SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। "अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ? नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम्?" ॥ [ ] इत्यादिवचनसंदर्भेण प्रतिपादित इति मन्यानेन आचार्येणापि न दृष्टान्तसूचनं विहितमत्र प्रयोगे । 'कुसमयविशासनम्' इति च अत्र व्याख्याने बुद्धादिशासनानामसर्वज्ञप्रणीतत्वप्रतिपादकत्वेन व्याख्येयम् । तथाहि-कुत्सिताः प्रमाणबाधितैकान्तस्वरूपार्थप्रतिपादकत्वेन, समयाः कपिलादि. ५ प्रणीतसिद्धान्तास्तेषाम् “सन्ति पञ्च महब्भूया" [सूत्रकृ० प्र० श्रु०, प्र० अ०, प्र० उ०, गा०७] इत्यादिवचनसंदर्भेण दृष्टेष्टविषये विरोधाधुद्भावकत्वेन 'विशासनम्' विध्वंसकं यतः अतो द्वादशानमेव जिनानां शासनमिति भवत्यतो विशेषणात् सर्वज्ञविशेषसिद्धिरिति स्थितमेतजिनशासनं द्वादशाङ्गं तत्त्वादेव सिद्धं निश्चितप्रामाण्यमिति ॥ [ ईश्वरस्वरूपवादः] अत्र ईश्वरकृतजगद्वादिनः प्राहुः-युक्तमुक्तम् 'सर्वज्ञप्रणीतं शासनम्, तत्प्रणीतत्वाच्च तत् प्रमाणम्' इति । इदं त्वयुक्तम् 'राग-द्वेषादिकान् शत्रून् जितवन्त इति जिनाः' । सामान्ययोगिन एवेश्वरव्यतिरिक्ता एतल्लक्षणयोगिनःन पुनः शासनादिसर्वजगत्स्रष्टा ईश्वरः । तथा च पतञ्जलि: "क्लेश-कर्म-विपाकाऽऽशयैरपरामृष्टः पुरुषविशेष ईश्वरः” [योगद० पा०१, सू०२४] इति । न सूत्रेण रागादिलक्षणक्लेशशत्रुरहितत्वं सहजमीश्वरस्य प्रतिपादितम् न पुनर्विपक्षभावनाद्यभ्यास-१५ व्यापारात् क्लेशादिक्षयस्तस्य, येन 'रागादीन स्वव्यापारेण जितवन्तः' इति वचः सार्थकं तद्विषयत्वेन स्यात् । तथा चान्यैरप्युक्तम् "ज्ञानमप्रतिघं यस्य ऐश्वर्य च जगत्पतेः। वैराग्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्" ॥[ इत्याशङ्कयाह- "भवजिणाणं' इति, भवन्ति नारक-तिर्यग्-नराऽमरपर्यायत्वेनोत्पद्यन्ते प्राणिनोऽ-२० स्मिन्निति भवः संसारः; तद्धेतुत्वाद् रागादयोऽत्र 'भव'शब्देनोपचाराद्' विवक्षिताः, तं जितवन्त इति जिनाः। उपचाराश्रयणे च प्रयोजनम्-न ह्यविकलकारणे रागादौ अध्वस्ते तत्कार्यस्य संसारस्य जयः शक्यो विधातुमिति प्रतिपादनम् । भवकारणभूतरागादिजये चोपायः प्रतिपादितः प्राकः तदुपायेन च विपक्षरागादिजयद्वारेण तत्कार्यभूतस्य भवस्य जयः संभवति नान्यथेति । न ह्युपायव्यतिरेकेणोपेयसिद्धिः; अन्यथोपेयस्य निर्हेतुकत्वेन देश-काल-स्वभावप्रतिनियमो न स्या-२५ दिति सर्वप्राणिनामीश्वरत्वम् , न वा कस्यचित् स्यात् । प्रतिपादितचायमर्थः "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभवः" ॥ [ ] इत्यादिना ग्रन्थेन धर्मकीर्त्तिना । तन्न रागादिक्लेशविगमः स्वभावत एवेश्वरस्येति युक्तम् । [प्रासङ्गिकी परलोकचर्चा ] [ पूर्वपक्षः-परलोके प्रत्यवस्थानम् ] अत्र बृहस्पतिमतानुसारिणः स्वभावसंसिद्धज्ञानादिधर्मकलापाध्यासितस्य स्थाणोरभावप्रतिपादनं जैनेन कुर्वताऽस्माकं साहाय्यमनुष्ठितमिति मन्वानाः प्राहुः-युक्तमुक्तं यत् 'स्वभावसंसिद्धशानादिसंपत्समन्वितस्येश्वरस्याभावः' 'नारक-तिर्यग्-नराऽमररूपपरिणतिस्वभावतया उत्पद्यन्ते प्राणिनोऽस्मिन्निति' एतच्चायुक्तमभिहितम्, परलोकसद्भावे प्रमाणाभावात् । तथाहि-परलोकसद्भा-३५ वावेदकं प्रमाणं प्रत्यक्षम् अनुमानम् आगमो वा जैनेनाभ्युपगमनीयः, अन्यस्य प्रमाणत्वेन तेनानिष्टेः। न चात्रैतद् वक्तव्यम्-भवतोऽपि किं तत्प्रतिक्षेपकं प्रमाणम् ? यतो नास्माभिस्तत्प्रतिक्षेपकप्रमाणात् तदभावः प्रतिपाद्यते किन्तु परोपन्यस्तप्रमाणपर्यनुयोगमात्रमेव क्रियते । अत एव "सर्वत्र पर्यनुयोगपराण्येव सूत्राणि बृहस्पतेः"[ ] इति चार्वाकैरभिहितम् । १ प्र० पृ० ५० ८ १ २ पृ. २९ पं० २० । ३ पृ. ६१ पं० १० । ४ प्र• पृ. पं० २९ । ५ प्र० पृ. पं० २० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy