SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेस च परोपन्यस्तप्रमाणपर्यनुयोगः तदभ्युपगमस्य प्रश्नादिद्वारेण विचारणा न पुनः स्वसिद्धप्रमाणो पन्यासः, येन 'अतीन्द्रियार्थप्रतिक्षेपकत्वेन प्रवर्त्तमानं प्रमाणमाश्रयासिद्धत्वादिदोषदुष्टत्वेन कथं प्रवर्तते' इत्यस्मान् प्रति भवताऽपि पर्यनुयोगः क्रियेत । अत एव परलोकप्रसाधकप्रमाणाभ्युपगमं परेण ग्राहयित्वा तदभ्युपगमस्यानेन प्रकारेण विचारः क्रियते५ तत्र न तावत् परलोकप्रतिपादकत्वेन चक्षुरादिकरणव्यापारसमासादितात्मलाभं सन्निहितप्रतिनियतरूपादिविषयत्वात् प्रत्यक्षं प्रवर्त्तते । नाप्यतीन्द्रियं योगिप्रत्यक्षं तत्र प्रवर्तत इति वक्तुं शक्यम्, परलोकादिवत् तस्याप्यसिद्धेः। ___ नाप्यनुमानं प्रत्यक्षपूर्वकं तत्र प्रवृत्तिमासादयति, प्रत्यक्षाप्रवृत्तौ तत्पूर्वकस्यानुमानस्यापि तत्राप्र वृत्तेः। अथ यद्यपि प्रत्यक्षावगतप्रतिबन्धलिङ्गप्रभवमनुमानं न तत्र प्रवर्तते तथापि सामान्यतोदृष्टं १० तत्र प्रवर्तिष्यते, तदपि न युक्तम् । यतस्तदपि सामान्यतोदृष्टमवगतप्रतिबन्धलिङ्गोद्भवम्, आहोस्वित् अनवगतप्रतिबन्धलिङ्गसमुत्थम् ? यद्यनवगतप्रतिबन्धलिङ्गोद्भवमिति पक्षः, स न युक्तः, तथाभूतलिङ्गप्रभवस्य स्वविषयव्यभिचारेण अश्वदर्शनानन्तरोद्भुतराज्यावाप्तिविकल्पस्येवाप्रमाणत्वात् । अथ प्रतिपन्नसंबन्धलिङ्गप्रभवं तत् तत्र प्रवर्त्तत इति पक्षः, सोऽपि न युक्तः; प्रतिबन्धावगमस्यैव तत्र लिङ्गस्यासंभवात् । तथाहि-प्रत्यक्षस्य तत्र लिङ्गसंबन्धावगमनिमित्तस्याभावेऽनुमानं लिङ्गसंबन्ध१५ग्राहकमभ्युपगन्तव्यम् । तत्र यदि तदेव परलोकसद्भावावेदकमनुमानं स्वविषयाभिमतेनार्थनात्मोत्पादकलिङ्गसंबन्धग्राहकं तदेतरेतराश्रयत्वदोषः । अथानुमानान्तराद गृहीतप्रतिबन्धाल्लिङ्गादुपजायमानं तद्विषयं तदभ्युपगम्यते तदाऽनवस्था। तथा, सर्वमप्यनुमानमस्मान् प्रत्यसिद्धम् । तथाहिबृहस्पतिसूत्रम् "अनुमानमप्रमाणम्"[ ] इति । २० अनेन प्रतिज्ञाप्रतिपादनं कृतम् , अनिश्चितार्थप्रतिपादकत्वा( त्वात् )सिद्धप्रमाणाभासवदिति हेतुदृष्टान्तावभ्यूह्यो। विषयविचारेण वाऽनुमानप्रामाण्यमयुक्तम्-धर्म-धर्म्युभयस्वतन्त्रसाधने सिद्धसाध्यता यतः, अतो विशेषणविशेष्यभावः साध्यः । प्रमेयविशेषविषयां प्रमां कुर्वत् प्रमाणं प्रमाणतामश्रुते । इतरेतरावच्छिन्नश्च समुदायोऽत्र प्रमेयः; तदपेक्षया च पक्षधर्मत्वादीनामन्यतमस्यापि रूपस्याप्र२५ सिद्धिः । नहि समुदायधर्मता हेतोः, नापि समुदायेनान्वयो व्यतिरेको वा, धर्मिमात्रापेक्षया पक्षधर्मत्वे साध्यधर्मापेक्षया च व्याप्तौ गौणतेति । उक्तं च "प्रमाणस्योगौणत्वादनुमानादर्थ निश्चयो दुर्लभः" [ ] इति । धर्मिधर्मताग्रहणेऽपि न गौणतापरिहारः, प्रतीयमानापेक्षया गौण-मुख्यव्यवहारस्य चिन्त्यत्वात: समुदायश्च प्रतीयते । एकदेशाश्रयणेनापि त्रैरूप्यमयुक्तम्, व्याल्यसिद्धेः। नहि सत्तामात्रेणाविनाभावो ३० गमकः अपि त्ववगतः, अन्यथाऽतिप्रसङ्गात् । स च सकलसपक्ष-विपक्षाप्रत्यक्षीकरणे दुर्विज्ञानोऽ सर्वविदा। न चात्र भूयोदर्शनं शरणम्, सहस्रशोऽपि दृष्टसाहचर्यस्य व्यभिचारात् । अत एवं न दर्शनादर्शनमपि । तदुक्तम् “गोमानित्येव मान भाव्यमश्ववताऽपि किम् ? " [ ] इति । देश-कालाऽवस्थाभेदेन च भावानां नानात्वावगमादनाश्वासः। तदुक्तम् "अवस्था-देश-कालानाम्" [ वाक्यप० प्र० का० श्लो० ३२] इत्यादि । आह च "अविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वात्" [ ] यश्च 'सामान्यस्य तद्विषयस्याभावात्, स्वार्थ-परार्थभेदासंभवात्, विरुद्धाऽनुमान-विरोधयोः सर्वत्र १-त्वादसिद्ध-वा०, बा०, मां०, भां० । २-स्य गौण-भां०, मां।स्याद्वादरत्नाकरेऽपि “प्रमाणस्य गौणत्वात्" इत्यादि मुद्रितम् , एतच्च 'पौरन्दरं सूत्रम्' इति उदलेखि तत्रैव पृ० १३१ पं०३-४ । ३-धर्मत्वग्र-गु० । ४ एव दर्शना-कां०, गु० । ५ भां०, मां०, वा०, बा०, पू० विना सर्वत्र पूर्णःश्लोकः अवस्था-देश-कालानां मेदाद मिनासु शक्तिषु । भावानामनुमानेन प्रतीतिरतिदुर्लभा ॥ प्रतीतिरपि दुर्लभा कां० । “प्रतीतिरिह दुर्लभा" मां.टि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy