SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ६८ प्रथमे काण्डे प्रमाणतः सर्वोपसंहारेण प्रदर्शनीया । तच्च प्रमाणं व्याप्तिप्रसाधकं कदाचित् साध्यधर्मिण्येव प्रवृत्तं तां तस्य साधयति कदाचित् दृष्टान्तधर्मिणि । यत्र हि 'सर्वमनेकान्तात्मकम् , सत्त्वात्' इत्यादौ प्रयोगे न दृष्टान्तधर्मिसद्भावस्तत्र व्याप्तिप्रसाधकं प्रमाणं प्रवर्त्तमानं साध्यधर्मिण्येव सर्वोपसंहारेण हेतोः स्वसाध्यव्याप्तिं प्रसाधयति । यत्र तु प्रकृतप्रयोगादौ दृष्टान्तधर्मिणोऽपि सत्त्वं तत्र दृष्टान्तध. ५र्मिण्यपि प्रवृत्तं तत् प्रमाणं सर्वोपसंहारेणैव तस्याःप्रसाधकमभ्युपगन्तव्यम् । अन्यथा दृष्टान्तधर्मिणि हेतोः स्वसाध्यव्याप्तावपि साध्यधर्मिणि तस्य तव्याप्तौ न ततस्तत्र तत्प्रतिपत्तिः स्यात्, दृष्टान्तध. र्मिण्येव तेन तस्य व्याप्तत्वात् ; वहिप्प्तेर्विद्यमानाया अपि साध्यधर्मिणि साध्यप्रतिपत्तावनुपयोगात् सादृश्यमात्रस्याकिञ्चित्करत्वात् । अन्यथा 'शुक्लं सुवर्णम् , सत्त्वात् , रजतवत्' इत्यत्रापि शुक्लत्वप्रतिपत्तिः स्यात् । अथात्र पक्षस्य प्रत्यक्षबाधनम्, प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन हेतो. १०कालात्ययापदिष्टत्वं वा दोषः, तदयुक्तम् बाधाऽविनाभावयोर्विरोधात् । तथाहि-सत्येव साध्यध. र्मिणि साध्ये हेतुर्वर्त्तत इति तस्य तदविनाभावः, तत्प्रतिपादितसाध्यधर्माभावश्च प्रमाणतो बाधा, साध्यधर्मभावाऽभावयोश्चैकत्र धर्मिण्येकदा विरोध इति नैतदोषादस्य साधनस्य दुष्टत्वं किन्तु साध्यधर्मिणि साध्यधर्माविनाभूतत्वेनाऽनिश्चयः। स च बहिर्याप्तिमात्रेण हेतोः साध्यसाधकत्वाभ्युपगमेऽन्यत्रापि समान इति नानुमानात् क्वचिदपि साध्यनिश्चयः स्यात् । अतो दृष्टान्तधर्मिणि १५ प्रवृत्तेन प्रमाणेन व्याप्त्या हेतोः स्वसाध्याविनाभावो निश्चयः । स च निश्चिताविनाभावो यत्र धर्मिण्युपलभ्यते तत्र स्वसाध्यमविद्यमानप्रमाणान्तरबाधनं निश्चाययति, यथाऽत्रैव सर्वज्ञमा. अलक्षणे साध्ये वचनविशेषलक्षणे साध्यधर्मिणि तद्विशेषत्वलक्षणो हेतुः। प्रतिबन्धप्रसाधकं चास्य हेतोः प्रागेव दृष्टान्तधर्मिणि प्रमाणं प्रदर्शितमित्यभिप्रायवतैव आचार्येणापि 'कुसमयविसासणं' इति सूत्रे 'कुः' इत्यनेन दृष्टान्तसूचनं विहितम् , न च पक्षवचनाशुपक्षेपः सूचितः। २० ननु भवत्वस्माद्धेतोर्यथोक्तप्रकारेण सर्वज्ञमात्रसिद्धिर्न पुनस्तद्विशेषसिद्धिः। तथाहि-यथा नष्ट-मुष्ट्यादिविषयवचनविशेषस्य अर्हत्सर्वज्ञप्रणीतत्वं वचन विशेषत्वात् सिध्यति तथा बुद्धादिसर्वशपूर्वकत्वमपि तत एव सेत्स्यतीति कुतस्तद्विशेषसिद्धिः? न च नष्ट-मुट्यादिप्रतिपादको वचनविशेषोऽर्हच्छासन एवेति वक्तुं युक्तम्, बुद्धशासनादिवपि तस्योपलम्भात् इत्याशझ्याह सूरिः 'सिद्धत्थाणं' इति । अस्यायमभिप्रायः-प्रत्यक्षाऽनुमानादिप्रमाणविषयत्वेन प्रतिपादिताः शास२५ नेन ये ते तद्विषयत्वेनैव तैनिश्चिता इति सिद्धाः, ते च 'अर्यन्ते' इति अर्था उच्यन्ते, तेषां शासनं प्रतिपादकम् अर्हत्सर्वशशासनमेव न बुद्धादिशासनम् । अतो वचनविशेषत्वलक्षणस्य हेतोस्तेष्वसिद्वत्वात् कुतस्तेषामपि सर्वज्ञत्वं येन विशेषसर्वज्ञत्वसिद्धिर्न स्यात् ? यथा चागमान्तरेण प्रत्यक्षादिविषयत्वेन प्रतिपादितानामर्थानां तद्विषयत्वं न संभवति तथाऽत्रैव यथास्थानं प्रतिपादयिष्यते। अथवा 'सिद्धार्थानाम्' इत्यनेन हेतुसंसूचनं विहितमाचार्येण-सिद्धाः प्रमाणान्तरसंवादतो ३० निश्चिताः, येऽर्था नए-मुष्टयादयः, तेषां शासनं प्रतिपादकं यतो द्वादशाङ्गं प्रवचनमतो जिनानां कार्यत्वेन संबन्धिः तेनायं प्रयोगार्थः सूचितः-प्रयोगश्च-प्रमाणान्तरसंवादियथोक्तनष्ट-मुष्टयादि. सूक्ष्मान्तरितदूरार्थप्रतिपादकत्वान्यथाऽनुपपत्तर्जिनप्रणीतं शासनम् । अत्र च सूक्ष्माद्यर्थप्रतिपादकत्वान्यथाऽनुपपत्तिलक्षणस्य हेतोर्जिनप्रणीतत्वलक्षणेन स्वसाध्येन व्याप्तिः साध्यधर्मिण्येव निश्चि. तेति तन्निश्चायकप्रमाणविषयस्येह दृष्टान्तस्य प्रदर्शनमाचार्येण न विहितम्, तदर्थस्य तद्यतिरेकेणैव ३५ सिद्धत्वात् । यथा चार्थापत्तेः साध्यधर्मिण्येव व्याप्तिनिश्चयाद् दृष्टान्तव्यतिरेकेणापि तदुत्थापकादर्था दुपजायमानायाः सर्वज्ञप्रतिक्षेपवादिभिर्मीमांसकैः प्रामाण्यमभ्युपगम्यते तथा प्रकृतादन्यथाऽनुपपत्तिलक्षणाद्धेतोरुपजायमानस्याऽस्याऽनुमानस्य तत् किं नेण्यते ? प्रतिपादितश्वार्थापत्तेरनुमानेऽन्तर्भावः प्रागिति भवत्यतो हेतोः प्रकृतसाध्यसिद्धिः। अत एव पूर्वाचार्यैर्हेतुलक्षणप्रणेतृभिरेकलक्षणो हेतुः १-तधर्मनि-भा०, कां० । २ सर्वक्षलक्षणे बा०, पू०, वा० विना । ३ तविशेषलक्षणो भा०, का०, ०, गु०। ४ प्र.पृ.पं.४॥ ५ पृ. ६५पं० २९ । ६ पृ. ४६ पं० ३६ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy