SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः । क्षात्कारिज्ञानपूर्वकत्वमपि सिद्धिमासादयति । नहि धर्माऽधर्मयोः सुख-दुःखकारणत्वसाक्षात्करणं सहकारिकारणाशेषपदार्थ तदाधारभूत समस्तप्राणिगण साक्षात्करणमन्तरेण संभवति, सर्वपदार्थानां परस्परप्रतिबन्धादेक पदार्थसर्वधर्मप्रतिपत्तिश्च सकलपदार्थप्रतिपत्तिनान्तरीयका प्राक् प्रतिपा दिता । अतो भवति सकलपदार्थ साक्षात्का रिज्ञानपूर्वकत्वसिद्धिरतो हेतोर्वचनविशेषस्यः तत्सिद्धौ च तत्प्रणेतुः सूक्ष्माऽन्तरितदूरानन्तार्थ साक्षात्कार्यतीन्द्रियज्ञानसम्पत्समन्वितस्य कथं न सिद्धिः ? ५ ६७ नाप्येतद् वक्तव्यम्-साध्योक्ति - तदावृत्तिवचनयोरनभिधानाद् न्यूनता नामाऽत्र साधनदोषः, प्रतिज्ञावचनेन प्रयोजनाभावात् । { अथ विषयनिर्देशार्थ प्रतिज्ञावचनम् ; ननु स एव किमर्थः ? साधर्म्यवत्प्रयोगादिप्रतिपत्त्यर्थः । तथाहि असति साध्यनिर्देशे 'यो वचनविशेषः स साक्षात्कारिज्ञानपूर्वकः' इत्युक्ते किमयं साधर्म्यवान् प्रयोगः, उत वैधर्म्यवानिति न ज्ञायेत, उभयं ह्यत्राशङ्कयेतवचनविशेषत्वेन साक्षात्का रिज्ञानपूर्वकत्वे साध्ये साधर्म्यवान्, असाक्षात्कारिज्ञानपूर्वकत्वेन १० वचनाविशेषत्वे साध्ये वैधर्म्यवानिति । हेतु - विरुद्धाऽनैकान्तिकप्रतीतिश्च न स्यात् । प्रतिज्ञापूर्वके तु प्रयोगे शब्द विशेषः साक्षात्कारिज्ञानपूर्वकः, शब्द विशेषत्वाद् इति हेतुभावः प्रतीयते; असाक्षात्कारिशान पूर्वको वचन विशेषत्वाद् इति विरुद्धता; चक्षुरादिकरणजनितज्ञानपूर्वको वचनविशेषत्वाद् इत्यनैकान्तिकत्वम् । हेतोश्च त्रैरूप्यं न गम्येत, तस्य साध्यापेक्षया व्यवस्थितेः । सति प्रतिज्ञानि देशेऽवयवे समुदायोपचारात् साध्यधर्मी इति पक्ष इति तत्र प्रवृत्तस्य वचन विशेषत्वस्य पक्षधर्म- १५ त्वम् साध्यधर्म सामान्येन च समानोऽर्थः सपक्ष इति तत्र वर्त्तमानस्य सपक्षे सत्त्वम्, न सपक्षोऽसपक्ष इत्यसपक्षेऽप्यसत्त्वं प्रतीयते } तदिदमनालोचिताभिधानम्; तथाहि -यो वचनविशेषः स साक्षात्कारिज्ञानपूर्वक इत्येतावन्मात्रमभिधाय नैव कश्चिदास्ते किन्तु हेतोर्धर्मिण्युपसंहारं करोति । तत्र यदि वचनविशेषश्चायं नष्ट-मुष्ट्यादिविषयो वचनसंदर्भ इति ब्रूयात् तदा साधर्म्यवत्प्रयोगप्रतीतिः, अथासाक्षात्कारिज्ञानपूर्वकश्चेत्यभिदध्यात् तदा वैधर्म्यवत इति संबन्धवचनपूर्व कात् २० पक्षधर्मत्ववचनात् प्रयोगद्वयावगतिः विवक्षित साध्यावगतिश्च । हेतु विरुद्धाऽनैकान्तिका अपि पक्षधर्मवचनमात्रेण न प्रतीयन्ते यदा तु संबन्धवचनमपि क्रियते तदा कथमप्रतीतिः ? तथाहियो वचनविशेषः स साक्षात्कारिज्ञानपूर्वक इत्युक्ते हेतुरवगम्यते, विधीयमानेनानूद्यमानस्य व्याप्तेः । यो वचनविशेषः सोऽसाक्षात्कारिज्ञानपूर्वक इत्युक्ते विरुद्धः, विपर्ययव्याप्तेः । यो वचनविशेषः स चक्षुरादिजनित ज्ञानपूर्वक इति अनैकान्तिकाध्यवसायः, व्यभिचारात् । तथा, त्रैरूप्यमपि हेतोर्गम्यत २५ एव, यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्यतया अवगम्यते; यत्र तु व्याप्यो धर्मो विवादास्पदीभूते धर्मिण्युपसंहियते स समुदायैकदेशतया पक्ष इति तत्रोपसंहृतस्य व्याप्यधर्मस्य पक्षधर्मत्वावगतिः । सा च व्याप्तिर्यत्र धर्मिण्युपदर्श्यते स साध्यधर्मसामान्येन समानोऽर्थः सपक्षः प्रतीयत इति सपक्षे सत्वमप्यवगम्यते । सामर्थ्याच्च व्यापकनिवृत्तौ व्याप्यनिवृत्तिर्यत्रावसीयते सोऽसपक्ष इति असपक्षेऽप्यसत्वमपि निश्चीयते इति नार्थः प्रतिज्ञावचनेन । तदाह धर्मकीर्त्तिः- “यदि प्रती - ३० तिरन्यथा न स्यात् सर्व शोभेत, दृष्टा च पक्षधर्मसंबन्धवचनमात्रात् प्रतिज्ञावचनमन्तेरणापि प्रतीतिरिति कस्तस्योपयोगः " ? [ [.] यदा च प्रतिज्ञार्वेचनं नैरर्थक्यमनुभवति तदा तदावृत्तिवचनस्य निगमनलक्षणस्य सुतरामनुपयोग इति न प्रतिज्ञाद्यवचनमपि प्रकृतसाधनस्य न्यूनतादोषः : केवलं तत्प्रतिपाद्यस्यार्थस्य स्वसाध्याविनाभूतस्य हेतोः साध्यधर्मिण्युपसंहारमात्रादेव सिद्धत्वाद् अर्थादापन्नस्य स्वशब्देन पुनरभिधानं निग्रहस्थानमिति प्रतिज्ञादिवचनं वादकथायां क्रियमाणं ३५ तद्वक्तुर्निग्रहमापादयति । उपनयवचनं तु हेतोः पक्षधर्मत्वप्रतिपादनादेव लब्धमिति तस्यापि ततः पृथक् प्रतिपादने पुनरुक्ततालक्षण एव दोष इति न तदनभिधानेऽपि न्यूनं साधनवाक्यम्; ततः सर्वदोषरहितत्वात् साधनवाक्यस्य भवत्यतः प्रकृतसाध्यसिद्धिः । स्वसाध्याविनाभूतश्च हेतुः साध्यधर्मिण्युपदर्शयितव्यो वादकथायामित्यभिप्रायवता आचागाथासूत्रावयवेन तथाभूतहेतुप्रदर्शनं कृतमिति । तथाहि - ' समय विशासनम्' इत्यनेन गाथा ४० सूत्रावयववचनेन स्वसाध्यव्याप्तस्य हेतोः साध्यधर्मिण्युपसंहारः सूचितः । हेतोश्च स्वसाध्यव्याप्तिः १ पृ० ६३ पं० १८ । २- धर्मी पक्ष इति तत्र प्रवृत्त इति प्रवृ-वा० । ३ सामर्थ्याद्धि कां०] । ४- वचनमेव नै-भां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy