SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। "अर्थस्यासंभवेऽभावात् प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्" ॥[ ] इति अर्थासंभवेऽभावः प्रत्यक्षस्य संवादस्वभावः प्रामाण्ये निमित्तम् , स च साध्यार्थाभावेऽभाविनो लिङ्गादुपजायमानस्यानुमानस्यापि समान इति कथं न तस्यापि प्रामाण्याभ्युपगमः ? किंच, अयं चार्वाकः प्रत्यक्षैकप्रमाणवादी यदि परेभ्यः प्रत्यक्षलक्षणमनवबुध्यमानेभ्यस्तत् ५ प्रतिपादयति तदा तेषां ज्ञानसंबन्धित्वं कुतः प्रमाणादवगच्छति? न तावत् प्रत्यक्षात्-परचेतोवृत्तीनां प्रत्यक्षतो ज्ञातुमशक्यत्वात्-किं तर्हि स्वात्मनि ज्ञानपूर्वको व्यापार-व्याहारौ प्रमाणतो निश्चित्य परेष्वपि तथाभूततद्दर्शनात् तत्संबन्धित्वमववुध्यते ततस्तेभ्यस्तत् प्रतिपादयति । तथाऽभ्युपगमे च व्यापार-व्याहारादेर्लिङ्गस्य ज्ञानसंबन्धित्वलक्षणस्वसाध्याव्यभिचारित्वं पक्षधर्मत्वं चाभ्युपगतं भवतीति कथमनुमानोत्थापकस्यार्थस्य त्रैरूप्यमसिद्धम्-येन 'नास्माभिरनुमानप्रतिक्षेपः१० क्रियते किंतु त्रिलक्षणं यदनुमानवादिभिर्लिङ्गमभ्युपगतं तन्न लक्षणभाग भवतीति प्रतिपाद्यते' इति वचः शोभामनुभवति-प्रत्यक्षलक्षणप्रतिपादनार्थ परचेतोवृत्तिपरिज्ञानाभ्यपगमे विलक्षण मस्यावश्यंभावित्वप्रतिपादनात् ? अथ नास्माभिः प्रत्यक्षमपि प्रमाणत्वेनाभ्युपगम्यते-येन 'तल्लक्षणप्रणयनेऽवश्यंभावी अनुमानप्रामाण्याभ्युपगमः' इत्यस्मान् प्रति भवद्भिः प्रतिपाद्येत-यत्तु “प्रत्यक्षमेवैकं प्रमाणम्" [ ] इति वचनं तत् तान्त्रिकलेक्षणालक्षितलोकसंव्यवहारिप्रत्यक्षापेक्षया, अत एव १५ लक्षणलक्षितप्रत्यक्षपूर्वकानुमानस्य "अनुमानमप्रमाणम्" इत्यादिग्रन्थसन्दर्भेणाप्रामाण्यप्रतिपादनं विधीयते न पुनर्गोपालाद्यज्ञलोकव्यवहाररचनाचतुरस्य धूमदर्शनमात्राविर्भूतानलप्रतिपत्तिरूपस्य, नैतच्चारु; तस्यापि महानसादिदृष्टान्तधर्मिग्रवृत्तप्रमाणावगतस्वसाध्यप्रतिवन्धनिश्चितसाध्यधर्मिधमधूमबलोद्भूतत्वेन तान्त्रिकलक्षणलक्षितप्रत्यक्षपूर्वकत्वस्य वस्तुतः प्रदर्शितत्वात् । 'एतत् पक्षधर्म त्वम्' 'इयं चास्य धूमस्य व्याप्तिः' इति साङ्केतिकव्यवहारस्य गोपालादिमूर्खलोकासंभविनोऽकिञ्चि २० करत्वात् । प्रत्यक्षस्य चाविसंवादित्वं प्रामाण्यलक्षणम् , तद् यथा संभवति तथा परतःप्रामाण्यं व्यवस्थापयद्भिः 'सिद्धं' इत्येतत्पदव्याख्यायां दर्शितं न पुनरुच्यते। तत् स्थितमेतत-न प्रत्यक्ष भवदभिप्रायेण प्रामाण्यव्यवस्थापकलक्षणसंभवःः तद्भावे वॉऽनुमानस्यापि प्रामाण्यप्रसिद्धिरिति न प्रत्यक्षं पर्यनुयोगविधायि । नाऽप्यनुमानादिकं पर्यनुयोगकारि, अनुमानादेः प्रमाणत्वेनानभ्युपगमात् । अथास्माभिर्यद्यप्य २५ नुमानादिकं न प्रमाणतयाऽभ्युपगम्यते तथापि परेण तत् प्रमाणतयाऽभ्युपगतमिति तत्प्रसिद्धेन तेन परस्य पर्यनुयोगो विधीयते ननु परस्य तत् प्रमाणतः प्रामाण्याभ्युपगमविषयः, अथाप्रमाणतः? यदि प्रमाणतः तदा भवतोऽपि प्रमाणविषयस्तत् स्यात् : नहि प्रमाणतोऽभ्युपगमः कस्यचिद् भवति कस्य चिन्नेति युक्तम् । अथाप्रमाणतोऽनुमानादिकं प्रमाणतयाऽभ्युपगम्यते परेण तदाऽप्रमाणेन न तेन पर्यनुयोगो युक्तः, अप्रमाणस्य परलोकसाधनवत् तत्साधकप्रमाणपर्यनुयोगेऽप्यसामर्थ्यात् । अथ तेन ३० प्रमाणलक्षणापरिज्ञानात् तत्प्रामाण्यमभ्युपगतमिति तत्सिद्धेनैव तेन परलोकादिसाधनाभिमतप्रमाणपर्यनुयोगः क्रियते; नन्वज्ञानात् तत् परस्य प्रमाणत्वेनाभिमतम् , न चाज्ञानादन्यथात्वेनाभिमन्य. मानं वस्तु तत्साध्यामर्थक्रियां निर्वर्त्तयति; अन्यथा विषत्वेनाहर्मन्यमानं महौषधादिकमपि तान् मारयितुकामेन दीयमानं स्वकार्यकरणक्षमं स्यात् । अथ नास्माभिः परलोकप्रसाधकप्रमाणपर्यनुयोगोऽनुमानादिना स्वतन्त्रप्रसिद्धप्रामाण्येन, पराभ्युपगमावगतप्रामाण्येन वा क्रियते किं तर्हि 'यदि पर-३५ लोकादिकोऽतीन्द्रियोऽर्थः परेणाभ्युपगम्यते तदा तत्प्रतिपादकं प्रमाणं वक्तव्यम्, प्रमाणनिबन्धना हि प्रमेयव्यवस्थितिः, तस्य च प्रमाणस्य तल्लक्षणाद्यसंभवेन तद्विषयाभिमतस्याप्यभावः' इत्येवंविचारणालक्षणः पर्यनुयोगः क्रियत इति न स्वतन्त्रानुमानोपन्यासपक्षधर्म्यसिद्ध्यादिलक्षणदोषावकाशो बृहस्पतिमतानुसारिणाम्। नन्वेवमप्यनया भङ्गया भवता परलोकाद्यतीन्द्रियार्थप्रसाधकप्रमाणपर्यनुयोगे प्रसङ्गसाधनाख्यमनुमानम् तद्विपर्ययस्वरूपं च स्ववाचैव प्रतिपादितं भवति । तथाहि-'प्रमा ४० १-न्धित्वलक्षणम-वि०। २-लक्षणलक्षि-वा० । ३ पृ. ७० पं० १९-पृ० ७१ पं० ३। ४ पृ० १५ पं०१०। ५चा-भां०, कां०, मां० । स० त० १०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy