SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। संभवात् , क्वचिच्च विरुद्धाव्यभिचारिणः' इत्यादि दूषणजालं तद् अनुद्घोषणीयमेव, यतोऽनिश्चितार्थप्रतिपादकत्वाद् "अनुमानमप्रमाणम्" इत्यनुमानाऽप्रमाणताप्रतिपादने कृते शेषदूषणजालस्य मृत. मारणकल्पत्वात् । ततोऽनुमानस्याप्रमाणत्वादतीन्द्रियपरलोकसद्भावप्रतिपादने कुतस्तस्य प्रवृत्तिः? अथेदमेव जन्म पूर्वजन्मान्तरमन्तरेण न युक्तमिति जन्मान्तरलक्षणस्य परलोकस्य सिद्धिरिष्यते, तत् किमियमर्थापत्तिः, अथानुमानं वा? न तावदापत्तिः, तल्लक्षणाभावात्, "दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते" [मीमांसाद० अ०१, पा०१, सू०५ शाबरभा०] इति हि तस्या लक्षणं विचक्षणैरिष्यते । न तु जन्मान्तरमन्तरेण नोपपत्तिमदिदं जन्मेति सिद्धम्, मातापितृसामग्रीमात्रकेण तस्योपपत्तेः, तन्मात्रहेतुकत्वे चान्यपरिकल्पनायामतिप्रसङ्गात् ।। ___अथ प्रज्ञा-मेधादयो जन्मादावभ्यासपूर्वका दृष्टाः कथमतत्पूर्वका भवेयुः, न वहिपूर्वको धूमस्तत्पूवैकतामन्तरेण कदाचिदपि भवन्नुपलब्धः, तदप्यसत् ; अविनाभावसंबन्धस्य देश-कालव्याप्तिल-१० क्षणस्य प्रत्यक्षेण प्रतिपत्तुमशक्तेः-सन्निहितमात्रप्रतिपत्तिनिमित्तं हि प्रत्यक्षमुपलभ्यते 'नहि सकलदेश-कालयोर्विना वह्निमसंभव एव धूमस्य' इति प्रत्यक्षतः प्रतीतिर्युक्ता; अतो न धूमोऽपि वह्निपूर्वकः सर्वत्र प्रत्यक्षाऽनुपलम्भाभ्यां सिद्ध इति कुतस्तेन दृष्टान्तेन जन्मान्तरस्वरूपपरलोकसाधनम् ? तस्मात् केचित् प्रज्ञा-मेधादयस्तथाभूताभ्यासपूर्वकाः, केचिद् मातापितृशरीरपूर्वका इति । न च प्रज्ञादयः शरीरतो व्यतिरिच्यमानस्वभावाः संवेदनविषयतामुपयान्ति, शरीरं च तदन्वय-व्यतिरेकानु-१५ वृत्तिमदेव दृष्टमिति कथमन्यथा व्यवस्थामर्हति? ____ अथ पूर्वोपात्तादृष्टमन्तरेण कथं मातापितृविलक्षणं शरीरम् ? नन्वेतेनैव व्यभिचारो दृश्यते, नहि सर्वदा कारणानुरूपमेव कार्यम्, तेन विलक्षणादपि मातापितृशरीराद यदि प्रशा-मेधादिभिर्विलक्षणं तदपत्यस्य शरीरमुपजायेत, कदाचित् तदाकारानुकारि तत् क एवाऽत्र विरोधः? यथा कश्चित् शालूकादेव शालूका, कश्चिद् गोमयात् तथा कश्चिदुपदेशाद् विकल्पः, कश्चित् तदाकारपदार्थदर्श-२० नात् । अथ दर्शनादपि विकल्पः पूर्वविकल्पवासनामन्तरेण कथं भवेत् ? तर्हि गोमयादपि शालूकः कथं शालूकमन्तरेणेति एतदपि प्रष्टव्यम् । तस्मात् कार्यकारणभावमात्रमेवैतत् । तत्र च नियमाभाव दविज्ञानादपि मातापितृशरीराद् विज्ञानमुपजायताम् ; अथवा यथा विकल्पाद् व्यवहितादपि विकल्प उपजायते तथा व्यवहितादपि मातापितृशरीरत एवेति न भेदं पश्यामः । यथा चैकमातापितृशरीरादनेकापत्योत्पत्तिस्तथैकस्मादेव ब्रह्मणः प्रजोत्पत्तिरिति न जात्यन्तरपरिग्रहः कस्यचिदिति न परलोक-२२ सिद्धिः। नहि मातापितृसंबन्धमात्रमेव परलोकः, तथेष्टावभ्युपगमविरोधात् । __ अथानाद्यनन्त आत्माऽस्ति तमाश्रित्य परलोकः साध्यते, न ह्येकानुभवितव्यतिरेकेणानुसन्धानं संभवति, भिन्नानुभवितर्यनुसन्धानादृष्टेः, त “परलोकिनोऽभावात् परलोकाभावः” [ ] इति वचनात् । न ह्यनाद्यनन्त आत्मा प्रत्यक्षप्रमाणप्रसिद्धः। अनुमानेन चेतरेतराश्रयदोषप्रसङ्गः-सिद्धे आत्मन्येकरू-३० पेणानुसन्धानविकल्पस्याविनाभूतत्वे आत्मसिद्धिः, तत्सिद्धेश्चानुसन्धानस्य तदविनाभूतत्वसिद्धिरितीतरेतराश्रयसद्भावान्नैकस्यापि सिद्धिः।न चासिद्धमसिद्धन साध्यते । किंच, दर्शनाऽनुसन्धानयोः पूर्वापरभाविनोः कार्यकारणभावः प्रत्यक्षसिद्धः, तत् कुतोऽनुसन्धानस्मरणादात्मसिद्धिः? अपि च, शरीरान्तर्गतस्य शामस्यामूर्तत्वेन कथं जन्मान्तरशरीरसंचारः? अथान्तराभवशरीरसन्तत्या संचरणमुच्यते, तदपि परलोकान्न विशिष्यते । संचारश्च न दृष्टो जीवत इह जन्मनि, मरणसमये भविष्यतीति ३५ दुरधिगममेतत् न परलोकसिद्धिः। अथवा सिद्धेऽपि परलोके प्रतिनियतकर्मफलसंबन्धासिद्धर्व्यर्थ मेवानुमानेन परलोकास्तित्वसाधनम् । अथागमात प्रतिनियतकर्मफलसंबन्धसिद्धिः, तथासति परलोकास्तित्वमप्यागमादेव सिद्धमिति किमनुमानप्रयासेन? ___ न चागमादपि परलोकसिद्धिः, तस्य प्रामाण्यासिद्धः । न चाप्रमाणसिद्धं परलोकादिकमभ्युपगन्तुं युक्तम्, तदभावस्यापि तथाऽभ्युपगमप्रसङ्गात् । तन्न परलोकसाधकप्रमाणप्रतिपादनमकृत्वा ४० १-त्रमेव तत् का०, गु०। २ प्रत्यक्षमसिद्धः गु० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy