SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे समग्रसामग्रीप्रभवस्याप्यसत्यत्वं स्यात् । अथा विकलसामग्रीप्रभवं प्रत्यक्षं विकलसामग्रीप्रभवात् तस्माद विलक्षणमिति नायं दोषः, तदत्रापि समानम्। तथाहि-सम्यगशाततदर्थादू वचनाद् यद् नष्ट-मुष्टयादिविषयं विसंवादिज्ञानमुत्पद्यते तत् सम्यगवगततदर्थवचनोद्भवाद् विलक्षणमेव । यथा च विशिष्टसामग्रीप्रभवस्य प्रत्यक्षस्य न क्वचिद् व्यभिचार इति तस्या विसंवादित्वं तथाऽव५गतसम्यगर्थवचनोद्भवस्यापि नष्ट-मुष्ट्यादिविषयविज्ञानस्येति सिद्धमत्राविसंवादित्वलक्षणं विशेषणं प्रकृतहेतोः। ___ नाप्यलिङ्गपूर्वकत्वं विशेषणमसिद्धम्, नष्ट-मुष्ट्यादीनामस्मदादीन्द्रियाविषयत्वेन तल्लिङ्गत्वेनाभिमतस्याप्यर्थस्यास्मदाद्यक्षाविषयत्वान्न तत्प्रतिपत्तिः; प्रतिपत्ती वाऽस्मदादीनामपि तल्लिङ्गदर्शनाद् वचनविशेषमन्तरेणापि ग्रहो-परागादिप्रतिपत्तिः स्यात् । न हि साध्यव्याप्तलिङ्गनिश्च १० येऽग्नयादिप्रतिपत्ती वचन विशेषापेक्षा दृष्टा; न भवति चास्मदादीनां वचनविशेषमन्तरेण कदा चनापि प्रतिनियतदिक्-प्रमाण-फलाद्यविनाभूतग्रहो-परागादिप्रतिपत्तिरिति तथाभूतवचनप्रणेतुरतीन्द्रियार्थविषयं ज्ञानमलिङ्गमभ्युपगन्तव्यमित्यलिङ्गपूर्वकत्वमपि विशेषणं प्रकृतहेतो सिद्धम् । नाप्ययमुपदेशपरम्परयाऽतीन्द्रियार्थदर्शनाभावेऽपि प्रमाणभूतः प्रबन्धेनानुवर्तत इत्यनुपदेशपूर्वकत्वविशेषणासिद्धिरिति वक्तुं युक्तम्, उपदेशपरम्पराप्रभवत्वे नष्ट-मुष्ट्यादिप्रतिपादकवचन१५विशेषस्य वक्तुरज्ञान-दुष्टाभिप्राय-वचनाकौशलदोषैःश्रोतुर्वा मन्दबुद्धित्व-विपर्यस्तबुद्धित्व-गृहीतविस्मरणैः प्रतिपुरुषं हीयमानस्यानादो काले मूलतश्चिरोच्छेद एव स्यात् । तथाहि-इदानीमपि केचिद् ज्योतिःशास्त्रादिकमज्ञानदोषादन्यथोपदिशन्त उपलभ्यन्ते, अन्ये सम्यगवगच्छन्तोऽपि दुष्टाभिप्रा. यतया, अन्ये वचनदोषादव्यक्तमन्यथा चेति तथा श्रोतारोऽपि केचिद् मन्दबुद्धित्वदोषादुक्तमपि यथावन्नावधारयन्ति, अन्ये विपर्यस्तबुद्धयः सम्यगुपदिष्टमप्यन्यथाऽवधारयन्ति, केचित् पुनः २०सम्यक्परिज्ञातमपि विस्मरन्तीत्येवमादिभिः कारणैः प्रतिपुरुषं हीयमानस्यैतावन्तं कालं यावदा गमनमेव न स्याञ्चिरोच्छिन्नत्वेन, आगच्छति च; तस्मादन्तराऽन्तरा विच्छिन्नः सूक्ष्मादिपदार्थसाक्षात्कारिज्ञानवता केनचिदभिव्यक्त इयन्तं कालं यावदागच्छतीत्यभ्युपगमनीयमिति नानुपदेश. पूर्वकत्वविशेषणासिद्धिः। नाप्यन्वय-व्यतिरेकाभ्यां नष्ट-मुष्टयादिकं ज्ञात्वा तद्विषयवचनविशेषप्रवर्तनं कस्यचित् २५संभवति येनानन्वय-व्यतिरेकपूर्वकत्व विशेषणासिद्धिः स्यात्, यतो नान्वय-व्यतिरेकाभ्यां ग्रहोपरागौ-षधशक्त्यादयो ज्ञातुं शक्यन्ते, प्रावृट्समये शिलीन्ध्रो दवद् ग्रहो-परागादीनां दिक्प्रमाण-फल-कालादिषु नियमाभावात् । द्रव्यशक्तिपरिज्ञानाभ्युपगमेऽन्वय-व्यतिरेकाभ्यां यावन्ति जगति द्रव्याणि तान्येकत्र मीलयित्वैकस्य रस-कल्कादिमेदेन, कर्षादिमात्राभेदेन, बाल-मध्यमाद्यवस्थाभेदेन, मूल-पत्राद्यवयवभेदेन प्रक्षेपो-द्धाराभ्यामेकोऽपि योगो युगसहस्रेणापि न ३० ज्ञातुं पार्यते किमुतानेक इति कुतस्ताभ्यामौषधशत्त्यवगमः? तेन नानन्वय-व्यतिरेकपूर्वकत्वविशेषणस्यासिद्धिः। नापि नष्ट-मुष्ट्यादिविषयवचनविशेषस्यापौरुषेयत्वाद् विशिष्टज्ञानपूर्वकत्वस्यासिद्धरसिद्धः प्रकृतो हेतुः, अपौरुषेयस्य वचनस्य पूर्वमेव निषिद्धत्वात् । ____नाप्यसाक्षात्कारिशानपूर्वकत्वेऽपि प्रकृतवचनविशेषस्य संभवादनैकान्तिकः, सविशेषणस्य हेतो. विपक्षे सत्त्वस्य प्रतिषिद्धत्वात् । अत एव न विरुद्धः, विपक्ष एव वर्तमानो विरुद्ध न चास्य पूर्वोत. ३५प्रकारेणावगतस्वसाध्यप्रतिबन्धस्य विपक्षे वृत्तिसंभवः। अथ भवतु ग्रहो-परागाभिधायकवचनस्य तत्पूर्वकत्वसिद्धिरतो हेतोः, तत्र तस्य संवादात्, धर्मादिपदार्थसाक्षात्कारिशानपूर्वकत्वसिद्धिस्तु कथं तत्र तस्य संवादाभावात् ? न, तत्रापि तस्य संवादात् । तथाहि-ज्योतिःशास्त्रादेर्ग्रहोपरागादिकं विशिष्टवर्ण-प्रमाण-दिग्विभागादिविशिष्टं प्रतिपद्यमानः प्रतिनियतानां प्रतिनियतदेशवर्तिनां प्राणिनां प्रतिनियतकाले प्रतिनियतकर्मफलसंसूचकत्वेन प्रतिपद्यते । उक्तं च तत्र ___"नक्षत्र-ग्रहपञ्जरमहर्निशं लोककर्मविक्षिप्तम् । भ्रमति शुभाशुभमखिलं प्रकाशयत् पूर्वजन्मकृतम्"॥ [ ] अतो ज्योतिःशास्त्रं ग्रहो-परागादिकमिव धर्माऽधर्मावपि प्रमाणान्तरसंवादतोऽवगमयति तेन ग्रहोपरागादिवचनविशेषस्य धर्माऽधर्मसाक्षात्कारिज्ञानपूर्वकत्वमपि सिद्धम् । तत्सिद्धौ सकलपदार्थसा १-बिरोत्सन्न-मां. ब. । ४०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy