SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - विकल्पाभावेऽपि मन्त्राविष्टकुमारिका दिवचनवन्नित्यसमाहितस्यापि वचनसंभवाद् 'विकल्पाभावे कथं वचनम्' इत्यादि निरस्तम् । दृश्यते चात्यन्ताभ्यस्ते विषये व्यवहारिणां विकल्पनमन्तरेणापि वचनप्रवृत्तिरिति कथं ततः सर्वज्ञस्य छाद्मस्थिकज्ञानासञ्जनं युक्तम् ? यदप्युक्तम् 'अतीतादेरसत्वात् कथं तज्ज्ञानेन ग्रहणम्, ग्रहणे वाऽसदर्थग्राहित्वात् तज्ज्ञानवान् भ्रान्तः स्यात्' इत्यादि, ५ तदप्ययुक्तम् ; यतः किमतीतादेरतीतादिकालसंबन्धित्वेनासत्त्वम् उत तज्ज्ञानकालसंबन्धित्वेन १ यद्यतीतादिकालसंबन्धित्वेनेति पक्षः, स न युक्तः; वर्त्तमानकालसंबन्धित्वेन वर्त्तमानस्येव तत्कालसंबन्धित्वेनातीतादेरपि सत्त्वसंभवात् । अथातीतादेः कालस्याभावात् तत्संबन्धिनोऽप्यभावः, तदसत्वं च प्रतिपादितं पूर्वपक्षवादिनाऽनवस्थे-तरेतराश्रयादिदोषप्रतिपादनेन; सत्यम्, प्रतिपादितं न च सम्यकू; तथाहि— नास्माभिरपरातीतादि काल संबन्धित्वादस्यातीतादित्वमभ्युपगम्यते - येना१० नवस्था स्यात् - नापि पदार्थानामतीतादित्वेन कालस्यातीतादित्वम् - येनेतरेतराश्रयदोषः - किन्तु स्वरूपत एवातीतादिसमयस्यातीतादित्वम् । तथाहि अनुभूतवर्त्तमानत्वः समयोऽतीत इत्युच्यते, अनुभविष्यद्वर्त्तमानत्वश्चानागतः तत्संबन्धित्वात् पदार्थस्याप्यतीताऽनागतत्वे अविरुद्धे । 'अथ यथाऽतीतादेः समयस्य स्वरूपेणैवातीतादित्वं तथा पदार्थानामपि तद्भविष्यतीति व्यर्थस्तदभ्युपगमः' एतच्चात्यन्तासङ्गतम्, न ह्येकपदार्थ धर्मस्तदन्यत्राप्यासञ्जयितुं युक्तः; अन्यथा निम्बादेस्ति१५ क्तता गुडादावप्यासञ्जनीया स्यात् । न च साऽत्रैव प्रत्यक्षसिद्धा इत्यन्यत्रासञ्जने तद्विरोध इत्युक्त्तरम् प्रकृतेऽप्यस्योत्तरस्य समानत्वात् । भवतु पदार्थधर्म एवातीतादित्वं तथापि नास्माकमभ्युपगमक्षतिः, विशिष्टपदार्थ परिणामस्यैवातीतादिकालत्वेनेष्टेः ६४ "परिणाम-वर्त्तनी - दिवि - ( वर्तना - विधि - ) पराऽपरत्व" - [प्रशमर० प्र० श्लो० २१८ ] इत्याद्यागमात् । तथाहि स्मरणविषयत्वं पदार्थस्यातीतत्वमुच्यते, अनुभवविषयत्वं वर्त्तमानत्वम्, २० स्थिरावस्थादर्शन लिङ्गबलोत्पद्यमान 'कालान्तरस्थाय्ययं पदार्थः' इत्यनुमानविषयत्वं धर्मोऽनागतकालत्वमिति । तेन यदुच्यते 'यदि स्वत एव कालस्यातीतादित्वं पदार्थस्यापि तत् स्वत एव स्यात्' इति परेण तत् सिद्धं साधितम् । तद् अतीतादिकालस्य सत्वान्न तत्काल संबन्धित्वेनातीतादेः पदार्थस्याऽसत्त्वम् वर्त्तमानकालसंबन्धित्वेन त्वतीतादेरसत्त्वप्रतिपादनेऽभिमतमेव प्रतिपादितं भवतिः न ह्यतीतकाल संबन्धित्वसत्त्वमेवैतज्ज्ञानकालसंबन्धित्वमस्मा२५ भिरभ्युपगम्यते । न चैतत्काल संबन्धित्वेनासत्त्वे स्वकालसंबन्धित्वेनाप्यतीतादेरसत्त्वं भवति; अन्यथैतत्काल संबन्धित्वस्याप्यतीतादिकालसंबन्धित्वेनासत्त्वात् सर्वाभावः स्यादिति सकलव्य वहारोच्छेदः । अथापि स्यात् भवत्वतीतादेः सत्त्वं तथापि सर्वज्ञज्ञाने न तस्य प्रतिभासः, तज्ज्ञानकाले तस्यासन्निहितत्वात्; सन्निधाने वा तज्ज्ञानावभासिन इव वर्त्तमानकालसंबन्धिनोऽतीतादेरपि वर्त्तमानकालसंबन्धित्व प्राप्तेः । न हि वर्त्तमानस्यापि सन्निहितत्वेन तत्कालज्ञानप्रति३० भासित्वं मुक्त्वाऽन्यद् वर्त्तमानकालसंबन्धित्वम्; एवमतीतादेस्तज्ज्ञानावभासित्वे वर्त्तमानत्वमेवेति वर्त्तमानमात्र पदार्थज्ञानवानस्पदादिवन्न सर्वशः स्यात् । किंच, अतीतादेस्तज्ज्ञानकालेऽसन्निहितत्वेन तज्ज्ञानेऽप्रतिभासः प्रतिभासे वा स्वज्ञानसंबन्धित्वेन तस्य ग्रहणात् तज्ज्ञानस्य विपरीतख्यातिरूपताप्रसक्तिः, एतदसंबद्धम् यतो यथाऽस्मदादीनामसन्निहित कालोऽप्यर्थः सत्यस्वप्नज्ञाने प्रतिभाति - न चासन्निहितस्य तस्यातीतादिकालसंबन्धिनो वर्त्तमानकालसंबन्धित्वम् ; नापि ३५स्वकालसंबन्धित्वेन सत्यस्वप्नज्ञाने तस्य प्रतिभासनात् तद्राहिणो ज्ञानस्य विपरीतख्यातित्वम् । यत्र ह्यन्यदेश - कालोऽर्थोऽन्यदेश-काल संबन्धित्वेन प्रतिभाति सा विपरीतख्यातिः । अत्र त्वतीतादिकालसंबन्धी अतीतादिकालसंबन्धित्वेनैव प्रतिभातीति न तत्प्रतिभासिनोऽर्थस्य तत्कालसंबन्धित्वेन वर्त्तमानत्वम्; नापि तद्ग्राहिणो विज्ञानस्य विपरीतख्यातित्वम्-तथा सर्वज्ञज्ञानेऽपि यदाऽतीतादिकालोऽर्थोऽतीतादिकालसंवन्धित्वेन प्रतिभाति तदा कथं तस्यार्थस्य वर्त्तमानकाल १ पृ० ५२ पं० २१ । २ पृ० ५२ पं० २२ । ३ पृ० ५२ पं० ३८-० ५३ पं० २ । ४ पृ० ५३ पं० ३ । ५ प्रशमरतिप्रकरणे “परिणाम - वर्तना - विधि - परापरत्वगुणलक्षणः कालः " श्लो० २१८ । तत्त्वार्थसूत्रे " वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य" अ० ५, सू० २२ । “परिणाम - वर्तना-परत्वापरत्वादयो वस्तुधर्माः स एव च कालः " भां० मां० टि० । ६ एष पाठः वा०, ब०, पू० । अन्यत्र सर्वत्र - ना-दि-परा- । ७पृ० ५३ पं० ३ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy