SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः। संबन्धित्वम्, कथं वा तज्ज्ञानस्य विपरीतख्यातित्वमिति ? यथा वा विशिष्टमन्त्रसंस्कृतचक्षुषामकष्टादिनिरीक्षणेनान्यदेशा अपि चौरादयो गृह्यमाणा न तद्देशा भवन्ति, नापि तज्ज्ञानं तद्देशादिसंबन्धित्वमनुभवति, तथा सर्वविदिशानमप्यसन्निहितकालं यद्यर्थमवभासयति स्वात्मना तत्कालसंबन्धित्वमननुभवदपि तदा को विरोधः, कथं वा तस्यातीतादेरर्थस्य तज्ज्ञानकालत्वमिति? न च सत्यस्वप्नज्ञानेऽप्यतीताद्यर्थप्रतिभासे समानमेव दृषणमिति न तदृष्टान्तद्वारेण सर्वशशान- ५ मतीताद्यर्थग्राहकं व्यवस्थापयितुं युक्तमिति वक्तुं युक्तम् , अविसंवादवतोऽपि ज्ञानस्य विसंवादविषये विप्रतिपत्त्यभ्युपगमे स्वसंवेदनमात्रेऽपि विप्रतिपत्तिसद्भावाद् अतिसूक्ष्मेक्षिकया तस्यापि तत्स्वरूपत्वासंभवात् सर्वशून्यताप्रसङ्गात्; तन्निषेधस्य च प्रतिपादयिष्यमाणत्वात् । अतो न युक्तमुक्तम् 'अथ प्रतिपाद्यापेक्षया' इत्यादि 'न भ्रान्तज्ञानवान् सर्वशः कल्पयितुं युक्तः' इतिपर्यन्तम् । यदप्युतम् ‘भवतु वा सर्वज्ञस्तथाप्यसौ तत्कालेऽप्यसर्वज्ञैर्शातुं न शक्यते' इत्यादि, तदप्यसंगतम् ; यतो १० यथा सकलशास्त्रार्थापरिज्ञानेऽपि व्यवहारिणा 'सकलशास्त्रज्ञः' इति कश्चित् पुरुषो निश्चीयते तथा सकलपदार्थापरिज्ञानेऽपि यदि केनचित् कश्चित् सर्वज्ञत्वेन निश्चीयते तदा को विरोधः? युक्तं चैतत् अन्यथा युष्माभिरपि सकलवेदार्थापरिज्ञाने कथं जैमिनिरन्यो वा वेदार्थज्ञत्वेन निश्चीयते? तदनिश्चये च कथं तद्याख्यातार्थानुसरणादग्निहोत्रादावनुष्ठाने प्रवृत्तिः? इति यत्किञ्चिदेतत् "सर्वशोऽयमिति ह्येतत्" इत्यादि। तदेवं सर्वज्ञसद्भावग्राहकस्य प्रमाणस्य शत्व-प्रमेयत्व-वचन-१५ विशेषत्वादेर्दर्शितत्वात् तदभावप्रसाधकस्य च निरस्तत्वात् 'ये बाधकप्रमाणगोचरतामापन्नास्ते 'असत्' इति व्यवहर्त्तव्याः' इति प्रयोगे हेतोरसिद्धत्वात् ये सुनिश्चितासंभवद्वाधकप्रमाणत्वे सति सदुपलम्भकप्रमाणगोचरास्ते 'सत्' इति व्यवहर्त्तव्याः, यथोभयवाद्यविप्रतिपत्तिविषया घटादयः, तथाभूतश्च सर्ववित् इति भवत्यतः प्रमाणात् सर्वज्ञव्यवहारप्रवृत्तिरिति । अथापि स्यात्-स्वविषयाविसंवादिवचनविशेषस्य तद्विषयाविसंवादिज्ञानपूर्वकत्वमात्रमेव २० भवता प्रसाधितम्, न चैतावताऽनन्तार्थसाक्षात्कारिज्ञानवान् सर्वज्ञः सिद्धिमासादयति, सकलसूक्ष्मादिपदार्थसार्थसाक्षात्कारिज्ञानविशेषपूर्वकत्वे हि वचनविशेषस्य सिद्ध तज्ज्ञानवतः सर्वज्ञत्वसिद्धिः स्यात् । न च तथाभूतज्ञानपूर्वकत्वं वचनविशेषस्य सिद्धम् , अनुमानादिशानादपि स्व विष. याविसंवादिवचन विशेषस्य संभवात् न च तथाभूतज्ञानवान् सर्वज्ञो भवद्भिरभ्युपगम्यत इत्येतद् हृदि कृत्वाऽऽह सूरिः-'कुसमयविसासणं' इति । सम्यक्-प्रमाणान्तराविसंवादित्वेन-ईयन्ते २५ परिच्छिद्यन्ते इति समया:-नष्ट-मुष्टि-चिन्ता-लाभाऽलाभ-सुखाऽसुख-जीवित-मरण-ग्रहो-पराग-मन्त्री-पधशत्त्यादयः पदार्थाः-तेषां विविधम्-अन्यपदार्थकारणत्वेन कार्यत्वेन चानेकप्रकारम्-शासनम् प्रतिपादकम् यतः शासनम् कुः पृथ्वी तस्या इव । अयमभिप्रायः-शत्व-प्रमेयत्वादेरनेकप्रकारस्य प्रतिपादितन्यायेन सर्वसत्त्वप्रतिपादकस्य हेतोः सद्भावेऽपि तत्कृतत्वेन शासनप्रामाण्यप्रतिपादनार्थ सर्वज्ञोऽभ्युपगम्यते; तस्य चान्यतो ३० हेतोः प्रतिपादनेऽपि तदागमप्रणेतृत्वं हेत्वन्तरात् पुनः प्रतिपादनीयं स्यादिति हेत्वन्तरमुत्सृज्य प्रतिपादनगौरवपरिहारार्थ वचनविशेषलक्षण एव हेतुस्तत्सद्भावावेदक उपन्यसनीयः, सचानेन गाथासूत्रावयवेन सूचितः। अत एव संस्कृत्य हेतुः कर्तव्यः । तथाहि-यो यद्विषयाऽविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वको वचनविशेषः स तत्साक्षात्कारिज्ञानविशेषप्रभवः, यथाs. स्मदादिप्रवर्तितः पृथ्वीकाठिन्यादिविषयस्तथाभूतो वचनविशेषः, नष्ट-मुष्टिविशेषादिविषयाविसं-३५ वाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वकवचनविशेषश्चायं शासनलक्षणोऽर्थ इति । - न चात्राविसंवादित्वं वचनविशेषत्वलक्षणस्य हेतोर्विशेषणमसिद्धम्, नष्ट-मुष्टयादीनां वचन'विशेषप्रतिपादितानां प्रमाणान्तरतस्तथैवोपलब्धेरविसंवादसिद्धेयोऽपि क्वचिदू वचनविशेषस्य तत्र विसंवादो भवता परिकल्प्यते सोऽपि तदर्थस्य सम्यगपरिज्ञानात् सामग्रीवैकल्यात्। न पुनर्वचनविशेषस्यासत्यार्थत्वात् । न च सामग्रीधैकल्यादेकनासत्यार्थत्वे सर्वत्र तथात्वं परिकल्पयितुं४० युक्तम्, अन्यथा प्रत्यक्षस्यापि द्विचन्द्रादिविषयस्य सामग्रीवैकल्येनोपजायमानस्यासत्यत्वसंभवात १ पृ. ५२ पं० २५ । २०५३ पं०६।३ पृ. ५३ पं. ७ । ४ पृ. ५३ पं०९ । ५ पृ० ५३ पं० १९ । ६-सुख-दुःख-जी-मां । स० त०९
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy