SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - 'भव' शब्दव्युत्पत्तिरर्थसंस्पर्शिन्यभिधातुं युक्ता । डित्थादिशब्दव्युत्पत्तितुल्या तु यदि क्रियेत तदा नास्माभिरपि तत्प्रतिपादक प्रमाणपर्यनुयोगे मनः प्रणिधीयत इति पूर्वपक्षः ॥ ७२ [ उत्तरपक्षः-परलोकस्य व्यवस्थापनम् ] अत्रोच्यते यदुक्तम् 'पर्यनुयोगमात्र मस्माभिः क्रियते' इति, तत्र वक्तव्यम् - पर्यनुयोगोऽपि क्रिय५ माणः किं प्रमाणतः क्रियते. उताप्रमाणतः ? यदि प्रमाणतस्तदयुक्तम्, यतस्तत्कार्यपि प्रमाणं किं प्रत्यक्षम्, उतानुमानादि ? यदि प्रत्यक्षम् तदयुक्तम् प्रत्यक्षस्याविचारकत्वेन पर्यनुयोगस्वरूपविचाररचना - चतुरत्वात् । • न च प्रत्यक्षस्यापि प्रमाणत्वं युक्तम्, भवदभ्युपगमेन तलक्षणासंभवात् । तदसंभवश्च स्वरूपव्यवस्थापकधर्मस्य लक्षणत्वात् । तत्र प्रत्यक्षस्य प्रामाण्यस्वरूपव्यवस्थापको धर्मोऽविसंवादित्वल१० क्षणोऽभ्युपगन्तव्यः । तचाविसंवादित्वं प्रत्यक्षप्रामाण्येनाविना भूतमभ्युपगम्यम्, अन्यथाभूतात् ततः प्रत्यक्षप्रामाण्यासिद्धेः: सिद्धौ वा यतः कुतश्चिद् यत् किञ्चिदनभिमतमपि सिध्येदित्यतिप्रसङ्गः । स चाविनाभावस्तस्य कुतश्चित् प्रमाणादवगन्तव्यः, अनवगत प्रतिबन्धादर्थान्तरप्रतिपत्तौ नालिकेरद्वीपवासिनोऽप्यनवगत प्रतिबन्धाद् धूमाद् धूमध्वजप्रतिपत्तिः स्यात् । अविनाभावावगमश्चाखिलदेश-कालव्याप्त्या प्रमाणतोऽभ्युपगमनीयःः अन्यथा यस्यामेव प्रत्यक्षव्यक्तौ संवादित्व - प्रामाण्ययोरसाववगतस्त१५ स्यामेवाविसंवादित्वात् तत् सिध्येत् न व्यक्तयन्तरे, तत्र तस्यानवगमात् । न चावगतलक्ष्यलक्षणसंबन्धा व्यक्तिर्देश- कालान्तरमनुवर्त्तते, तस्याः प्रत्यक्षव्यक्तेस्तदैव ध्वंसाद् व्यक्तयन्तराननुगमात् । अनुगमे वा व्यक्तिरूपताविरहात् अनुगतस्य सामान्यरूपत्वात् तस्य च भवताऽनभ्युपगमात् । अभ्युपगमे वा न सामान्यलक्षणानुमानविषयाभावप्रतिपादनेन तत्प्रतिक्षेपो युक्तः । स च प्रमाणतः प्रत्यक्ष लक्ष्य-लक्षणयोर्याप्त्याऽविनाभावावगमो यदि प्रत्यक्षादभ्युपगम्यते तदयुक्तम्, प्रत्यक्षस्य सन्निहितस्वविषयप्रतिभा२० समात्र एव भवता व्यापाराभ्युपगमात् । अथैकत्र व्यक्ती प्रत्यक्षेण तयोरविसंवादित्व-प्रामाण्ययोरविनाभावावगमादन्यत्रापि एवंभूतं प्रत्यक्षम् प्रमाणम्' इति प्रत्यक्षेणापि लक्ष्य-लक्षणयोर्व्याप्त्या प्रतिबन्धावगमस्तर्ह्यन्यत्रापि एवंभूतं ज्ञानलक्षणं कार्यम् एवंभूतज्ञानकार्यप्रभवम्' इति तेनैव कथं न सर्वोपसंहारेण कार्यलक्षणहेतोः स्वसाध्याविनाभावावगमः । येन 'अनुमानमप्रमाणम्, अविनाभावसंबन्धस्य व्याप्त्या ग्रहीतुमशक्यत्वात् इति दूषणमनुमानवादिनं प्रति भवताऽऽसज्यमानं शोभते । २५ किंच, अविसंवादित्वलक्षणो धर्मः प्रत्यक्षप्रामाण्यलक्ष्य व्यवस्थापकः प्रत्यक्षप्रतिबद्धत्वेन निश्चयः अन्यथा तत्रैव ततः प्रामाण्यलक्षणलक्ष्यव्यवस्था न स्यात्, असंबद्धस्य केनचित् सह प्रत्यासत्ति - वि प्रकर्षाभावात् तद्वदन्यत्रापि ततस्तद्व्यवस्थाप्रसङ्गः । तथाऽभ्युपगमे च यथा संवादित्वलक्षणो धर्मो लक्ष्यानवगमेऽपि प्रत्यक्षधर्मिसंबन्धित्वेनावगम्यते तथा धूमोऽपि पर्वतैकदेशे अनलानवगतावपि प्रदेशसंबन्धितयाऽवगम्यत इति कर्धम् 'समुदायः साध्यः तदपेक्षया च पक्षधर्मत्वं हेतोरवगन्त३० व्यम्, न च पक्षधर्मत्वाप्रतिपत्तौ साध्यधर्मा नलविशिष्टतत्प्रदेशप्रतिपत्तिः प्रतिपत्तौ वा पक्षधर्मत्वाद्यनुसरणं व्यर्थम्, तत्प्रतिपत्तेः प्रागेव तदुत्पत्तेः । समुदायस्य साध्यत्वेनोपचारात् तदेकदेशधर्मिधर्मत्वावगमेऽपि पक्षधर्मत्वावगमाददोषे उपचरितं पक्षधर्मत्वं हेतोः स्यादित्यनुमानस्य गौणत्वापत्तेः प्रमाणस्या गौणत्वादनुमानादर्थनिर्णयो दुर्लभः' इति चोद्यावसरः ? प्रत्यक्षप्रामाण्यलक्षणेऽपि क्रियमाणेऽस्य सर्वस्य समानत्वेन प्रतिपादितत्वात् । यदा चाविसंवादित्वलक्षण- प्रत्यक्षप्रामाण्यलक्ष्ययोः सर्वो३५ पसंहारेण व्याप्तिरभ्युपगम्यते, अविसंवादित्वलक्षणश्च प्रामाण्यव्यवस्थापको धर्मस्तत्राङ्गीक्रियते पूर्वोकन्यायेन तदा कथमनुमानं नाभ्युपगम्यते प्रमाणतया ? तथाहि - 'यत् किञ्चिद् दृष्टं तस्य यत्राविनाभावस्तद्विदस्तस्य तद् गमकं तत्र' इत्येतावन्मात्रमेवानुमानस्यापि लक्षणम् । तच्च प्रत्यक्षप्रामाण्यलक्षणमभ्युपगच्छताऽभ्युपगम्यते देवानांप्रियेण । तथा, प्रामाण्यमप्यनुमानस्याभ्युपगतमेव, यतो यदेवाविसंवादित्वलक्षणं प्रत्यक्षस्य प्रामाण्यम् अनुमानस्यापि तदेव । तदुक्तम् १ पृ० ६९ पं० ३८ । २ - रहानुगतस्य वा०, बा०, मां० विना सर्वत्र । ३ - भावमवगत्याऽन्य - वा०, मां०, बा० । ४ पृ० ७० पं० १९ - ३५ । ५ - वात् तदन्यत्रा - मां० विना । ६ " कथं नोद्यावसरः ? इति दूरस्थः संबन्धः " मां० भां०] टि० । ७ पृ० ७० पं० २३ । ८ प्र० पृ० पं० ८ ९ गतमेव देवा मां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy