिम्बोदयात् किन्तु यथोक्तं पूर्वसूरिभिः"-शास्त्रवा०स्त०३, श्लो०२७॥
"पूर्वसूरिभिः विन्ध्यवास्यादिभिः"-शास्त्रवा० स्याद्वादक० पृ. १०९ प्र. पं०८ । आचार्यहेमचन्द्र-यादवप्रकाशौ लेनं 'व्याडि' इति नाम्नापि प्रत्यभिज्ञापयतः
"अथ व्याडिविन्ध्यवासी नन्दिनीतनयश्च सः"-अभिधान. ३, श्लो० ५१६ । “विन्ध्ये वसति विन्ध्यवासी"अभिधान० टी०।
"अथ व्यालिविन्ध्यवासी नन्दिनीनन्दनोऽपि च"-वैजय० श्लो. १५८ पृ. ९६।
१पू. २९६ पं०८। २ इदं विन्ध्यवासिप्रणीतप्रत्यक्षलक्षणनिराकरणं शब्दशः प्रमेयकमलमार्तण्डे वर्ततेपृ०६प्र.पं. ७-१४ । तदेव चांशतः साम्येन स्याद्वादरत्नाकरेऽपि दृश्यते-पृ० ७३ पं० ४ आ०। ३ "श्रोत्रादिभिः सह"-वृ० ल.टि.। ४ प्र० पृ. पं० २। ५-णतिश्रो-बृ० वा. बा. आ. हा०वि०।-णतश्रो-ल. प्र. पृ० पं० २-४। ७ पृ. २९७ पं० २-३०।।
८"सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनखात्" इति सूत्रम् । सोपपत्तिकमेतत् मीमांसाश्लोकवार्तिकादितोऽवगन्तव्यम्-श्लो० वा. पृ० १३३-२०७ श्लो० १-२५४ । शास्त्रदीपिका पृ. ३५ पं० १६-पृ० ४३ पं० ११॥
"तथा, सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् तदपि प्रत्युक्तम्" इत्यादि-तत्त्वोप० लि. पृ० ७३ पं० १४-पृ. ७७ पं०९।
"सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमिति एतदपि संशयाद्युत्पत्तिनिमित्तखादलक्षणमिति । तथा चोकं प्रत्यक्षसूत्रं वर्णयद्भिरिति"-न्यायवा० पृ. ४३ पं०६- "जैमिनिप्रत्यक्षलक्षणं दूषयति-सत्संप्रयोग-इति" इत्यादिभ्यायवा० ता० टी० पृ. १५५५०९-१९ ।
जन्म तत्व प्रत्यक्षमिति एतदपि संशयाचपतिवित्तित्वादचक्षणामिति । तथा त्यो फ