SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः। स्यात् । 'अथ यावदुपयोगिप्रधानपदार्थजातम्' इत्यादि अपि अयुक्तम् , सकलपदार्थशत्वप्रतिपादनात् । अत एव "ज्ञो शेये कथमज्ञः स्याद् असति प्रतिबन्धरि । सत्येव दाह्ये न ह्यग्निः क्वचिद् दृष्टो न दाहकः॥” [ इत्यत्र यदुक्तम् "किं सर्वज्ञत्वात्, अथ किश्चिज्ज्ञत्वादू इति, नोभयथापि हेतुः । यदि तावत् ५ सर्वज्ञत्वादिति हेत्वर्थः परिकल्प्यते तदा प्रतिज्ञार्थंकदेशो हेतुरसिद्ध एव कथं हि तदेव साध्यम् तदेव हेतुः। अथ किञ्चित्वादिति हेतुस्तदा विरुद्धता स्यात् । कथं हि किञ्चिज्ज्ञत्वं सर्वशत्वेन विरुद्ध सर्वज्ञत्वं साधयेत् ? अथ ज्ञत्वमात्रं हेतुस्तदाऽनैकान्तिकः, शत्वमात्रस्य किञ्चिज्ज्ञत्वेनाप्यविरोधात्'' इति, तदपि निरस्तम्। सामान्येन 'सर्वज्ञत्वात्' इत्यस्य हेतुत्वात् विशेषेण तज्ज्ञत्वस्य साध्यत्वात् सामान्य-विशेषयोश्च भेदस्य कथञ्चित् प्रतिपादयिष्यमाणत्वात् सामान्येन सर्वज्ञत्वस्य चानुमान-१० व्यवहारिणं प्रति साधितत्वात् । एतेन 'सूक्ष्माऽन्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात्' इत्यत्र प्रयोगे प्रमेयत्वहेतोर्यद् दूषणमुपन्यस्तं पूर्वपक्षवादिना तदपि निरस्तम्, सर्वसूक्ष्माऽन्तरितपदार्थानां व्याप्तिप्रसाधकेनानुमानप्रमाणेन वा एकेन सामान्यतः प्रमेयत्वस्य प्रसाधितत्वात् । यच्च 'प्रधानपदार्थपरिज्ञानं न सकलपदार्थज्ञानमन्तरेण संभवति' इति, तत् सर्वशवचनामृतलवास्वादसंभवो भवतोऽपि कथञ्चित् संपन्न इति लक्ष्यते । तथाहि तद्वचः ___ “जे एगं जाणइ" [ आचा० प्र० श्रु० अध्य० ३, उ० ४ सू० १२२] इत्यादि । तन्मतानुसारिभिः पूर्वाचार्यैरप्ययमर्थो न्यगादि "एको भावस्तत्त्वतो येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः। सर्वे भावाः सर्वथा येन दृष्टा एको भावस्तत्त्वतस्तेन दृष्ट"॥[ अस्यायमर्थ:-न ह्यसर्व विदा कश्चिदेकोऽपि पदार्थस्तत्त्वतो द्रष्टुं शक्यः, एकस्यापि पदार्थस्यानुगत-२० व्यावृत्तधर्मद्वारेण साक्षात् पारंपर्येण वा सर्वपदार्थसंबन्धिस्वभावत्वात्। तत्स्वभावाऽवेदने च तस्याऽवेदनमेव परमार्थतः ततस्तज्ज्ञानं स्वप्रतिभासमेव वेत्तीति नार्थो विदितः स्यात्, केवलं तत्राभिमानमात्रमेव लोकस्य । अथ संबन्धिस्वभावता पदार्थस्य स्वरूपमेव न भवति, यत् केवलं प्रत्यक्षप्रतीतं सन्निहितमात्रं स एव वस्तुस्वभावः; संबन्धिता तु तत्र परिकल्पितैव पदार्थान्तरदर्शनसंभवतया । तथा चोक्तम् "निष्पत्तेरपराधीनमपि कार्य स्वहेतुना। संबध्यते कल्पनया, किमकार्य कथञ्चन ?" ॥ [ ] इति, तदेतदयुक्तम् । एवं हि परिकल्प्यमाने स्वरूपमात्रसंवेदनाद् अद्वैतमेव प्राप्तम्, ततः सर्वपदार्थाभावे व्यवहाराभावः। अथ व्यवहारोच्छेदभयात् पदार्थसद्भावोऽभ्युपगम्यते तर्हि सर्वपदार्थसंबन्धिताऽपि साक्षात् पारंपर्येण च पदार्थस्वभावोऽभ्युपगन्तव्यः; अन्यथा साक्षात् पारंपर्यणे वाऽन्यप-३० दार्थजन्यजनकतालक्षणसंबन्धिताऽनभ्युपगमे तद्यावृत्त्यनुगतिसंबन्धिताऽनभ्युपगमे च पदार्थस्वरूपस्याप्यभावः। तत्पदार्थपरिज्ञाने च तद्विशेषणभूता तत्संबन्धिताऽपि ज्ञातैव, अन्यथा तस्य तत्परिज्ञानमेव न स्यात् । तत्परिज्ञाने च सकलपदार्थपरिज्ञानमस्मदादीनामनुमानतः, सर्वज्ञस्य च साक्षात् तज्ज्ञानेन सकलपदार्थज्ञानम् । लोकस्तु प्रत्यक्षेण कथञ्चित् कस्यचित् प्रतिपत्ता । तथाहिधूमस्याप्यग्निजन्यतया प्रतिपत्तौ बाष्पादिव्यावृत्तधूमस्वरूपप्रतिपत्तिः, अन्यथा व्यवहाराभावः ।३५ तथा नीलादिप्रतिभासस्य बाह्यार्थसंबन्धितयाऽप्रतिपत्तौ बाह्यार्थाप्रतिपत्तिरेव स्यात् । तस्मात् संबन्धितयैव पदार्थस्वरूपप्रतिपत्तिः तच्च संबन्धित्वं प्रमेयमनुमानेन प्रतीयतेऽभ्यासदशायामस्मदादिमिः, यत्र क्षयोपशमलक्षणोऽभ्यासस्तत्र तस्य प्रत्यक्षतोऽपि प्रतिपत्तिरिति कथं न प्रधानभूत. पदार्थवेदने सकलपदार्थवेदनम् एकवेदनेऽपि सकलवेदनस्य प्रतिपादितत्वात् ? १ पृ. ५२ पं० १७ । २-तम् "ज्ञत्वात् सर्वज्ञ इति किं सर्व-मां० । ३ पृ० ४४ पं० १८। ४-यत्वस्य हे-मां०। ५ पृ० ५१ पं० ३९। ६ पृ० ५२ पं० १८। ७ नयचक्रस्य प्रान्तभागे तु एवमुपलभ्यते "एको भावः सर्वभावखभावः सर्वे भावा एकभावस्वभावाः । एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः” इति-(हा. लि. पृ० ४७३) ८-तस्तज्ज्ञानं का०, गु०। ९-ण चाऽ-मां०। १०-स्य बाष्पबाह्या-मा० । -स्य प्रामाण्यवाह्या-वा० ।-स्य प्राप्यबाह्या-भां। ११ यत्र तु क्ष-मां० । १२ प्र० पृ. पं. १८।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy